Pramāṇa · Search · About · API

Tattvatraya

The Three Realities

Piḷḷai Lokācārya's Maṇipravāḷa treatise on the conscious, the non-conscious and the Lord, the basic manual of Teṅkalai doctrine.

Language
Tamil
Date
1264–1369 CE
Author
Piḷḷai Lokācārya
Extent
159 passages, 1,922 words
Text
partly digitised
Source
archiveorg · The Tattvatraya; ed. Śrīrāmachandra Śāstrī Paṇaśīkara; Chowkhamba Sanskrit Series; Chowkhamba Sanskrit Series… · Scan of a printed edition hosted by the Internet Archive (archive.org); the ancient text is in the public…

Contents

Text

p12

हरिः ॐ तत्सत् । मुमुक्षोश्चेतनस्य मोक्षोत्पत्तौ तत्त्वत्रयज्ञानमपेक्षितम्, तत्त्वत्रयं चिदचिदीश्वरश्च ।

p13

चिदित्यात्मोच्यते, आत्मस्वरूपं “गत्वागृत्वोत्सरोत्तरम्” इत्युक्तप्रकारेण देहेन्द्रियमनःप्राणबुद्धिभ्यो विलक्षणमजडमानन्दरूपं नित्यमण्वव्यक्तमचिन्त्यं निरवयवं निर्विकारं ज्ञानाश्रय ईश्वरस्य नियाम्यं(१) धार्यं शेषम् ।

p14

आत्मस्वरूपं कथं देहादिविलक्षणमिति चेद् ? देहादीनां मम देहादिकमित्यात्मनः पृथगुपलभ्यमानत्वात्, इदमित्युपलभ्यमानत्वात्, आत्मनोऽहमित्युपलम्भात्, अस्य कदाचिदुपलम्भादात्मनः सर्वदोपलम्भात्, एतेषामनेकत्वादात्मन एकत्वादात्मैतेभ्यो विलक्षणः स्वीकार्यः। एवं युक्तीनां बाधसम्भावनायामपि शास्त्रबलेनात्मा देहादिविलक्षणः सिद्ध्यति ।

p15

नानामिन्द्रियाणामन्धबधिराद्यवस्थायामनुपलम्भात्, संकल्पादिहेतुतयोपलभ्यमानस्य मनसः कदाचिन्मूढतयाऽनुपलम्भात्, उच्छ्वासनिश्वासाभ्यामुपलभ्यमानस्य प्राणस्य कदाचिन्मोहाद्यवस्थायां रक्तस्पर्शाद्यनुमेय तयाऽनुपलम्भात्, विषयग्रहणवेलायामुपलभ्यमानस्य ज्ञानस्य विषयग्रहणाभावदशायामनुपलम्भात्, आत्मनस्तु प्राक् चक्षुःश्रोत्राभ्यां सुसम्पन्नोऽहमिदानीमन्धो जातो बधिरो जातः, पूर्वं सुविशदमनस्क इदानीं न किञ्चिज्जानामि, तदानीमहं निष्प्राण इदानीं सप्राणो जातः, मम प्राग् ज्ञानमजनि इदानीं नष्टमित्येतेषामुपलम्भदशायामनुपलम्भदशायां चाविशेषेणोपलभ्यमानत्वात् ।

p16

अजडत्वं नाम ज्ञानेन विना स्वयमेव प्रकाशामानत्वम् ।

p17

आनन्दरूपत्वं सुखस्वरूपत्वम्, प्रबुद्धः ‘सुखमहमस्वाप्सम्’ इति प्रतिसन्दधातीति सुखरूपं भवति ।

p18

नित्यत्वं सर्वकालवर्तित्वम् । सर्वकालसत्त्वे जन्ममरणाद्युपपत्तिः कथमिति चेन्न । जन्म देहसम्बन्धो, मरणं देहवियोगः ।

p19

अणुत्वं कथमिति चेत् ? हृदयप्रदेशादुत्क्रमणगमनागमनानां शास्त्रेणोक्तत्वादणुत्वं भवति ।

p20

नन्वणुर्हृदयदेशे तिष्ठति चेत्सर्वत्र शरीरे सुखदुःखे कथमनुभवतीति चेद् ? न, मणिद्युमणिदीपादीनामेकदेशस्थानां प्रभा यथा सर्वत्र व्याप्नोति, तथा ज्ञानं सर्वत्र व्याप्नोत्यतो न तद्भोगविरोधः । एकस्यैककालेऽनेकशरीरपरिग्रहश्च ज्ञानव्याप्त्या ।

p21

अव्यक्तत्वं नाम घटपटादिग्राहिचक्षुराद्यग्राह्यत्वम् ।

p22

अचिन्त्यत्वं नामाचित्सजातीयतया चिन्तयितुमनर्हत्वम् ।

p23

निरवयवत्वं नामावयवसमुदायानात्मकत्वम् ।

p24

निर्विकारत्वं नामाचिद्वद्विकारत्वेन विनैकरूपतयाऽवस्थानम् ।

p25

एवंस्थितत्वाच्छस्त्राग्निजळवातातपप्रभृतिभिश्च्छेदनदहनक्लेदनशोषणादीनामयोग्यम् ।

p26

आर्हता आत्मा देहपरिमाण इत्याहुः, तच्छ्रुतिवि-

p27

डूङ्गेत् । अनेकदेहान्परिगृह्णतां योगिनां स्वरूपस्य शैथिल्यं च प्रसज्येत ।

p28

ज्ञानाश्रयत्वं नाम ज्ञानस्याधारत्वम् ।

p29

कर्त्ता विज्ञानात्मा पुरुषः” “एवमेवास्य परिद्रष्टुः” इत्यादिश्रुत्यादिभिरात्मनो ज्ञातृत्वं सिद्धम् ।

p30

आत्मा ज्ञानानाधारो ज्ञानमात्रमिति चेत् ? अहं ज्ञानमित्येव प्रतिसन्दधीत न त्वहं जानामीति ।

p31

ज्ञातेत्युक्तौ कर्त्ता भोक्ता चेत्युक्तः, कर्त्तृत्वभोक्तृत्वे ज्ञानावस्थाविशेषौ ।

p32

केचिद् गुणानामेव कर्तृत्वं नात्मन इति वदन्ति, तदाऽस्य शास्त्रवश्यत्वं भोक्तृत्वं च न स्यात्।

