Elements of Hindu Iconography v3.c20.s2: वैखानसागोक्त वैष्णवालयसप्तावरणदेवाः।
Elements of Hindu Iconography v3.c20.s2
- Language
- English
Contents
- v3.c20.s2.t1 ध्रुवबेरम् । — 1 part
- v3.c20.s2.t2 प्रथमावरणदेवाः । — 9 parts
- v3.c20.s2.t3 द्वितीयावरणदेवाः । — 9 parts
- v3.c20.s2.t4 तृतीयावरणदेवाः । — 62 parts
- v3.c20.s2.t5 आलयाभिमुखदेवाः । — 40 parts
- v3.c20.s2.t6 हवीरक्षकादयः । — 88 parts
वैखानसागोक्त वैष्णवालयसप्तावरणदेवाः।
v3.c20.s2.2
प्रा = प्राङ्मुखः । उ = उदङ्मुखः । द = दक्षिणमुखः । प = पश्चिमाभिमुखः ।
v3.c20.s2.4
परिवारदेवताः ।
ध्रुवबेरम् ।
v3.c20.s2.t1.1
अथ देवस्य देव्यादीनां वर्णवाहनकेत्वादीन्व्याख्यास्यामः । वर्णवाहनकेतुनामनक्षत्रपत्नीबीजाक्षरादीन् ज्ञात्वार्चयेत् । अन्यथा चेदसुरा गृह्णीयः । देवः कृतयुगे श्वेतवर्णस्त्रेतायुगे रुक्माभो द्वापरे रक्ताभः कलौ श्यामाभस्सर्वेषु श्यामवर्णो वा । सर्वेषां वर्णानां श्यामं मुख्यम् । तस्माच्छ्यामवर्णः पीताम्बरधरः किरीटकेयूरप्रलम्बज्ञोपवीती श्रीवत्साङ्कश्चतुर्भुजश्शङ्खचक्रधरोऽभयकट्यवलम्बितहस्तो गरुडध्वजवाहन ओङ्कारबीजः श्रवणजः पञ्चशब्दर्वो दक्षिणवामयोः श्रीभूमिसहितो विष्णुं महाविष्णुं सदाविष्णुं सर्वव्यापिनमिति चतुर्मूर्तिर्मन्त्रैरर्चयेत् । अथवा पञ्चमूर्तिर्मन्त्रैरर्चयेदिति केचित् ।
प्रथमावरणदेवाः ।
v3.c20.s2.t2.1
तत्प्राच्यां पुरुषः प्राङ्मुखः श्वेताभः पीतवासाश्चतुर्भुजश्शङ्खचक्रधरस्सर्वाभरणभूषितः श्रीमेदिनीभ्यां संयुक्तः पुरुषः पुरुषात्मकं परमपुरुषं धर्ममयमिति ।
v3.c20.s2.t2.2
आग्नेय्यां कपिलः प्राङ्मुखः श्वेताभोऽष्टहस्तो दक्षिणे चैकहस्तेन अभयप्रदः अन्यैश्चक्रासिहलधरो वामे चैकहस्तेन कटिमवलम्ब्यान्यैश्च शङ्खचाप‡दण्डधरो रक्तवासा मकुटादिसर्वाभरणभूषितो गायत्री†सावित्रीसंयुक्तः कपिलः कपिलं मुनिवरं शुद्धं वेदरूपिणमिति ।
v3.c20.s2.t2.3
‡ पाशेति पाठान्तरम् । † एतदादर्शान्तरे न ।
v3.c20.s2.t2.4
दक्षिणे दक्षिणामुखोऽञ्जनाभो रक्ताम्बरधरश्चतुर्भुजशङ्खचक्रधरस्सर्वाभरणभूषितो धृतिपौष्णीभ्यां सहितस्त्यं सत्यात्मकं ज्ञानमयं संहारमयमिति ।
v3.c20.s2.t2.5
नैर्ऋत्यां पश्चिमाभिमुखस्तप्तचामीकराभश्चतुश्शृङ्गो द्विशीर्षस्सप्तहस्तशङ्खचक्रजदवीसुक्त्रुजुहूपधरस्त्रिपादो रक्तवस्त्रधरस्सर्वाभरणभूषितो दक्षिणवामयोस्स्वाहास्वाधायुक्तो यज्ञो यज्ञं सर्वदेवमयं पुण्यं क्रतुमिति ।
v3.c20.s2.t2.6
पश्चिमे पश्चिमाभिमुखश्चतुर्भुजस्सर्वाभरणभूषितः कनकाभः श्यामाम्बरधरः पवित्रिक्षोणीभ्यां युक्तोऽच्युतोऽच्युतमपरिमितैश्वर्यं श्रीपतिमिति ।
v3.c20.s2.t2.7
