Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.83
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.83
- Language
- English
v2.c84.83
मिश्रान् वर्णानतो वक्ष्ये वर्णसंयोगसम्भवान् ।
दरदं शङ्खसम्मिश्रं भवेत्कोकनदच्छविः ॥
अलक्तं शङ्खसम्मिश्रं सौराश्वसदृशं भवेत् ।
गैरिकं शङ्खसम्मिश्रं धूम्रच्छायं निरूपितम् ॥
हरितालं शङ्खयुतं घोरात्व ? सदृशप्रभम् ।
कज्जलं शङ्खसम्मिश्रं धूम्रच्छायं निरूपितम् ॥
नीली शङ्खेन संयुक्ता कपोताभा विराजते ।
राजावर्तस्स एवायमतसीपुष्पसन्निभः ॥
केवलैव हि या नीली नीलेन्दीवरसप्रभा ।
हरितालेन मिश्रा चेज्जायते हरितच्छविः ॥
गैरिकं हरितालेन मिश्रितं गौरतां व्रजेत् ।
कज्जलं गैरिकोपेतं श्यामवर्णं निरूपितम् ॥
अलक्तेकेन संसृष्टं कज्जलं पाटलं भवेत् ।
अलक्तं नीलिकायुक्तं कर्बुवर्णं भवेत् स्फुटम् ॥
एवं शुद्धाश्च मिश्राश्च वर्णभेदाः प्रकीर्तिता ।