p33

अतः शास्त्रस्यार्थवत्त्वे भोक्तुश्चेतनस्यैव कर्तृत्वं वक्तव्यम् । एतत्सर्वमभिप्रेत्य तद्भाष्ये शास्त्रवत्त्वं भोक्तृत्वं च न स्यादित्युकम् । सांसारिकप्रवृत्तिषु कर्तृत्वं न स्वरूपप्रयुक्तमपि तु गुणसंसर्गकृतम् । कर्तृत्वं चेश्वराधीनम् ।

p34

ज्ञानाश्रयश्चेदयं शास्त्रेषु ज्ञानत्वेन कथन्निर्दिश्यते । ज्ञानेन विनाऽस्य प्रकाशात् ज्ञानस्य सारभूतगुणत्वेन निरूपकधर्मतया तथा निर्दिश्यते ।

p35

नियाम्यत्वं नामेश्वरबुद्ध्यधीन सकलव्यापारत्वम् ।

p36

धार्यत्वं नाम तत्स्वरूपसङ्कल्पव्यतिरेकप्रयुक्तस्वसत्ताव्यतिरेकयोग्यत्वम् ।

p37

शेषत्वं नाम चन्दनकुसुम ताम्बूलादिवत्तस्येच्छाविनियोगार्हत्वम् । इदं च गृहक्षेत्रपुत्रकलत्रादिवत्पृथक्स्थित्यादीनां योग्यं न भवति, किन्तु शरीरवत्तद्योग्यं भवति ।

p38

आत्मस्वरूपं च बद्धमुक्तनित्यभेदेन त्रिविधम् । बद्धा इत्युच्यन्ते संसारिणः । मुक्ता निवृत्तसंसाराः । नित्या इत्युच्यन्ते कदाऽपि संसारमप्राप्ताः शेषशेषाशनादयः ।

p39

“जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते” ॥

p40

जलस्याग्निसंसृष्टस्थालीसंसर्गेण यथौष्ण्यशब्दादयो जायन्ते । तथाऽऽत्मनोऽचित्सम्बन्धेनाविद्याकर्मवासनारुचयो जायन्ते । अचिचिन्निवृत्तावविद्यादयो निवर्त्तन्त इति वदन्ति ।

p41

"निर्वाणमय एवात्मा ज्ञानान्दमयोऽमलः । दुःखज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः ॥ जलस्येवाग्निसंसृष्टस्थालीसङ्गात्तथाऽपि हि । शब्दोद्रेकादिकान् धर्मान् तत्करोति यथा मुने ॥ तथाऽऽत्मा प्रकृतेः सङ्गादहंमानादिदूषितः । भजते प्राकृतान् धर्मानन्यस्तेभ्योऽपि सोऽव्ययः"॥ इत्युक्तम्।

p42

एते त्रयोऽपि प्रत्येकमनन्ताः ।

p43

केचिदात्मभेदो नास्ति, आत्मैक एवेति वदन्ति ।

p44

तत्पक्षे कस्यचित्सुखित्वकालेऽन्यस्य कस्यचिद्दुःखित्वं न स्यात् । तच्च देहभेदेनेति चेत् ? सौभरिशरीरेऽपि दृश्येत । कश्चित्संसरति कश्चिन्मुच्यते कश्चिच्छिष्यः कश्चिदाचार्य इति च न स्यात् । विषमदृष्टिश्च नोपपद्यते । आत्मभेदमभिदधत्या श्रुत्या च विरोधः ।

p45

श्रुतिरौपाधिकं भेदमाभिधत्त इति न शक्यते वक्तुम् , मोक्षदशायाम्भेदसत्त्वात् । तदानीं देवमनुष्यादिभेदानाञ्च निवृत्तावात्मनां स्वरूपस्यात्यन्तसमतया केनापि प्रकारेण भेदकथनायोग्यत्वेऽपि परिमाणगुरुत्वाकाराणां सौम्येऽपि स्वर्णकलशरतव्रीहिप्रभृतीनां यथा भेदः सिध्यति, तथाऽऽत्मस्वरूपभेदः सिद्धः । तस्मादात्मभेदः स्वीकार्य्यः ।

p46

एतेषां लक्षणं शेषत्वसहितं ज्ञातृत्वम् ।

p47

एतेषां ज्ञानं स्वरूपमिव नित्यं द्रव्यमजडमानन्दरूपञ्च ।

p48

तर्हि ज्ञानस्वरूपयोः परस्परं वैलक्षण्यं किमिति चेत् ? स्वरूपं धर्मि सङ्कोचविकासानर्हं स्वव्यतिरिक्ताप्रकाशकं स्वस्मै स्वयं प्रकाशकमणु, ज्ञानं धर्मः सङ्कोचविकासयोग्यं स्वव्यतिरिक्तप्रकाशकं स्वस्मै स्वाप्रकाशमात्मने प्रकाशकं विभु च ।

p49

तत्र केषांचिज्ज्ञानं सदा विभु । केषाश्विज्ज्ञानं सदाऽविभु । केषाश्विज्ज्ञानं कदाचिद्विभु ।

p50

ज्ञानं नित्यं चेन्मम ज्ञानमुत्पन्नं नष्टमिति व्यवहारः कथमिति चेत् ? इन्द्रियद्वारा प्रसृत्यविषयान् गृह्णाति निवर्त्तत इत्यतस्तथा व्यवह्रियते । इदमेकमपि नानात्वेन भासते प्रसरणभेदेन ।

p51

द्रव्यत्वं कथमिति चेत् ? क्रियागुणानामाश्नयत्वादजडत्वाच्च द्रव्यम्भवति । अजडत्वं चेत्सुषुप्तिमूर्च्छाऽऽदिषु कुतो न प्रकाशत इति चेत्? प्रसरणाभावान्न प्रकाशते ।

p52

आनन्दरूपत्वं नाम ज्ञानस्य प्रकाशावस्थायामनुकूलत्वम् । विषशस्त्रादिप्रकाशनावसरे प्रतिकूलत्वस्य हेतुर्देहात्मभ्रमादयः। ईश्वरात्मकत्वात्सर्वेषाम्पदार्थानामानुकूल्यमेव स्वभावः । प्रातिकूल्यमौपाधिकम् । अन्यथानुकूल्यं स्वाभाविकं चेत् ? कस्यचित्कुत्रचित्कालदेशयोरनुकूलानि चन्दनकुसुमादीनि, देशान्तरे कालान्तरे तस्यैव तद्देश एव तत्काल एवान्यस्य प्रतिकूलानि न स्युः। ॥ एवं चित्तत्त्ववेषकथनं समाप्तम् ॥