वायव्ये पश्चिमाभिमुखस्फटिकाभश्श्यामाम्बरधरोऽभयवरहस्तः श्रीवत्साङ्कस्सर्वाभरणभूषितः कमला The वनीभ्यां युक्तो नारायणो नारायणं जगन्नाथं देवदेवं त्रयीमयमिति ।
v3.c20.s2.t2.8
उत्तरे चोत्तराभिमुखः प्रवालाभोनवसप्तपञ्चफणान्वितानन्तोत्सङ्गे आसीनः पुष्पाम्बरधरस्सर्वाभरणभूषितश्चतुर्भुजश्शङ्खचक्रधरः प्रमोदायिनीमहीयुक्तोऽनिरुद्धोऽनिरुद्धं महान्तं वैराग्यं सर्वतेजोमयमिति ।
v3.c20.s2.t2.9
ऐशान्यां प्राङ्मुखस्तरुणादित्यसङ्काशश्चतुर्भुजः शङ्खचक्रधरः श्रीवत्सवक्षास्सर्वाभरणसंयुक्तः श्वेतवस्त्रोत्तरीयोपवीती दक्षिणवामयोरिन्दिराधरणीभ्यां युक्तः पुण्यः पुण्यं पुण्यात्मकं पुण्यमूर्तिं पुण्यदायिनमिति ।
द्वितीयावरणदेवाः ।
v3.c20.s2.t3.1
द्वितीयावरणे प्राच्यां वराहः प्राङ्मुखश्श्यामाभश्चतुर्भुजश्शङ्खचक्रधरस्सर्वाभरणभूषितो रक्ताम्बरो वराहननः श्रीभूमिभ्यां सहितो वराहो वराहं वरदं भूमिसन्धारणं वज्रदंष्ट्रमिति ।
v3.c20.s2.t3.2
आग्नेय्यां प्राङ्मुख इन्दीवराभो हेमाम्बरधरश्चतुर्भुजश्शङ्खचक्रधरस्सर्वाभरणसंयुक्तः कमलाभ्यां युक्तस्सुभद्रस्सुभद्रं सुमुखं सुखप्रदं सुखदर्शनमिति ।
v3.c20.s2.t3.3
दक्षिणे दक्षिणाभिमुखो नारसिंहः श्वेताभो रक्तवस्त्रधरश्चतुर्भुजश्शङ्खचक्रधरोऽभयव्यवलम्बितहस्तस्सिंहाननः श्रीभूमिसहितो नारसिंहो नारसिंहं तपोनाथं महाविष्णुं महाबलमिति ।
v3.c20.s2.t3.4
नैरृत्यां पश्चिमाभिमुखो हेमाभः श्यामाम्बरधरश्चतुर्भुजः शङ्खचक्रधरः किरीटाद्याभरणान्वितः पद्मास्थिराभ्यां युक्त ईशितात्मा ईशितामेशं वरदं सर्वेषां ईशितात्मानमिति ।
v3.c20.s2.t3.5
पश्चिमे पश्चिमाभिमुखो वामनो ब्रह्मचारी वकुलफलाभो द्विभुजश्चत्रदण्डधरस्मेखलः कौपीनवासास्सपवीतकृष्णाजिनधरः पवित्रपाणिर्वामनो वामनं वरदं काश्यपमदितिप्रियमिति ।
v3.c20.s2.t3.6
वायव्ये पश्चिमाभिमुखो नीलाभः पीताम्बरधरो लक्ष्मीधरणीभ्यां युक्तस्सर्वोद्धस्सर्वेशं सर्वाधारं सर्वज्ञं सर्वोद्वहमिति ।
v3.c20.s2.t3.7
उत्तरे चोत्तराभिमुखस्त्रिविक्रमः श्यामाभश्चतुर्भुजः शङ्खचक्रधरः पीताम्बरधरो हारादिभूषितस्सुस्थितवामपादो ललाटान्तोद्धृतदक्षिणपाद उद्धृतपादे प्रसारितदक्षिणहस्तः कट्यवलम्बितवामहस्तस्त्रिविक्रमस्त्रिविक्रमं त्रिलोकेशं सर्वाधारं वैकुण्ठमिति ।
v3.c20.s2.t3.8
ऐशान्यां प्राङ्मुखो रक्ताभश्श्यामाम्बरधरः कनकाश्यामाभ्यां सहितस्सर्वविद्येश्वरस्सर्वविद्येश्वरं पुण्यं शुद्धं ज्ञानमिति ।
v3.c20.s2.t3.9
पुरुषादीनामुक्तं सर्वं विष्णोरिवेति विज्ञायते ।
तृतीयावरणदेवाः ।
v3.c20.s2.t4.1
तृतीयावरणे प्राच्यां श्यामाभोऽन्तर्मुखो जपाम्बरधरो ज्येष्ठजो द्विभुजो धृतकुलिशदक्षिणहस्तः कट्यवलम्बितवामहस्तः किरीटाद्या- भरणान्वितो मेघनादरवो वेणुध्वजो गजवाहनश्शचीपतिर्जकारबीज इन्द्रं शचीपतिं पुरूहूतं पुरन्दरमिति ।
v3.c20.s2.t4.2
