Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c5.s5: Sources II

A Constructive Survey of Upanishadic Philosophy c5.s5

Language
English

Sources II

c5.s5.1

I (a) तज्जलानिति शान्त उपासीत । छां. III. 14. 1.
(b) यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति । तै. III. 1.
(c) किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठाः। श्वे. I. 1.

c5.s5.2

2 (a) आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त, सत्यं ब्रह्म, ब्रह्म प्रजापतिं, प्रजापतिर्देवान् । ते देवाः सत्यमेवोपासते ।

c5.s5.3

(b) तदेतत् त्र्यक्षरं सत्यमिति । स इत्येकमक्षरम् । तीत्येकमक्षरम् । यमित्येक मक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् । मध्यतोऽनृतम् । तदेतदमृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति । बृ. V. 5. 1.

c5.s5.4

3 वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥ यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥ छां. IV. 3. 1-2.

c5.s5.5

4 (a) अग्नियर्थैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । क. II. 5.

c5.s5.6

(b) एवमेव खलु सोम्य अनेन शुंगेनापोमूलमन्विच्छ, अद्भिः सोम्य शुंगेन तेजोमूलमन्विच्छ, तेजसा सोम्य शुंगेन सन्मूलमन्विच्छ । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदा- यतनाः सत्प्रतिष्ठाः ॥ छां. VI. 8. 4.

c5.s5.7

5 (a) अस्य लोकस्य का गतिरित्याकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति । आकाशो हि एव एभ्यो ज्यायान् । आकाशः परायणम् । छां. I. 9. 1.

c5.s5.8

(b) आकाशो वाव तेजसो भूयान् । आकाशे वै सूर्याचन्द्र- मसावुभौ । विद्युन्नक्षत्राण्यग्निः । आकाशेनाह्वयति...आकाशे जायते । आकाशमभिजायते । आकाशमुपासस्वेति । छां. VII. 12. 1.

c5.s5.9

6 असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । तै. II. 7.

c5.s5.10

7 नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत् । अशना- यया । अशनाया हि मृत्युः । तन्मनोऽकुरुत । आत्मन्वी स्यामिति । सोर्चन् अचरत् । तस्यार्चत आपोऽजायन्त ।...। तद्यदपां शर आसीत्तदहन्यत । सा पृथिव्यभवत् । तस्या- मभ्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः । 8 आदित्यो ब्रह्मेत्यादेशः । तस्योपव्याख्यानम् । असदेवेदमग्र आसीत् । तत्सदासीत् । तत्समभवत् । तदाण्डं निरवर्तत । तत्संवत्सरस्य मात्रामशयत् । तन्निराभिद्यत । ते आण्डकपाले रजतं च सुवर्णं चाभवताम् । तद्यद्रजतं सेयं पृथिवी । यत्सुवर्णं सा द्यौः । यज्जरायु ते पर्वताः । यदुल्बं स मेघो नीहारः । या धमनयस्ता नद्यः । यदस्तेयमदकं स समुद्रः । अथ यत्तदजायत सोऽसावादित्यः । तं जायमानं घोषा उलूखवो अनूदतिष्ठन् ।

c5.s5.11

9 अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति । दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् । स एष कोशो वसुधानः तस्मिन्विश्वमिदं श्रितम् ॥ छां. III. 15. 1.

c5.s5.12

10 (a) सदैव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्ध एक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सञ्जायत । कुतस्तु खलु सोम्य एवं स्यादिति होवाच कथमसतः सञ्जायेतेति । सत्वेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् । तदैक्षत बहुस्यां प्रजायेयेति । तत्तेजोऽसृजत । तत्तेज ऐक्षत बहुस्यां प्रजायेयेति तदपोऽसृजत...। ता आपः...अन्नमसृजन्त । छां. VI. 2. 1-4.

c5.s5.13

(b) सेयं देवतैक्षत हन्त अहमिमास्तिस्रो देवता अनेन जीवेन आत्मना अनुप्रविश्य नामरूपे व्याकरवाणि । तासां त्रिवृतं त्रिवृतं एकैकां करवाणीति । छां. VI. 3. 2-3.

c5.s5.14

(c) यदग्ने रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्य अपागादग्नेरग्नित्वं, वाचारम्भणं विकारो नामधेयं, त्रीणि रूपाणि इत्येव सत्यम् । यदादित्यस्य° यच्चन्द्रमसो° यद्विद्युतो° । छां. VI. 4. 1-4.