p53

"वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च। कोपाय च ततस्तस्माद्वस्तु वस्त्वात्मकं कुतः॥ तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते। तदेव कोपाय ततः प्रसादाय च जायते॥ तस्माद् दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्"॥

p54

॥ अथाचित्प्रकरणम् ॥

p55

अचिज्ज्ञानशून्यं विकारास्पदम् । इदं शुद्धसत्त्वं मिश्रसत्त्वं सत्त्वशून्यं चेति त्रिविधम् ।

p56

तत्र शुद्धसत्त्वं नाम रजस्तमोऽमिश्रकेवलसत्त्वं नित्यं ज्ञानानन्दजनकं कर्म्मणा विना केवलभगवदिच्छया विमानगोपुरमण्डपप्रासादादिरूपेणपरिणतं निरवधिकतेजोरूपं नित्यमुक्तैरीश्वरेण च परिच्छेत्तुमशक्यमत्यद्भुतं वस्तु ।

p57

केचनैतज्जडं वदन्ति, केचिदजडं वदन्ति । अजडत्वे नित्यानां मुक्तानामीश्वरस्य च ज्ञानेन विना स्वयमेव प्रकाशते । संसारिणां न भासते ।

p58

आत्मनो ज्ञानाच्च भेदः कथमिति चेत् ? अहमित्यभानात्, शरीरादिरूपेण परिणामात्, विषयैर्विना भानात्, शब्दस्पर्शादिमत्त्वाच्च भिद्यते ।

p59

मिश्रसत्त्वन्नाम सत्त्वरजस्तमोभिश्चिभिर्युक्तो बद्धचेतनानांज्ञानानन्दयोस्तिरोधायको विपरीतज्ञानजनको नित्य ईश्वरस्य (१) क्रीडापरिकरः प्रदेशभेदेन कालभेदेन च सदृशासदृशविकारोत्पादकः प्रकृत्यविद्यामायाऽपरनामाऽचिद्विशेषः ।

p60

प्रकृतिरित्युच्यते विकारोत्पादकत्वात्। अविद्या ज्ञानविरोधिवात्। माया विचित्रसृष्टिकत्वात्।

p61

इदञ्च वर्द्धमानं पञ्चविषयपञ्चज्ञानेन्द्रिय पञ्चकर्मेन्द्रियपञ्चभूतानि। अत्र प्राणगाप्रकृतिर्महदहङ्कारमनांसीत्युक्तप्रकारेण चतुर्विंशतितत्त्वरूपम्।

p62

अत्र प्रथमतत्त्वम्प्रकृतिः । अस्य चाविभक्ततमो विभक्ततमोऽक्षरमिति चावस्थाविशेषास्सन्ति ।

p63

अस्या गुणवैषम्येण महदादिविकारा जायन्ते । गुणाः सत्वरजस्तमांसि, एते प्रकृतेः स्वरूपानुबन्धनस्वभावाः प्रकृत्यवस्थायामनुद्भूता विकारदशायामुद्भूता भवन्ति ।

p64

सत्त्वं ज्ञानसुखे तदुभयसङ्गं च जनयति, रजो रागतृष्णासङ्गान् कर्मसङ्गं च जनयति, तमो विपरीतज्ञानमनवधानमालस्यं निद्राञ्च जनयति ।

p65

एतेषां साम्यदशायां विकाराः समा अस्पष्टाश्च भवन्ति, वैषम्यदशायां विकारा विषमाः स्पष्टाश्च भवन्ति । विषमविकारेषु प्रथमविकारो महान् । अयं सात्त्विकराजसतामसभेदेन त्रिविधोऽध्यवसायजनकः ।

p66

अतो वैकारिकतैजसभूतादिभेदेन त्रिविधोऽहङ्कारो जायते । अहङ्कारोऽभिमानहेतुः ।

p67

अत्र वैकारिकात् श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणरूपाणि ज्ञानेन्द्रियाणि पञ्च, वाक्पाणिपादपायूपस्थरूपाणि कर्मेन्द्रियाणि पञ्च, मनश्चेत्येकादशेन्द्रियाणि जायन्ते ।

p68

प्राविशन्, ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन्, चन्द्रमा मनो भूत्वा हृदयं प्राविशत्, मृत्युरपानो भूत्वा नाभिम्प्राविशत्, आपो रेतो भूत्वा शिश्नम्प्राविशन्” इत्युक्तप्रकारेण देवाधिष्ठितत्वाद्देवशब्दवाच्यानीन्द्रियाण्येकादश राजसाहङ्कारकार्याणीति केचनाहुः। केचित्सात्त्विकाहङ्कारकार्याण्याहुरित्युक्त्वा तत्र सात्त्विकाहङ्कारकार्याणीति पक्षस्यैव स्वपक्षत्वेन श्रीपराशरेण भगवता निश्चितत्वादेवमेतदुक्तेर्न विरोधः । इन्द्रियाण्येकादशेति नियमो न व्यष्टिविषयोऽपि तु समष्टिविषयः ।

p69

भूतादेःशब्दतन्मात्रं जायते । अस्मादाकाशः स्पर्शतन्मात्रञ्च जायते, तस्माद्वायुः रूपतन्मात्रञ्च जायते, तस्मात्तेजो रसतन्मात्रञ्च जायते तस्मादापो गन्धतन्मात्रञ्च जायते, तस्मात्पृथिवी जायते,

p70

'स्पर्शतन्मात्रप्रभृतीनि चत्वारि तन्मात्राण्याऽऽकाशप्रभृतीनाञ्चतुर्णां भूतानां कार्याणि वायुप्रभृतीनां चतुर्णाम्भूतानाङ्कारणानि भवन्ति' इत्यपि वदन्ति ।