आग्नेय्यां वह्निजातः किंशुकपुष्पसदृशशक्तिपाणिः कुण्डलाङ्गदहारशुकपिञ्छाम्बरधरः कपिध्वजोऽजवाहनस्स्वाहास्वधापतिरकारबीजस्सर्वदेवमुख आसीनोऽग्निर्भ्रिं जातवेदसं पावकं हुताशनमिति ।
v3.c20.s2.t4.3
याम्ये श्यामाभो रक्तवस्त्रधरो गदी व्यालध्वजो महिषवाहनो भरणीजो यकारबीजश्शकाङ्गीशो घण्टानादरवो यमो यमं धर्मराजं प्रेतेशं मध्यस्थमिति ।
v3.c20.s2.t4.4
नैर्ऋत्यां नीलाभो रक्ताम्बरश्शूली भौमिकाख्येयभवाहनः* कृकलासध्वजो मूलजस्संमोहिनीपतिः पकारबीजः पर्णरव† निर्ऋति[र*]रम्भाधिपतिर्नीलं निर्ऋतिं सर्वरक्षोऽधिपतिमिति ।
v3.c20.s2.t4.5
वारुण्यां नीलवर्णो रक्तवस्त्रधरः पाशी सिंहध्वजो वारुणजस्सुप्रतीकभवहनो‡ऽज्ञनापतिर्वकारबीजो दर्दुररवो वरुणो वरुणं प्रचेतसं रक्ताम्बरधरं यादस्पतिमिति ।
v3.c20.s2.t4.6
∗ ‘भौतिकाख्यो नरवाहन’ इति पाठान्तरम् । ध्यानमुक्तावल्यामस्य श्री भौतिकभवहनत्वमुक्तम् † ‘फणरव’ इति पाठान्तरम् । ध्यानमुक्तावल्यां पणववाक्त्वमुक्तम् । ‡ ‘सुप्रतीको मकरवाहन’ इति पाठान्तरम् ।
v3.c20.s2.t4.7
वायव्ये कनकाभसिताम्बरधरो मृगवाहनो वायुजो* वेणु- ध्वजः कुमुद्वतीपतिर्दण्डभ्युकाराक्षरबीजशङ्खरो वायुर्जवनं भूतात्मकं वायुमुदानमिति ।
v3.c20.s2.t4.8
उत्तरे सितवर्णः श्यामाम्बरधरो दण्डी पुष्पकवाहनः कृकला- सध्वजः ककारबीजो यवनलापतिर्धनिष्ठजो मृदङ्गरवः कुबेरः कुबेरं धन्यं पौलस्त्यं यक्षराजमिति ।
v3.c20.s2.t4.9
ऐशान्यां पाटलाभसिताम्बरो वृषध्वजवाहनो जटामौलिश्चतु- र्भुजस्त्रिनेत्रशूलपाणिशकारबीज आर्द्राजः पार्वतीशो डमरुकध्वनि- रीशान ईशानमीश्वरं देवं भवमिति ।
v3.c20.s2.t4.10
इन्द्रादयोऽष्टावभ्यन्तरमुखाः । एतेष्वनिरुद्धं त्रिविक्रमं वामनं च विना ध्रुवे स्थिते स्थितानासीने त्वासीनाञ्छयने यानके च तत्तत्कौतुकवद् ध्यायन्नर्चयेत् ।
v3.c20.s2.t4.11
देव्यौ ।
v3.c20.s2.t4.12
देवस्य दक्षिणे रुक्माभा क्षौमाम्बरधरा पद्महस्ता द्विभुजा कक्ष्याबन्धघनस्तनी ललाटोपरि पुष्पचूडान्विता मकुटहारादिसर्वाभरण- संयुक्ता श्रीवत्सादिबीजोत्तरफाल्गुनीजा मणिध्वानिरवा श्रीः श्रियं धृतिं पवित्रीं प्रमोदायिनीमिति ।
v3.c20.s2.t4.13
∗ स्वातीसंजनितत्वं ध्यानमुक्तावल्यामुक्तम् ।
v3.c20.s2.t4.14
वामे श्यामाभा रक्ताम्बरधरा रक्तोत्पलधरा मकुटादिसर्वाभरण- संयुक्ता वैशाखरेवतजा लक्ष्मीपूर्वाक्षराधिपा शङ्खर्वा भूर्हरिणीं पौष्णीं क्षोणीं महीमिति ।
v3.c20.s2.t4.15
पुरुषा(द्या)दिदेवीनां श्रीभूम्योरि[वे*]ति विज्ञायते ।
v3.c20.s2.t4.16
कर्मार्चास्थानदेवाः ।
v3.c20.s2.t4.17
कर्मार्चास्थाने पीठोपरि प्राच्यां प्राङ्मुखसुभद्रः पूर्ववत् ।
v3.c20.s2.t4.18
आग्नेय्यां प्राङ्मुखस्वर्णवर्णः पीताम्बरस्सकलाविश्वाभ्यां युक्त- स्सर्वस्सर्वं विश्वं सर्वाधारं सर्वेशमिति ।