c5.s5.15

11 (a) कतमा सा देवतेति । प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते । छां. I. 11. 5

c5.s5.16

(b) अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति, प्राणं चक्षुः, प्राणं श्रोत्रं, प्राणं मनः, प्राणो ह्येषैतान्सर्वान्संवृक्त इति । (c) तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राण: प्राणेषु ।

c5.s5.17

12 (a) अथ वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं सम- र्पितम् । छां. VII. 15. 1-

c5.s5.18

(b) प्राणो ब्रह्मेति ह स्माह कौषीतकि: । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं, चक्षुर्गोप्तृ, श्रोत्रं संश्रावयितृ, वाक्परिषेष्ट्री । तस्मै वा एतस्मै प्राणाय ब्रह्मण एता: सर्वा देवता अयाचमानाय बलिं हरन्ति । कौ. II. 1-

c5.s5.19

13 (a) अथ ह प्राणा अहंश्रेयसि व्युदिरेऽहं श्रेयानस्म्यहं श्रेयान- स्मीति । ते ह प्राणा: प्रजापतिं पितरमेत्योचुर्भगवन्को न: श्रेष्ठ इति तान्होवाच यस्मिन्न उत्क्रान्ते शरीरं पापिष्ठ- तरमिव दृश्येत स व: श्रेष्ठ इति । सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतं मज्जीवितुमिति यथा कला अवदन्तः, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, ध्यायन्तो मनसैवामिति प्रिविवेश ह वाक् । चक्षुर्हो- च्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतं मज्जी- वितुमिति यथांधा अपश्यन्तः, प्राणन्तः प्राणेन, वदन्तो वाचा, शृण्वन्तः श्रोत्रेण, ध्यायन्तो मनसैवामिति प्रिविवेश ह चक्षु: । श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतं मज्जीवितुमिति यथा बधिरा अशृण्वन्तःप्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्षुषा, ध्यायन्तो मनसैवामिति प्रिविवेश ह श्रोत्रम् । मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथ- मशकतं मज्जीवितुमिति यथा बाला अमनस:, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेणैवामिति प्रिविवेश ह मन: । अथ ह प्राण उच्चिक्रमिषन्स यथा सुहय: पड्ढीशशंकून्संखिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमे- त्योचुर्भगवन्धेधि त्वं न: श्रेष्ठोऽसि मोत्क्रमीरिति । अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति । अथ हैनं श्रोत्रमुवाच यदहं संपदस्मि त्वं तत्संपदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति । न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणो ह्यैतानि सर्वाणि भवति ॥ छां. V. 1. 6-15.

c5.s5.20

(b) भगवन्कत्येव देवा: प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते

c5.s5.21

कः पुनरेषां वरिष्ठ इति । तस्मै स होवाचाकाशो ह वा एष देवो वायुरभिरापः पृथिवी वाङमनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्वाणमवष्टभ्य विधारयामः । तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाऽहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्येतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते एवं वाङमनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुवन्ति । एषोऽग्निश्चतपत्येष सूर्य एष पर्जन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ।...। या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि संतता शिवां तां कुरु मोत्क्रमीः ।

c5.s5.22

14 आयुः प्राणः प्राणो वा आयुः ।...। अस्ति त्वेध प्राणानां निःश्रेयसमिति । जीवति वागपेतो मूकान्हि पश्यामः, जीवति चक्षुरपेतोऽन्धान् हि पश्यामः, जीवति श्रोत्रापेतो बधिरान्हि पश्यामः, जीवति मनोऽपेतो बालान्हि पश्यामः । यो वै प्राणः सा प्रज्ञा, या वा प्रज्ञा स प्राणः सह ह्येतास्मिञ् शरीरे वसतः, सहोत्क्रामतः । ... यथामेर्ज्वलतः सर्वा दिशो विस्फुलिंगा विप्रतिष्ठेरन् एवमेवैतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते, प्राणेभ्यो देवाः, देवेभ्यो लोकाः । ... तद्यथा रथस्यारेषु नेमिर्पितो, नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः । स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतो न साधुना कर्मणा भूयान्भवति, नो एवासाधुना कनीयान् । कौ. III. 2-9.

c5.s5.23

15 (a) भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच । प्रजाकामो वै प्रजापतिः । स तपोऽतप्यत । स तपस्तप्त्वा । स मिथुनमुत्पादयते । रयिं च प्राणं चेतो मे बहुधा प्रजाः करिष्य इति । आदित्यो ह वै प्राणो रयिरेव चंद्रमाः... संवत्सरो वै प्रजापतिः तस्य अयने दक्षिणं चोत्तरं च ... एष ह वै रयिः यः पितृयानः... मासो वै प्रजापतिः तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः.... अहो- रात्रो वै प्रजापतिः तस्य अहुरेव प्राणो रात्रिरैव रयिः ।

c5.s5.24

(b) सोऽकामयत बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा इदं सर्वं असृजत यदिदं किंच । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च । तै. II. 6.