p71

कर्तव्या। भूतात्तन्मात्रोत्पत्तिपक्षे चाष्टौ प्रकृतयः षोडश विकारा इत्युक्ताः षोडशविकाराश्च भूतव्यतिरिक्ता एकादशेन्द्रियाणि शब्दादयः पञ्चेति तन्मात्राणां भूतेभ्यः स्वरूपभेदाभावादवस्थाभेदमात्रत्वात् अष्टौ प्रकृतयः प्रकृतिमहदहङ्कारा आकाशादयः पञ्चेति उच्यन्त इति श्रुत्यविरोधेन निर्वहन्ति । अयमर्थो भगवता श्रीवेदव्यासेन— “अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश । अथ व्यक्तानि सप्तैव प्राहुरध्यात्मचिन्तकाः ॥ अव्यक्तं च महांश्चैव तथाऽहङ्कार एव च । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु । श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणश्च पञ्चमम् ॥ वाक् च हस्तौ च पादौ च पायुर्मेढ्रन्तथैव च । शब्दस्पर्शौ च रूपञ्च रसो गन्धस्तथैव च ॥ एते विशेषा राजेन्द्र ! महाभूतेषु पञ्चसु । दशेन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ मनः षोडशमित्याहुरध्यात्मगतिचिन्तकाः” ॥ इति मोक्षधर्मे याज्ञवल्क्यजनकसंवादे उक्तः, तथा मनुस्मृतौ— “मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे । श्रोत्राक्षिरसनाघ्राणत्वचः सङ्कल्प एव च ॥ शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः । उपस्थपादामिति च विकाराः षोडश स्मृताः” ॥ इत्युक्तम् । अस्यां स्मृतौ प्रकृतिषु परिगणितत्वात्प्रथमं निर्देशात् मन्तव्यतया मनःशब्देन प्रधानतत्त्वमुच्यते । सङ्कल्पशब्देन तत्कारणं मनो लक्ष्यत इति सुबालोपनिषद्व्याख्याने श्रुतप्रकाशिकाकारैर्व्याख्यानं कृतम् । एवमितिहासादिष्वभिहितत्वादष्टौ प्रकृतय इति श्रुतेर्भूतात्तन्मात्रोत्पत्तिपक्षे तत्त्वविरोधाभावः सुस्पष्टः “त्वचाबीज(१)मिवावृतम्” इति दृष्टान्तबलेन यथा त्वक्शून्यबीजस्याङ्कुरशक्तिर्नास्ति, तथाऽऽवरणशून्यस्योत्तरकार्यशक्तिर्नास्तीति भानात् कारणगुणं विनोत्तरोत्तरगुणविशेषेषु । आद्याद्यस्य गुणानेतानाप्नोति च परः परः” इति स्वविशेषस्योक्तगुणातिशयानुपपत्तेः,

p72

तन्मात्राणि भूतानां सूक्ष्मावस्थाः।

p73

अन्याभ्यामहङ्काराभ्यां स्वकार्य्यजनने राजसाहङ्कारः सहकारी भवति ।

p74

सात्त्विकाहङ्कारः शब्दतन्मात्रादिपञ्चकं सहकार्यासाद्य श्रोत्रादिज्ञानेन्द्रियाणि पञ्च सृजति । तानि सहकार्यासाद्य वागादिकम्र्मेन्द्रियाणि पञ्च सृजति ।

p75

सहकारिणं विना स्वयमेव मनः सृजतीति वदन्ति ।

p76

अथ स्वोक्तस्येन्द्रियोत्पत्तिक्रमस्य विरोधिने पक्षं निरासितुं तमुत्क्षिपतिकेचिदिन्द्रियेषु कानिचिद्भूतकार्याणीति वदन्ति । तच्छास्त्रविरुद्धम्, भूतान्याप्यायकानि ।

p77

एतेषाम्मेन्नं विना कार्य्यकरत्वाभावात् यथा कश्चिन्मृदं शर्करां जलं च मेलयित्वैकं द्रव्यङ्कृत्वा

p78

भित्तिकरोति, तथेश्वर एतत्सर्वं मेलयित्वा तैरैकमण्डं सृजति ।

p79

तत्र चतुर्मुखं सृजति । अण्डमण्डकारणानि च स्वयमेव सृजति । अण्डान्तर्गतवस्तूनि चेतनान्तर्यामी सन् सृजति ।

p80

अण्डानि चानेकानि चतुर्दशलोकयुक्तान्युत्तरोत्तरं दशगुणैरावरणैः सप्तभिरावृत्तानीश्वरस्य क्रीडाकन्दुकस्थानीयानि जलबुद्बुदवदेककाले सृष्टानि ।

p81

भूतेष्वाकाशोऽवकाशहेतुः । वायुर्वहनादिहेतुः । तेजः पचनादिहेतुः । जलं सेचनपिण्डीकरणादिहेतुः । पृथिवी धारणादिहेतुरिति वदन्ति ।

p82

श्रोत्रादिज्ञानेन्द्रियाणाम्पञ्चानां शब्दादिविषयपञ्चकग्रहणं कृत्यम् । वागादिकर्मेन्द्रियाणाम्पञ्चानां विसर्गशिल्पगत्युक्तयः कृत्यम् । मन एतेषां सर्वेषां समनम् ।

p83

आकाशादिभूतानां शब्दादयो गुणाः ।

p84

गुणविनिमयः पञ्चीकरणेन ।

p85

आकाशे नील्यप्रतीतिरपि तेनैव ।

p86

पूर्वपूर्वतन्मात्रसहितैरेवोत्तरोत्तरतन्मात्रैः स्वस्वगुणोत्पादनाद् (२) गुणाधिक्यं जायत इत्यपि वदन्ति ।

p87

सत्त्वशून्यङ्कालः । अयञ्च प्रकृतिप्राकृतानाम्परिणामहेतुः कलाकाष्ठादिरूपेण परिणतो नित्य ईश्वरस्य क्रीडापरिकरः शरीरञ्च ।

p88

शरीरमिति ।

p89

अन्यो द्वावचित्पदार्थौश्वरस्यात्मनश्च भोग्यभोगोपकरणभोगस्थानानि भवन्ति ।

p90

भोग्या विषयाः, भोगोपकरणानि चक्षुरादिकरणानि, भोगस्थानानि चतुर्दशभुवनानि समस्तदेहाश्च ।

p91

अत्र पूर्वाचितोऽधः सीमाऽस्ति, ऊर्द्धं परितश्च तन्नास्ति । मध्यमाचितः परितोऽधश्च सीमा नास्ति, उपर्यस्ति । कालः सर्वत्राविशेषेण तिष्ठति ।