v3.c20.s2.t4.19
दक्षिणे दक्षिणमुखो हयात्मकः श्वेताभः पीतवासा हयानन इलाविक्श्वाभ्यां सहितो हयात्मकं देवेशं सर्वानन्दं सनातनमिति ।
v3.c20.s2.t4.20
नैर्ऋत्यां पश्चिमाभिमुखसितवर्णश्यामाम्बरधरशुद्धाविमलाभ्यां युक्तसुखावहसुखावहं सुमुखं सुरेशं सुरप्रियमिति ।
v3.c20.s2.t4.21
पश्चिमे पश्चिमाभिमुखो रामदेवः कनकाभो नीलाम्बरधर- श्चक्रशङ्खपरशुधरो ब्राह्मीविजयाभ्यां सहितो रामदेवो रामदेवं महाबलं महाभद्रं परशुपाणिनमिति ।
v3.c20.s2.t4.22
वायव्ये पश्चिमाभिमुखः किंशुकपुष्पाभस्सिताम्बरधरसुभ- गासुमुखीभ्यां युक्तसंवहस्संवहं सर्वतेजोमयमानन्दं सर्वरूपिणमिति ।
v3.c20.s2.t4.23
उत्तरे चोत्तराभिमुखः पुण्यः पूर्ववत् ।
v3.c20.s2.t4.24
ऐशान्यां प्राङ्मुखोऽग्निवर्णस्सिताम्बरधरस्सुमताजनीभ्यां युक्त- स्सुवहस्सुवहं सुकृतं विज्ञानं देवमयमिति ।
v3.c20.s2.t4.25
सुभद्रादीनामुक्तं विष्णोरिवेति विज्ञायते ।
v3.c20.s2.t4.26
द्वितीयावरणे गजवाहनः श्वेताभस्सुध्वजो मित्रेशो मित्रः, ररुवाहनोऽग्निवर्णो जुहूध्वजस्सतीशोऽतिः, गजवाहनः कनकाभस्स्वा- रिकलाशध्वजशुभेश्वरशिवः, हयवाहनः प्रवालाभो वेदध्वजशुद्धेशो विश्वः, सर्वे रक्ताम्बरधरा भेरीरवा रोहिणीजाता नामाद्यक्षरबीजाथै- तान्पीठान्ते प्रागादिबहिर्मुखानर्चयेत् ।
v3.c20.s2.t4.27
हेमाभस्सनातनः कुन्ताभस्सनन्तनो गुञ्जाभस्सनत्कुमारस्फटि- क[भ*] स्सनकश्च, सर्वे श्यामाम्बरधराः पद्मवाहनाः कूर्चध्वजा ब्रह्मचा- रिणो नामाद्यक्षरबीजाः पुष्यजाश्शङ्करवाश्च । एतानाग्नेयादिषु कोणेषु बहिर्मुखानर्चयेत् ।
v3.c20.s2.t4.28
मित्रं लोकहितं विश्वात्मकं कविवरं, अत्रिं त्रिधागतिं तृतीया- त्मकं वेदमूर्तिं, शिवं मुनिवरं शुद्धं सुखोत्तरं, विश्वं भूतनायकं जगदीक्षणं सर्वमातृकं, सनातनं मुनीन्द्रं ब्रह्मसम्भवं निष्ठानकं, सनन्तनं गुरुं सर्वपूज्यं मन्त्रज्ञं, सनत्कुमारं ज्योतिरीशं निरुद्वेगमक्रोधं, सनकं नियन्तारं धर्मज्ञं धर्मवेदितमिति ।
v3.c20.s2.t4.29
तृतीयावरणे चेन्द्रादीन्पूर्ववत् ।
v3.c20.s2.t4.30
दक्षिणे श्रियं वामे हरिणीं च पूर्ववत् ।
v3.c20.s2.t4.31
दक्षिणे भित्तिपार्श्वे रुक्माभो हंसवाहनः कमण्डलुध्वजोऽभि- जिजातसावित्रीपतिरकारबीजो वेदरवो ब्रह्माणं प्रजापतिं पितामहं हिरण्यगर्भमिति । सुवर्णाभो ब्रह्मचारी रक्ताम्बरधरः पद्मवाहनः कूर्चध्वजश्शङ्खरो रोहिणीसहितो मकारबीजो मार्कण्डेयं पुण्यं पुराणमितमिति ।
v3.c20.s2.t4.32
वामे भित्तिपार्श्वे श्वेताभो व्याघ्रचर्माम्बरधरः परशुमृगधर- श्चतुर्भुजो वृषध्वजवाहनो डमरुध्वनिर्मकारबीज आर्द्राज उमापतिर्- जटाधरो गङ्गाधरं वृषभवाहनमष्टमूर्तिमुमापतिमिति । अग्निवर्णशुक्लाम्बर- धरः पद्मवाहनः कमण्डलुध्वजो रोहिणीजश्शङ्खरो नामाद्यक्षरबीजः ख्यातीशः पद्मापितरं धातृनाथं ख्यातीशं भृगुमिति ।