c5.s5.25

आत्मवेदमन आसीत् पुरुषविधः..... । सोहमस्मीति अग्रे व्याहरत् । ततोऽहनामाभवत् । तस्मादप्येतर्हि आमंत्रितो अहमयमित्येकाग्र उक्त्वा अथ अन्यन्नाम प्रब्रूते.... । सोऽबिभेत् । तस्मादेकाकी बिभेति । स हायमीक्षांचक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एव अस्य भयं वियय.... द्वितीयाद्वै भयं भवति । स वै नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत्... । स इममेवात्मानं द्वेधाऽपातयत्ततः पतिश्च पत्नी चाभवताम्.... । सा हेयमक्षांचक्रे कथं नु मात्मन एव जनयित्वा संभवति, हन्त तिरोऽसानीति सा गौरभवत् वृषभ इतरस्तां समेवाभवत्.... । घडवा इतराभवत् अश्ववृष इतरः । गर्दभी इतरा गर्दभ इतरस्तां समेवाभवत्....। अजायन्त एवमेव यदिदं किंच मिथुनमापिपीलिकाभ्यः, तत्सर्वमसृजत । बृ. I. 4. 1-4.

c5.s5.26

आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् । स ईक्षत लोकान्नु सृजा इति । स इमांल्लोकानसृजत अंभो, मरीचीः, मरं, आपः..... । स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति । सोऽद्भ एव पुरुषं समुद्धृत्यामूच्छर्यत् तमभ्यतपत्स्याभितप्तस्य मुखं निरभिद्यत यथांड मुखाद्वाचोऽग्निर्नासिकाभ्यां प्राणः प्राणाद्वायुर्क्षिणी निरभिद्यतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्यतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो, हृदयं निरभिद्यत हृदयान्मनो मनसश्चंद्रमा, नाभिनिरभिद्यत नाभ्या अपानोऽपानान्मृत्युः, शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः । तमशनापिपासाभ्यामन्यवार्जत्... । तं (आत्मानं) अश

c5.s5.27

नापिपासेऽब्रूतां अभिप्रजानीहीति । तेऽब्रवीदेतास्वेव वां देवतासु आभजामि, एतासु भागिन्यौ करोमीति । तस्माद्यस्य कस्यै च देवतायै हविर्गृह्यते भागिन्या एव अस्यां अशनापिपासे भवतः ॥ स ईक्षतेमे नु लोकाश्च लोकपालाश्च, अन्नमेभ्यः सृजा इति ।.... स ईक्षत कथं नु इदं मद्धते स्यादिति । स ईक्षत कतरेण प्रपद्या इति ...। स एतमेव सीमानं विदार्‍य पतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वाः । तदेतन्नांदनम् । तस्य त्रय आवसथाः त्रयः स्वप्नाः अयमावसथोऽयमावसथो ऽयमावसथ इति । स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततमपश्यत् । इदं अदर्शमिति ५ ३ । तस्मादिदंद्रो नाम .... तमिदंद्रं संतं इन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । परोक्षप्रिया इव हि देवाः । ऐ. I. १-३.

c5.s5.28

18 तस्माद् एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः, वायोरग्निः, अग्नेरापः, अद्‍भ्यः पृथिवी । तै. II. १.

c5.s5.29

19 दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यंतरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ एतस्माज्जायते प्राणो मनः सर्वे- न्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । .... तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ... अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिंधवः सर्वरूपाः । अतश्च सर्वा ओष- धयो रसश्च यैनेष भूतैस्तिष्ठते ह्यंतरात्मा ॥ मुं. II. I. २-९.

c5.s5.30

20 (a) कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्म्यनीशः सुख- दुःखहेतोः ॥ श्वे. I. २.

c5.s5.31

(b) येनावृतं नित्यमिदं हि सर्व ज्ञः कालकालो गुणी सर्व- विद्यः । श्वे. VI. २.

c5.s5.32

स विश्वकृद्विश्वविदात्मयोनिः कालकालो गुणी सर्व- विद्यः । श्वे. VI. १६.

c5.s5.33

अहमन्नमन्नमदन्तमाद्मि । तै. III. १०. ६.

c5.s5.34

(c) यच्च स्वभावं पचति विश्वयोनिः । श्वे. V. ५.

c5.s5.35

(d) तेनेशितं कर्म विवर्तते ह पृथिव्यप्तेजोऽनिलखानि चिन्त्यम् ।

c5.s5.36

कर्माध्यक्षः सर्वभूताधिवासः । श्वे. VI. II.

c5.s5.37

(e) आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोपि दृष्टः । श्वे. VI. I.

c5.s5.38

(f) एको हि रुद्रो न द्वितीयाय तस्थुः य इमांल्लोकान् ईशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति संजुकोपान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥ श्वे. III. 2. स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ श्वे. VI. I.

c5.s5.39

(g) स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः । श्वे. VI. 9. एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति ।

Linked texts (8)