p92

कालश्च परमपदे नित्योऽत्रानित्य इति वदन्ति ।

p93

केचित्कालो नास्तीत्याहुः । प्रत्यक्षेणागमेन च सिद्धत्वात्तथा वक्तुं न शक्यते ।

p94

बहवो दिगिति विलक्षणमेकं द्रव्यमस्तीति वदन्ति । अनेकहेतुभिराकाशादावन्तर्भावसम्भवात्तदपि न युक्तम् ।

p95

केचिदावरणाभाव आकाश इति वदन्ति । भावत्वेन भानात्तदपि न युक्तम् ।

p96

परे केचिदमुन्नित्यं निरवयवं विभुमप्रत्यक्षमाहुः। भूतादेरुत्पत्तेरहङ्कारादावभावाच्छब्दस्पर्शादिमत्त्वाच्चक्षुर्विषयत्वाच्चैतच्चतुष्टयमप्ययुक्तम् ।

p97

त्वगिन्द्रियेण ग्रहण। 'वायुरप्रत्यक्ष' इत्यप्ययुक्तम् ।

p98

तेजो भौमादिभेदेन बहुविधम् ।

p99

अत्रादित्यादितेजः स्थिरम् । दीपादितेजोऽस्थिरम् । तेजसो वर्णो रक्तः । स्पर्श औष्ण्यम् । जलस्य रूपं शुक्लम् , स्पर्शः शैत्यम्, रसो माधुर्यम् । भूमे रूपं रसश्च बहुविधः, स्पर्शोऽस्या वायोश्चानुष्णाशीतः ।

p100

एवमचित्त्रिविधम् ॥

p101

अथेश्वरतत्त्वं निरूप्यते ।

p102

ईश्वरोऽखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपो ज्ञानशक्त्यादिकल्याणगुणविभूषितः सकलजगत्सृष्टिस्थितिसंहारकर्त्ता "आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी" इत्युक्तचतुर्विधपुरुषसमाश्रयणीयो धर्म्मार्थकाममोक्षाख्यचतुर्विधफलप्रदो विलक्षणविग्रहयुक्तो लक्ष्मीभूमिनिला(१) नायकः ।

p103

भेदेन द्विविधः । एतत्सर्वं मूलकुदृषपादनावसरे द्रष्टव्यम् । “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म” इत्यादिश्रुतिभिरस्य सकलजगत्सर्गादिरुक्तः । अनेन पूर्वोक्तगुणविशिष्टस्य व्यापारविशेषा अभिहिताः ।

p104

अखिलहेयप्रत्यनीकत्वन्नामतमसस्तेजोवत् सर्पस्य गरुडवद्विकारादिदोषाणाम्प्रतिभटत्वम् ।

p105

अनन्तत्वन्नाम नित्यत्वे सति चेतनाचेतनव्यापकत्वे सत्यऽन्तर्यामित्वम् ।

p106

अन्तर्यामी चेद्दोषास्स्युरिति चेत् ? शरीरगतबाल्ययौवनादयो जीवात्मन इव त्रिविधचेतनाचेतनगतदोषा ईश्वरस्य न स्युः ।

p107

ज्ञानानन्दस्वरूपत्वन्नाम आनन्दरूपज्ञानात्मकत्वम् ।

p108

तच्च कार्त्स्न्येनानुकूलत्वं प्रकाशस्वरूपत्वञ्च ।

p109

अस्य ज्ञानशक्त्यादिकल्याणगुणाः नित्या निस्सीमा निस्संख्या निरुपाधिका निर्दोषाः समाधिकरहिताश्च ।

p110

एतेषु वात्सल्यादीनां विषया अनुकूलाः । शौर्यादीनां विषयाः प्रतिकूलाः, एतत्कारणभूतानां ज्ञानशक्त्यादीनां सर्वे विषयाः ।

p111

एतेषां सर्वे विषया इति ।

p112

ज्ञानमज्ञानां, शक्तिरशक्तानां (१)क्षमा सापराधानीं, कृपा दुःखिनां, वात्सल्यं सदोषाणां, शीलं मन्दानाम्, आर्जवं कुटिलानां, सौहार्दं दुष्टहृदयानां(२), मार्दवं विश्लेषभीरूणां, सौलभ्यं द्रष्टुमाशावताम् ।

p113

एवं सर्वत्र द्रष्टव्यम् ।

p114

एवमीश्वरः कल्याणगुणैर्युक्तत्वादन्येषां दुःखे दृष्टे हाहेति कृपां कृत्वा, तेषां सर्वदाऽविशेषेण शुभं विचिन्त्य, केवलस्वार्थस्थितिं(१)स्वपरसाधारणस्थितिं(१) च विना चन्द्रिकादक्षिणानिलचन्दनशीताम्बुवत्तु केवलपरार्थस्सन्न, स्वमाश्रितेषु जन्मज्ञानवृत्तनिबन्धनापकर्षमपश्यन्, स्वेषामन्येषामप्यनुपायत्वदशायां स्वयमुपायभूतः, सान्दीपनिपुत्रस्य(२)वैदिकपुत्राणां च प्रत्यानयनवद् दुष्करव्यापारान् कृत्वा तेषामपेक्षितानि(३)पूरयित्वा,तेषां ध्रुवपदवत्प्रागविद्यमानमपि कल्पयित्वा स्वस्य स्वस्य स्वं स्वेन स्वेन विनियुज्यत इति यथा ज्ञायते, तथाऽऽत्मानमात्मीयानि च वितीर्य, तेषां कार्येषु निर्वृत्तेषु स्वयं कृतकृत्यः, स्वकृतं शुभमेकमप्यविचिन्त्य तेषां सुकृतलवमेव विचिन्त्यानादिकालं वासिता अपि रसाः सर्वे विस्मर्यन्ते यथा, तथा सर्वदा स्वयं भोग्यो, भार्यापुत्रादिदोषान् दृश्यमानानप्यपश्यन् वर्तमानः पुरुष इव तेषां हृदयेनास्मरन्, दोषेषु महाक्ष्म्या प्रदर्शितेष्वपि तस्याः प्रतिद्वन्द्वीभूय दृढः सन् रक्षित्वा, कामि-