v3.c20.s2.t4.33
द्वारदेवाः ।
v3.c20.s2.t4.34
दक्षिणे गन्धर्वस्थाने वेणुवर्णाभः पुष्पकेतुस्सन्निनीश उदङ्मुखो धाता । वामे गन्धर्वस्थाने शुकपत्राभो गजवाहनस्सर्पध्वज ऊर्ध्वेशो दक्षिणामुखो विधाता । द्वारे दक्षिणशिरा उत्तरपाद ऊर्ध्वमुखो नील- वर्णो वृषभवाहनोऽभिकेतुः प्रीतीशो भृतिः । पूजकादिभिरर्चनाकला- दन्यत्र न लङ्घ्यः । उपरि शिरस्थाने पूजयेत् । तदुपरि शुक्लाभस्तु- रङ्गवाहनोऽश्वकेतुर्भरणीज उदक्छिरा अधोमुखः पतङ्गः । द्वारदक्षिण- भागे स्वर्णाभो गजवाहनो वृषध्वजो बलेशः पतिरः । वामे सुवर्णाभो रथवाहनश्शङ्खध्वजो धरणीशो वरुणः । एते नामाद्यक्षरबीजाश्शङ्खवा आश्वयुजादिहस्तजाश्च (?) । धातारं डम्भिनं सलिलं गदावहं, विधातारं कीनाशम्भुरण्डं न्यनं, भृतिं भुवङ्गुत्सङ्गं पीठं, पतङ्गुत्करमपदानं कपर्दिनं, पतिरं बलिदं मध्यगं वङ्गुरं, वरुणं तेजिनं दंसिनमिति षडेतान्कपाटं यत्रास्ति तवार्चयेत् ।
v3.c20.s2.t4.35
विमानपालाः ।
v3.c20.s2.t4.36
आलयस्य बहिःपार्श्वे प्राग्दारमध्ये प्राङ्मुखो दूर्वाङ्कुरवर्णो हेमाम्बरधरः प्रज्ञतीशो दण्डपाणिश्येनध्वजवाहनो रोहिणीजो नामा- द्यक्षरबीजो न्यक्षं दधीत्यकं पीवरमार्यकमिति ।
v3.c20.s2.t4.37
दक्षिणे दक्षिणाभिमुखो रक्तवर्णसिताम्बरधर उत्सायिनीपति- र्दण्डधरो भिण्डिपालध्वजो हयवाहनो मघोद्भवस्तुध्वनिविश्वधाय[क्षर*] बीजो विवस्वान्विवस्वन्तं भरतं विश्वकर्माणं मरीचिमन्तमिति ।
v3.c20.s2.t4.38
पश्चिमे पश्चिमामुखश्शरकाण्डध्वनिः पुष्पाम्बरधरः कपोत- वाहनो धूमकेतुर्हलायुधो बहुप्रजानाथो विशाखजो मेघरवो नामा- द्यक्षरबीजो मित्रो मित्रमितवरं राजिष्मन्तं रमणकमिति ।
v3.c20.s2.t4.39
उत्तरे चोत्तराभिमुखो हेमाभः पुष्पान्बरधरो मृगवाहनो महिषध्वजो मूलजो दण्डपाणिर्वाणीपतिर्वदेरवः क्षत्ता क्षत्तारं महीधरं उर्वरोहं शेवाधिमिति ।
v3.c20.s2.t4.40
द्वारपालाः ।
v3.c20.s2.t4.41
प्रथमद्वारदक्षिणे श्वतवर्णशुक्लाम्बरधरस्तुवध्वजो गजवाहनो रोहिणीजस्सन्ध्याननाथरशङ्खरवो यन्त्रिकायुधो मकारबीजो मणिको मणिकं महाबलं विमलं द्वारपालकमिति ।
v3.c20.s2.t4.42
वामे तस्य पत्नी कनकाभा सिताम्बरधरा पुष्पहस्ता सौम्यजा शुकस्वररवा सकारबीजा सन्ध्या सन्ध्यां प्रभावतीं ज्योतीरूपां दृढव्रतामिति ।
v3.c20.s2.t4.43
मुखमण्डपद्वारदक्षिणे स्फटिकाभो हेमाम्बरो रुरुवाहनः कुशध्वजो विधिजो दिव्येशो नामाक्षरबीजो दण्डपाणिश्चतुर्भुजो वेदरवो विखनसो (?) विखनसं तपोनुक्तं सिद्धिदं सर्वदर्शनमिति ।
v3.c20.s2.t4.44
वामे रुरुवाहनः कूर्चध्वजस्तारायक्षरबीजसन्धिनिशो वेदरवो दण्डधरो द्विभुजः पुष्यसम्भवस्तापसस्तापसं सन्धिराजं सर्वदोषविवर्जितं सहस्राश्वमेधिनमिति ।
