History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53: अथ तृतीयोऽध्यायः ।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c53
- Language
- English
Contents
- c53.s1 अथोपरसाः साधारणरसाश्च । — 2 parts
- c53.s2 अथ गैरिकम्— — 1 part
- c53.s3 अथ कासीसम्— — 1 part
- c53.s4 अथ तुवरी— — 5 parts
- c53.s5 अथ कङ्कुष्ठम्— — 1 part
- c53.s6 अथ साधारणरसाः— — 1 part
- c53.s7 अथ कम्पिल्लः— — 1 part
- c53.s8 अथ गौरीपाषाणः— — 1 part
- c53.s9 अथ नवसारः— — 14 parts
अथ तृतीयोऽध्यायः ।
अथोपरसाः साधारणरसाश्च ।
c53.s1.1
अथ गन्धकः—
c53.s1.2
गन्धाश्मगैरिकासीसकाङ्क्षीतालशिलाञ्जनम् ।
कङ्कुष्ठञ्चेत्युपरसाश्चाष्टौ पारदकर्मणि ॥ 1.
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥ 12
चतुर्द्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
* * * * *
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ 13-15
गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ॥ 23
स्थाल्यां दुग्धं विनिचिप्य मुखे वस्त्रं निरुध्य च ।
गन्धकं तत्र निचिप्य चूर्णीतं सिकताकृति ।
छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ॥
ज्वालयेत्खर्परस्योर्द्धं वनच्छागैस्तथोपलैः ।
दुग्धे निपतितो गन्धो गलितः परिशुध्यति ॥ 24-25.
अथ गैरिकम्—
c53.s2.1
पाषाणगैरिकञ्चैकं द्वितीयं स्वर्णगैरिकम्।
पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम्॥ 46
गैरिकन्तु गवां दुग्धैर्भावितं शुद्धिम्ऋच्छति॥ 49.
अथ कासीसम्—
c53.s3.1
कासीसं बालुकाद्येकं पुष्पपूर्व्वमथापरम्। 51.
तुवरीसत्त्ववत्सत्त्वमेतस्यापि समाहरेत्॥ 54
अथ तुवरी—
c53.s4.1
सौराष्ट्राश्मनि सम्भूता¹ मृत्स्ना सा तुवरी मता।
वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी॥
* * फुल्लिका चेति द्वितीया परिकीर्त्तिता।
ईषत्पीता गुरुस्निग्धा * * *
निर्म्मोरा शुभ्रवर्णा च स्निग्धा साम्लापरा मता।
सा फुल्लतुवरी प्रोक्ता लेपात् ताम्रं चरेद्वयः॥ 59-62.
> काङ्क्षी कषाया कटुकाम्लकण्ठ्या
> केश्या व्रणघ्नी विषनाशनौ च।
> श्वित्रापह्ला नेत्रहिता त्रिदोष-
> शान्तिप्रदा पारदजारणी च॥ 63.
तुवरी काञ्जिके खिप्ता त्रिदिनाच्छुद्धिम्ऋच्छति।
क्षारारम्लैर्विमर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम्॥ 64.
गोपित्तेन शत वारान् सौराष्ट्रीं भावयेत् ततः।
धमित्वा पातयेत् सत्त्वं क्रामणं चातिगुह्यकम्॥ 65.
c53.s4.2
¹ सौराष्ट्रास्मनि, a variant in the Poona ed, which also agrees with B and K.
c53.s4.3
अथ तालकम्—
c53.s4.4
हरितालं द्विधा प्रोक्तं पत्राख्यं¹ पिण्डसंज्ञकम् ।
स्वर्णवर्णं गुरु स्निग्धं तनुपत्रं च भासुरम् ॥ 66
खिन्नं कूष्माण्डतोये वा तिलक्षारजलेऽपि वा ।
तोये वा चूर्णसंयुक्ते डोलायन्त्रेण शुध्यति ॥ 69.
मधुखल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥
उपलैर्द्दशभिर्देयं पुटं रुद्ध्वाथ पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ 74-75
पन्नालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकातैले मिश्रयित्वा ततः पचेत् ॥
अनावृतप्रदेशे च सप्तयामाव
c53.s4.5
गोशृङ्गदरसमूतेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम् ॥ 105-107.
अथ कङ्कुष्ठम्—
c53.s5.1
हिमवत्पादशिखरे कङ्कुष्ठमुपजायते । 109.
केचिद्वदन्ति कङ्कुष्ठं सद्योजातस्य दन्तिनः । 111
वदन्ति श्वेतपीताभं तदतीवविरेचनम् । 112.
अथ साधारणरसाः—
c53.s6.1
कम्पिल्लश्च वरो गौरीपाषाणो नवसारकः ।
कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुली ॥
मृद्दारशृङ्कमित्यष्टौ साधारणरसाः स्मृताः ।
रससिद्धिकराः प्रोक्ता नागार्जुनपुरःसरैः ॥ 120-121.
अथ कम्पिल्लः—
c53.s7.1
इष्टिकाचूर्णसङ्काशश्चन्द्रिकाढ्योऽतिरेचनः ।
सौराष्ट्रदेशे चोत्पन्नः स हि कम्पिल्लकः स्मृतः ॥ 122.
अथ गौरीपाषाणः—
c53.s8.1
स्फटिकाभश्च शङ्खाभो हरिद्राभस्त्रयः स्मृताः ।
तालवद्ग्राहयेत् सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् ॥ 124-126
अथ नवसारः—
c53.s9.1
करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।
क्षारोऽसौ नवसारः स्याच्चूल्लिकालवणाभिधः ॥
इष्टिकादहने जातं पाण्डुरं लवणं लघु ।
तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ।
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥
गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् । 127-129.
c53.s9.2
अथ वराटिकाः—
c53.s9.3
पीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका ।
रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥ 130.
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिंमवाप्नुयुः ॥ 134.
c53.s9.4
अथाग्निजारः—
c53.s9.5
समुद्रे ऽग्निनक्रस्य जरायुर्बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ 135
c53.s9.6
अथ गिरिसिन्दूरम्—
c53.s9.7
महागिरिषु चाल्पायःपाषाणान्तःस्थितो रसः 137.
c53.s9.8
अथ हिङ्गुलः—
c53.s9.9
एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥ 141.
दरदः पातनायन्त्रे पातितश्च जलाश्रये ।
तत्सत्त्वं सूतसङ्काशं पातयेन्नात्र संशयः ॥ 144
c53.s9.10
अथ मृदारशृङ्गरकम्—
c53.s9.11
सदलं पीतवर्णं च भवेदगुजंरमण्डले ।
अर्बुदस्य गिरेः पार्श्वे जातं मृद्दारशृङ्गकम् ॥
सीससत्त्वं गुरु ज्ञेयमभ्रमयं पगदापहम् ।
रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥
साधारंणरसाः सर्वे मातुलुङ्गाद्र्रकाम्बुना ।
त्रिरात्रं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ 145-147.
c53.s9.12
अथ राजावर्त्तः—
c53.s9.13
राजावर्त्तोऽल्परक्तेारुनीलिममिश्रितप्रभः¹ । 149.
लुङ्गाम्बुगन्धकोपेतो राजावर्त्तो विचूर्णिंतः ।
पुटनात्सप्तवारेण राजावर्त्तो मृतो भवेत् ॥ 153.
c53.s9.14
¹ नीलिमामिश्रितप्रभः, another reading in the Poona ed, which agrees with B and K., but it is grammatically inaccurate.