p115

नीमालिन्यादरवान् कामुक(१)इव तद्दोषान् भोग्यतया स्वीकुर्वन्, तेषु करणत्रयेणापि(२)ऋजुर्विश्लेषे तेषां व्यसनं गोष्पदं यथा भवेत्तथा स्वयमवसन्नस्तेषां यथेष्टं स्वात्मानमधीनं कृत्वा, तेषां बन्धनताडनादियोग्यतया सुलभो, यथा सद्योजाते वत्से प्रीत्या माता प्रथमवत्सं(३)ग्रासं दातुमागतानपि विषाणखुरयोः करोति, तथा महालक्ष्मीं नित्यसूरींश्च त्यक्त्वा स्नेहं कुर्वस्तिष्ठति ।

p116

र्तन्ते यदा, एवमन्येऽपि निवर्तन्ते, तदाऽयं रक्षको भवति, अशर-

p117

अयमेव सकलजगत्कारणभूतः ।

p118

केचित्परमाणुं कारणं वदन्ति, परमाणौ प्रमाणाभावाच्छ्रुतिविरोधाच्च न सम्भवति ।

p119

कापिलाः प्रधानङ्कारणमित्याहुः । प्रधानस्याचेतनत्वाद्दीश्वरानधिष्ठाने परिणामासम्भवात्सृष्टिस्थितिसंहारव्यवस्थानुपपत्तेस्तदपि न युक्तम् ।

p120

चेतनोऽपि न कारणम्, कर्मपरतन्त्रत्वादुःखित्वाच्च ।

p121

तस्मादीश्वर एवं सकलजगत्कारणम् ।

p122

अयं कारणं भवति, नाविद्याकर्मपरनियोगादिभिः, अपि तु स्वेच्छया ।

p123

सङ्कल्पेन करणादयमायाशून्यः ।

p124

अस्य प्रयोजनं केवललीला ।

p125

तर्हि संहारदशायां लीला विरमेत् ।

p126

संहारस्यापि लीलात्वान्न विरमेत् ।

p127

अयं च स्वयमेव जगद्रूपेण परिणतत्वादुपादानं च भवति ।

p128

तर्हि निर्विकारत्वं कथमिति चेत् ? स्वरूपस्य विक्राराभावान्निर्विकारत्वविरोधः ।

p129

तर्हि परिणामः कथमुपपद्यत इति चेत् ?

p130

विशिष्टविशेषणसद्दारकः कस्यचित्कीटस्य स्वभावः सर्वशक्तेर्न नोपपद्यते ।

p131

शरीरभूततया पृथक्स्थित्याद्यनर्हं विशेषणयुक्तं चिदचिद्रूपविशेषणमुच्यते । अथ वा, विशिष्टविशेषणमित्यस्य शरीरभूतं सत् सर्वदा विशेषणत्वेन सङ्गतं विशेषणमित्यर्थः । तदापि पृथक्स्थित्याद्यर्हेभ्यो दण्डकुण्डलादिभ्यो व्यावृत्तिः सिध्यति विशेषणेन सद्धारक इति । एवमपृथक्सिद्धविशेषणेन हेतुना द्वारसहितोऽस्य परिणामोऽस्तीत्यर्थः । अनेनापृथक् (१) सिद्धचिदचिद्रूपविशेषणद्वाराऽस्य परिणामोऽस्तीत्युक्तम् । नन्वेवं स्वरूपस्य विकाराभावे स्वशरीरभूतविशेषणद्वारा सर्वस्य कार्यजातस्या(२)यमुपादानं कथं भवतीत्यत आह-कस्यचित्कीटस्येत्यादि । अल्पशक्तिकस्य कीटस्य स्वरूपविकाराभावेऽपि स्वशरीरभूतविशेषणमुखेन तन्तुजालरूपकार्यं प्रति स्वयमुपादानत्वरूपः स्वभावः, “परास्य शक्तिर्विविधैव श्रूयते” इत्यधीयमानसर्वशक्ते(३)र्नोपपद्यत इति न युक्तम् । “यथोर्णनाभिः सृजते गृह्णते च,” “ऊर्णनाभिर्यथा सृष्ट्वा स्वयं तद्ग्रसते पुनः । तथा सृष्ट्वेद‌मखिलं स्वयं तद्ग्रसते हरिः”॥ इत्यादि । “कार्येऽनन्ते स्वतनुमुखतस्त्वामुपादानमाहुः सा ते शक्तिः सुकरमितरच्चेति वेलां विलङ्घ्य । इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा सैवेशाना ह्यतिशयकरी सोर्णनाभौ विभाव्या” ॥ इति भट्टार्या आहुः । एवं निमित्तोपादानकारणत्वे उक्त्वा सहकारिकारणत्वस्यानभिधानं सर्वज्ञत्वादिशुणयोगस्य प्रागभिहितत्वात् निमित्तोपादानयोरैक्याभिधानाच्च स्वत एव सिध्यतीत्यभिप्रायेण । अत एव वेदान्तसूत्रेष्वस्य विशिष्टानभिधानम् । एवमीश्वर एव त्रिविधकारणमिति साधितवान् अथ “अजामेकाम्, गौरनाद्यन्तवती, त्रिगुणन्तज्जगद्योनिरनादिप्रभवाप्ययम्, अजो ह्येकः, ज्ञाज्ञौ द्वावजावीशानीशौ, अजो नित्यः शाश्वतोऽयं पुराण” इत्यादिश्रुतिस्मृत्यादिषूक्तप्रकारेण नित्ययोश्चिद्चितोरीश्वरेण क्रियमाणा सृष्टिः कीदृशीत्याकाङ्क्षायामाह-

p132

ईश्वरस्य सृष्टिरचितः परिणामकरणं, चेतनस्य शरीरेन्द्रियप्रदानज्ञानविकासकरणञ्च ।

p133

अथ स्थितिसंहारप्रकाराश्च वक्तव्या इति विचार्य प्रथमं स्थितिप्रकारमाहस्थितिकरणं नाम सृष्टेषु वस्तुषु केदारे जलवदनुकूलतया प्रविश्य सर्वरक्षणकरणम् ।

p134

अथ संहारप्रकारमाहसंहारो नाम यथाऽविनीतः पुत्रः पित्रा शृङ्खले बद्धा स्थाप्यते, तथा विषयान्तरेषु सक्तानीन्द्रियाणि संहृत्यावस्थापनम् ।