v3.c20.s2.t4.45
प्रथमावरणद्वारदक्षिणेऽग्निवर्णशुक्लाम्बरधरः कूर्मवाहनश्शरध्वजस्सम्मोहिनीपतिर्नामाक्षरबीजः प्रोष्ठपाजातो दण्डपाणिसिंहरवः किष्किन्धः किष्किन्धं बहुमर्दनं बहुसेनं दृढव्रतमिति ।
v3.c20.s2.t4.46
वामे श्वेताभो रक्ताम्बरधरः कूर्मवाहनश्शरध्वजो विशोका- पतिर्वेणुदण्डायुधस्तीर्थाद्यक्षरबीज आर्द्राजो मेघवस्तीर्थस्तीर्थमुद्ग्राहकं सर्वयोग्यमुदावहमिति ।
v3.c20.s2.t4.47
द्वितीयावरणे द्वारदक्षिणे चोत्तराभिमुखः प्रवालाभ एकदन्तः कण्ठादूध्वं गजाकारो वामनः कुशध्वजो वेणुक्कृतवाहनश्शङ्खव- श्रुतुर्भुजः पाशहेतिः कदलीफलहस्त आर्द्रापतिः श्रविष्ठजो वक्रतुण्डो वक्रतुण्डमेकदष्ट्रं विकटं विनायकमिति ।
v3.c20.s2.t4.48
उत्तरे शङ्खवर्णो नीलाम्बरः किरीटी सिंहासने समासीनो द्विभुजो जवनपति*स्सर्पध्वजो हस्ततालरवशेशायक्षरबीजो मकरध्वज वाहनो नवभिस्सप्तभिः पञ्चभिर्वा पृष्ठोद्वतैः फणेस्समाच्छादितमौलि- र्नागराजो नागराजं सहस्रशीर्षमनन्तं शेषमिति ।
v3.c20.s2.t4.49
तृतीयद्वारदक्षिणे शङ्खाभो नीलाम्बरो भूताकारश्शुद्धापतिः- पद्मध्वजवाहनो हस्ताभ्यां शङ्खं दधानो वारुणश्शङ्खवरश्शङ्खादिबीजः शङ्खनिधिश्शङ्खनिधिवरं धनदं मौत्तिकोद्भवमिति ।
v3.c20.s2.t4.50
वामे रक्ताभो जपाम्बरधरो विशुद्धेशो हस्ताभ्यां पद्मं दधानः पद्मध्वजवाहनः प्रोष्ठपाज्जातस्सिंहनादरवः पद्माद्यक्षरबीजः पद्मानिधिः पद्मानिधिं रक्ताङ्गं भूतनायक मिति ।
v3.c20.s2.t4.51
*जरवतीपतिरिति पाठान्तरम् । जनीपतिरिति ध्यानमुक्तावल्यामुक्तम् ।
v3.c20.s2.t4.52
चतुर्थावरणे द्वारदक्षिणे रक्ताभः श्वेताम्बरधरो नागचूडिकमस्तक उद्देश्यकरो व्याघ्रवाहनसर्पध्वजो भामिनीशस्तुरङ्गवाहनोऽहिध्वजो भेरीरवस्तुकारबीजो हस्तजस्तुर्हणस्तुर्हणं† दैत्यराजं विष्णुभक्तं गदाधरमिति ।
v3.c20.s2.t4.53
† ‘तुहिनस्तुहिन’मिति पाठान्तरम् ।
v3.c20.s2.t4.54
वामे श्यामाभो रक्ताम्बरधरो नागचूडिकमस्तक उद्देश्यकरस्सुधापतिर्व्याघ्रवाहनसर्पध्वजो झल्झरीवो हस्तजो बल्यदिबीजो बलिदो दैतेयं महीवीर्यं बलिदं शूलपाणिनमिति ।
v3.c20.s2.t4.55
पञ्चमावरणद्वारदक्षिणे रक्ताभो नीलाम्बरधरशिरसि खड्गधरो वायुवाहनोऽनलध्वजो घोररवस्वातिजो बलेशः खकारबीजो नन्दको नन्दकं खड्गं पापहरं दैत्यनाशनमिति ।
v3.c20.s2.t4.56
वामे पञ्चवर्णैर्युक्तं श्वेताम्बरं नपुंसकं शिरसि चापधरं मेघवाहनं शरध्वजं महानादरवं विशाखजं शकारबीजं शार्ङ्ग शार्ङ्गं धनुर्वरं शत्रुहन्तारं वरायुधमिति ।
v3.c20.s2.t4.57
षष्ठावरणद्वारदक्षिणे श्वेताभो नीलवासाशिरसि शङ्खभृद्दण्डायुधो नन्देशो रोहिणीजो वियद्ध्वजो हंसवाहनः कर्णशब्दवो नामाक्षरबीजशङ्खचूडी शङ्खचूडिनं वृक्षदण्डं श्वेताभं घोररूपिणमिति ।
v3.c20.s2.t4.58