p135

एतत् त्रितयमपि प्रत्येकं चतुर्विधम् ।

p136

सृष्टौ ब्रह्मणः प्रजापतीनां कालस्य सर्वस्य जगतश्चान्तर्यामी सन् रजोगुणयुक्तः सृजति ।

p137

स्थितौ विष्ण्वादिरूपेणावतीर्य मन्वादिमुखेन शास्त्रप्रवर्त्तनं कृत्वा सन्मार्गं दर्शयित्वा कालस्य सर्वभूतानां चान्तर्यामी सन् सत्त्वगुणयुक्तः स्थापयति ।

p138

संहारे रुद्रस्याग्न्यादीनां कालस्य सकलभूतानामन्तर्यामी तमोगुणविशिष्टः संहरति ।

p139

कांश्चित्सुखिनः कांश्चिद्दुःखिनश्च सृजत ईश्वरस्य वैषम्यनैर्घृण्ये स्यातामिति चेत् ?

p140

कर्म हेतूकृत्य करणान्मृदं भक्षयन्त्याः प्रजाया जिह्वायां चिह्नं कृत्वा विभीषयन्मातृवद्धितपरेण करणाच्च न स्याताम् ।

p141

अथ च त्रिविधजलयुक्तां पृथिवीं ससर्ज मेघवर्ण

p142

विग्रहश्च स्वरूपगुणेभ्योऽत्यन्ताभिमतः स्वानुरूपो नित्य एकरूपः शुद्धसत्त्वात्मकश्चेतनदेहवज्ज्ञानमयस्य स्वरूपस्याच्छादनमकुर्वन् माणिक्यमयपात्रे स्थापितसुवर्णवत्स्वर्णरूप(४)दिव्यात्मस्वरूपस्य प्रकाशको निरवधिकतेजोरूपः सौकुमार्यादिकल्याणगुणगणनिधिर्योगिध्येयः सकलजन्ममोहनस्समस्तभोगवैराग्यजनको नित्यमुक्तानुभाव्यो वासनातटाकवत् सकलतापहरोऽनन्तावतारकन्दं सर्वरक्षकः सर्वापाश्रयोऽस्त्रभूषणभूषित(५)स्तिष्ठति ।

p143

ईश्वरस्य स्वरूपं परव्यूहविभवान्तर्यामित्वार्चावतारभेदेन पञ्चप्रकारम् ।

p144

इत्येवं पञ्चधा प्राहुर्मां रहस्यविदो जनाः” ॥ इति विष्वक्सेनर्संहितायां स्वयमवोचत् । एतान्पञ्चप्रकारान् क्रमेणोपपादयिष्यन्प्रथमं परत्वमुपपादयति— तत्र परत्वमकालकाल्ये (१) ऽनवधिकानन्दे द्वितीये देशे नित्यमुक्तानां भोग्यत्वेनावस्थितिः ।

p145

व्यूहो नाम सृष्टिस्थितिसंहारार्थं संसारिसंरक्षणार्थमुपासकानुग्रहार्थं च सङ्कर्षणप्रद्युम्नानिरुद्धरूपेणावस्थितिः ।

p146

परत्वे ज्ञानादयः षट् पूर्णाः, व्यूहे द्वौ द्वौ गुणौ प्रकटौ ।

p147

तत्र सङ्कर्षणो ज्ञानबलाभ्यां युक्तो जीवतत्त्वमधिष्ठाय तत् प्रकृतेर्विविच्य प्रद्युम्नावस्थां प्राप्य शास्त्रप्रवर्त्तनं जगत्संहारं च करोति ।

p148

प्रद्युम्न ऐश्वर्य्यवीर्य्याभ्यां युक्तो मनस्तत्त्वमधिष्ठाय धर्मोपदेशं मनुचतुष्टयप्रभृतिशुद्धवर्गसृष्टिं च करोति ।

p149

"मनसोऽयमधिष्ठाता, मनोमय इतीरितः" ।

p150

"ऐश्वर्येण गुणेनासौ सृजते तच्चराचरम् । वीर्येण सर्वकर्माणि प्रवर्त्तयति सर्वशः" ॥

p151

"मनूनां सर्गमकरोन्मुखबाहूरुपादतः । चतुर्णां ब्राह्मणादीनां सर्गद्वारं जगत्पतिः ॥ द्विजयुग्मं क्षत्रयुग्मं वैश्ययुग्मं तथैव च । मिथुनं च चतुर्थस्य एतन्मनुचतुष्टयम् ॥ मनुभ्यो मानवशतं स्त्रीपुंमिथुनतो भवेत् । एकैकं वर्णभेदेन तेभ्यो मानवमानवाः ॥ सहस्रा सम्बभूवुश्च स्त्रीपुंमिथुनतस्तथा । मनुष्याश्च ततस्तेभ्यो बभूवुर्वीतमत्सराः ॥ एते हि शुद्धसत्त्वस्था देहान्तं नान्ययाजिनः(१) । निराशाः कर्मकरणान्मामेव प्राप्नुवन्ति ते ॥ त्रय्यन्तेषु च निष्णाता द्वादशार्द्धात्मचिन्तकाः । व्यूहानुवृत्तिं सततं कुर्वते ते जगत्पतेः ॥ तृतीयेन जगद्धात्रा निर्मिता मनसा स्वयम् । गुणप्रधानयोगे च निष्ठिताः पुरुषर्षभाः ॥ इत्येष शुद्धवर्गीयं गणेश तव कीर्तितः ।

p152

अनिरुद्धः शक्तितेजोभ्यां युक्तो रक्षणस्य तत्त्वज्ञानप्रदानस्य कालसृष्टेर्मिश्रसृष्टेश्च निर्वाहकः ।

p153

आरमता(१)मीश्वरं बिना देवादानेवाराध्यतयाऽध्यवस्यतां तत्र केषांचित्तमःप्रचुराणां भगवन्निन्दां कुर्वतामाऽऽराध्यं नियन्तारं तमऽजानतां व्यग्राणां वेदवादे मनो निवेश्य परस्परन्तमेव संलपतामऽत एव भगज्ज्ञानशक्त्योरन्वयशून्यानां स्वर्गादिष्वा ऽऽरमताकर्मफलावसाने ऽधः पततां कामविषयमनस्कानां जरामरणभाजां संसारमार्गगामिनां सृष्टिरूपां मिश्रवर्गसृष्टिं च करोतीत्यर्थः, 'अण्डमण्डकारणानि च स्वयमुत्पादयति, अण्डान्तर्गतवस्तूनि चेतनान्तर्यामी सन्नुत्पादयतीति समष्टिः सर्वाप्यद्वारिका, व्यष्टिसृष्टिः सर्वा सद्वारिकेति प्राक् स्वयमुक्तत्वात्, अस्मिन्नण्डे बद्धात्मसमष्टिभूतो ब्रह्मा जायते, ततः पूर्वं स्वसंकल्पेन भगवान्स्वयमेव सृजति, अतः परं ब्रह्मणोऽन्तर्यामी सन्सृजतीति श्रीकृष्णपादोक्तेश्च व्यष्टिसृष्टिः सर्वापि सद्वारिकैवाङ्गीकार्या, अतः प्रद्युम्नकृत्यत्वेनाभिहिता शुद्धवर्गसृष्टिरद्वारिका, अनिरुद्धकृत्यत्वेनाभिहिता मिश्रसर्गसृष्टिः सद्वारिकेत्यभिधानमयुक्तम्, तस्माच्छुद्धवर्गसृष्टिर्मिश्रवर्गसृष्टिश्च सद्धारकसृष्टौ चेतनानां कर्मविशेषप्रयुक्तसङ्कल्पविशेषेण भवेत्, एतच्छुद्धवर्गसृष्टेर्मिश्रवर्गसृष्टेश्च भगवतः श्रवणानन्तरम् भगवन्देवदेवेश सर्वज्ञ परमेश्वर । किमेष भवता सृष्टो मिश्रसर्गो जगत्पते ॥ शुद्धसृष्टिं विहायैषां निर्दयं(२) पुरुषोत्तम” । इति विष्वक्सेनेन पृष्टः(३)— ‘विहाय शुद्धसर्गे च मिश्रसर्गस्य कारणम् । शृणुष्व गणनाय त्वं दयालुनिर्द्यो न च ॥ सर्वज्ञोऽहं न सन्देहस्तथापि च सृजाम्यहम् । अनाद्यविद्यासंसृष्टशेमुषीकानरानहम् ॥ तान् वीक्ष्य(४)ज्ञानसङ्गं तु निषिद्धकरणं तथा । विहिताकरणं चापि वीक्ष्यैषामपराधकान्(५) ॥ मिश्रसर्गं करोम्येवं ब्रह्मणा परमेष्ठिना । एवं सुकृतलेशेन शुद्धसर्गं करोमि च ॥ मनुप्रमुखसर्गोऽयं शुद्धसर्गो मयेरितः । शुद्धसत्त्वमयाः सर्वे मद्भक्तिनिरताः सदा ॥

p154

विभवोऽनन्तोऽपि द्विविधो(१) गौणमुख्यभेदेन भिन्नश्च ।

p155

मनुष्यत्वं तिर्य्यक्त्वं स्थावरत्वमिव गौणत्वमिच्छयाऽऽगतं न स्वरूपेण ।

p156

तत्राप्राकृतविग्रहा अजहत्स्वभावविभवा दीपादुत्पन्नदीपव(१)त्स्थिता मुख्यप्रादुर्भावाः सर्वे मुमुक्षुणामुपास्याः ।

p157

विधिशिवपावकव्यासजामदग्न्यार्जुनवित्तेश दिरूपा गौणप्रादुर्भावाः सर्वेऽहङ्कारयुक्तजीवाधिष्ठातृत्वान्मुमुक्षूणामनुपास्याः ।

p158

नित्योदितशान्तोदितादिभेदो जाग्रत्संज्ञाऽऽदि-

p159

चातुरात्म्यं केशवादिमूर्त्यन्तराणि षड्विंशद्भेद्भिन्नपद्मनाभादिविभवा उपेन्द्रत्रिविक्रमदधिभक्तहयग्रीवनरनारायणहरिकृष्णमत्स्यकूर्मवराहाद्यवतारविशेषास्तेषां भुजायुधवर्णकृत्यस्थानादिभेदाश्च दुरवधारत्वाद्गुह्यतमत्वाच्च नोच्यन्ते ।

p160

केशवादिव्यूहान्तराणि षड्विंशद्भेदभिन्नाः पद्मनाभादिविभवा इति ।

p161

अवताराणां हेतुरिच्छा ।

p162

फलं साधुपरित्राणादित्रयम् ।

p163

बहुप्रमाणेषु भृगुशापादिभिर्जात इत्युक्तत्वादवताराणां हेतुः कर्म भवेदिति चेत् ?

p164

तत्र शापो व्याजोऽवतार ऐच्छिक इति परिहारः कृतः ।

p165

अन्तर्यामित्वमन्तः प्रविश्य नियन्तृत्वम् ।

p166

स्वर्गनिरकप्रवेशादिसर्वावस्थास्वपि सकलचेतनानां सहायभूतस्य तांस्त्यक्तुमसमर्थस्य स्थितिरथ शुभाश्रयेण विग्रहेण सहितस्य तेषां ध्येयत्वार्थं तान् रक्षितुं च बन्धुभूतस्य हृदयकमले स्थितिश्च ।

p167

अर्चावतारश्चेतनानामभिमतॆषु द्रव्येषु विभवविशेषेभ्यो वैलक्षण्येन देशकालाधिकारिनियमं विनाऽपराधानपश्यतोऽर्चकपरतन्त्रसमस्तव्यापारवत आलयेषु गृहेषु च वर्त्तमानस्य स्थितिः ।

p168

रुचिजनकत्वं शुभाश्रयत्वमशेषलोकशरण्यत्वमनुभाव्यत्वं सर्वमर्चावतारे परिपूर्णम् ।

p169

ह्वस्वामिभावव्यत्यासं कुर्वन्नज्ञ इवाशक्त इवास्वतन्त्र इव च स्थितोऽप्यपारकारुण्यपरवशः सर्वापेक्षितानि ददातीति ।

p170

इति श्री ६ मद्रम्यवरमुनिस्वामिनिबद्द्भाष्योपबृंहितं श्री ६ मल्लेाकाचार्यचरणप्रणीतं तत्त्वत्रयं समाप्तम् ॥

Commentaries (3)

Part of