वामे रक्ताभः श्वेताम्बरधरशिरसि चक्रभृद्दण्डपाशभृन्मेघनाद- रवो धूमकेतुस्तुष्टीशः प्रवृत्तवाहनश्चारबीजश्चक्रचूडी चक्रचूडिं महानादमुदग्ररूपं भयानकमिति ।
v3.c20.s2.t4.59
सप्तमावरणे द्वारदक्षिणे हेमाभो रक्तवस्त्रधरश्चतुर्भुज उद्देश्य- दण्डधरो दक्षिणहस्ते अपसव्यकव्यवलम्बितवामहस्त उग्रवेगसमन्वितो दंष्ट्राभ्यां युक्तः किंचिद् द्वारं समीक्ष्य स्थितः प्रियापातिसिंहवाहनो मेघरवो धूमकेतुमूर्लोद्भवो नामाद्यक्षरबीजश्चण्डश्चण्डमुग्रं भयानकं द्वारपालकमिति ।
v3.c20.s2.t4.60
वामे श्यामाभः श्वेताम्बरधरस्सुमुखीपतिरन्यत्सर्वं चण्डवत्, प्रचण्डः प्रचण्डं भीमं घोररूपं द्वाराधिपतिमिति ।
v3.c20.s2.t4.61
विष्क्सेनः ।
v3.c20.s2.t4.62
उदक्प्राकारपार्श्वे विमानपार्श्वे वा कुबेशानयोर्मध्ये दक्षिणामु- खस्सिंहासने समासीनोऽग्निवर्णः पीतवासाश्चतुर्भुजश्शङ्खचक्रधरोऽभय- कव्यवलम्बितहस्तः श्रीवत्सं ब्रह्मसूत्रं विना हरिरिव भूषणैर्युक्तोऽथवा द्विभुजः पुष्पपाणिशशक्तिदण्डभृज् जयापतिः शृङ्केतुः पुष्परथवाहनः पूर्वाषाढोद्भवः पुष्परवो विद्यादिबीजो विष्क्सेनो विष्क्सेनं शान्तं हरमिति ।
आलयाभिमुखदेवाः ।
v3.c20.s2.t5.1
प्रथमावरणस्य त्रिभागाद् द्विभागे सोपानमध्ये वा श्वेताभो रक्ताम्बरधरो बहिर्मुखो ब्रह्मचारी दण्डायुधसिंहध्वजवाहनः फाल्गुनहरिणीजातः कुम्भशब्दरवो भूताद्यक्षरबीजः श्रीभूतः श्रीभूतं श्वतवर्णं वैष्णवं मुखपालिनमिति ।
v3.c20.s2.t5.2
द्वितीयावरणे हाटकाभश्शुकपिञ्छाम्बरधरो झल्लरीमेखलायुक्तः किङ्किणीजालयुतस्सर्वाभरणभूषित उपर्युपरिच्छन्नाभिर्बन्धुकनिभाभिश्चूडाभिस्तृभिर्युक्तश्यामलत्रिशीर्षसुमुखभुजगेन कृतच्छन्नवीरः किरीटवान्पञ्चवर्णमिश्रितभुजगाभ्यां युक्तश्छन्दोमयपक्षद्वययुतो गुञ्जाभनेवो हृदयेऽञ्जलिसंयुक्तोऽभयदो वा द्विभुजस्स्वात्युद्भवश्वूदाध्वजो विशोकेशो वायुवाहनस्तुण्डायुधः पक्षाघातवो गणाद्यक्षरबीजो गरुडो गरुडं पक्षिराजं सुपर्णं खगाधिपतिमिति ।
v3.c20.s2.t5.3
तत्पूर्वे चक्रोऽङ्गारवर्णो रक्ताम्बरशिरसि चक्रभृत्पुष्टिकेशो धूमकेतुः प्रवृत्तवाहनस्तर्जनीरवश्चकारबीजोऽनलस्सुदर्शनं चक्रं सहस्त्रविकचमनपायिनमिति ।
v3.c20.s2.t5.4
तत्पूर्वे पाञ्चजन्यो दुग्धाभो रक्तवस्त्रधरो भूताकृतिशिरसि शङ्खभृद्वियत्तिध्वजो वियद्वात्रायुधो हंसवाहनः कर्णशब्दरवो वारु-
v3.c20.s2.t5.5
णीपतिश्शकारबीजोऽनलजश्शङ्खः पाञ्चजन्यं शङ्खमम्बुजं विष्णु- प्रियमिति ।
v3.c20.s2.t5.6
तत्पूर्वे हाटकाभश्शुकपिञ्छाम्बर ऊर्ध्वकेशश्शङ्ककेतुर्वायुवाहन- स्सिंहरवस्स्वातिजातो जकारबीजो जयप्रियापतिर्द्विभुजः पद्मधर आसने दक्षिणं पादं प्रसार्य वामाकुञ्च्यासीनस्सर्पयुक्तो हृदयेऽ- ञ्जालिसंयुक्तो ध्वजो जयमत्युच्छ्रितं ध्वजमिति ।
v3.c20.s2.t5.7
तत्पूर्वे यूथाधिपस्य पीठे बहिर्मुखः श्वेताभो रक्तवस्त्रधरो भूताकारो द्विभुजो दण्डधरो भूतकेतुर्महाचातकवाहनो विरजेशो गतिशब्दरवः श्रविष्ठजो भूताध्यक्षरो महाभूतो यूथाधिपतिं नित्यमुग्रं महाभूतमिति ।
v3.c20.s2.t5.8
तत्पूर्वे पीठे पाकोर्जुतो रुक्माभः पद्मनेत्रः कृष्णकुञ्चितमूर्धजो भूताकारः कृष्णवस्त्रधरः कुम्भोदरो द्विभुजो दण्डहस्तोऽश्विनीजात- स्सिंहनादरवस्सिंहध्वजवाहनो भूताक्षरबीजस्सुमुखीपतिर्विष्णुभूतः पाकोर्जुतं पाशहस्तमक्षहन्तं (?) विष्णुभूतमिति ।
v3.c20.s2.t5.9
एतेऽनपायिन एतेषु श्रीभूतगरुडौ प्रासादपार्श्वे चक्रशङ्खध्व- जयूथाधिपपाकोर्जुनान्बलिपीठपार्श्वे संयोज्यार्चयेदिति केचित् ।
v3.c20.s2.t5.10
प्रथमावरणे द्वितीये वा पूर्ववादिन्द्रादीनर्चयेत् । प्रागाद्वार- दक्षिणपार्श्वे तत्तादिगीशानभ्यर्चयेत् ।
v3.c20.s2.t5.11
द्वितीयावरणदेवान्तरालवर्तिदेवाः ।
v3.c20.s2.t5.12
द्वितीयावरणे प्राग्दारादुत्तरे पश्चिमाभिमुखो रक्तवर्णश्शुक्लाम्बरो द्विभुजः पद्महस्तस्सप्ताश्ववाहनो हयध्वजो रेणुकासुवर्चलापतिः खकारबीजोऽब्धिघोषरवससहस्रकिरणो मण्डलावृतमौलिः श्रावणे मासि हस्तज आदित्य आदित्यं भास्करं सूर्यं मार्तण्डं विवस्वन्तमिति ।
v3.c20.s2.t5.13
दिगीशस्य दक्षिणे पश्चिमाभिमुखः श्वेताभो रक्ताम्बरो द्विभुज इषुचापभृन्मण्डलावृतमौलिर्हिरणययाश्ववाहनः कुलीरध्वजो हंस्रवो रोहिणीपतिस्सकारबीजश्चन्द्रो वसिष्ठं सोमं यज्ञाङ्गमिन्दुं चन्द्रमिति ।
v3.c20.s2.t5.14
दक्षिणे दिगीशस्य पूर्वे चोत्तराभिमुखो बन्धूकवर्णो नीलाम्बरधरशक्तिपाणिश्शरध्वजश्चकंबुषापतिरश्विनीजातोऽश्ववाहनश्शङ्खवो नामायक्षरबीजोऽङ्गारकोऽङ्गारकं वक्रं रक्तं धरासुतमिति ।
v3.c20.s2.t5.15
तस्य पश्चिमे चोत्तराभिमुखः श्यामवर्णो रक्ताम्बरो द्विभुजो रथवाहनस्सिंहध्वजश्शङ्खवो नामायक्षरबीजसुशलापतिः श्रविष्ठजो बुधो बुधं श्यामं सौम्यं श्रविष्ठजमिति ।
v3.c20.s2.t5.16
पश्चिमे दिगीशस्य दक्षिणे प्राङ्मुखः पीताभश्श्यामाम्बरधरो दर्भहस्तः पूरिमकुटः कृष्णाजिनधरः कुशध्वजो हंसवाहनस्तिष्यजातस्तारापातिर्नामायक्षरबीजो बृहस्पतिः पीतवर्णं गुरुं तैष्यं बृहस्पतिमिति ।
v3.c20.s2.t5.17
तस्योत्तरे प्राङ्मुखो रजतवर्णो वल्कलाम्बरोऽजिनजटाधरो मेषवाहनस्त्वध्वजो रोहिणीजो नामाक्षरबीजसमुदापतिश्शङ्खवश्शुक्रशुक्रं भार्गवं काव्यं परिसर्पणमिति ।
v3.c20.s2.t5.18
उत्तरे दिगीशस्य पश्चिमे दक्षिणामुखोऽजनाभो द्विभुजः कुशचीराम्बरधरो रेवताजः कुमुदापतिर्वराहध्वजवाहनश्शङ्खवो नामाक्षरबीजो मन्दस्सूर्यपुत्रं मन्दं रेवत्यं शनैश्चरमिति ।
v3.c20.s2.t5.19
तत्राच्यां दक्षिणामुखः श्यामाभो जपाम्बरधरो द्विभुजो नागचूडिकमस्तकः पाशायुधो मण्डलावृतमौलिस्सर्पध्वजवाहन आश्लेषजो जरापतिर्नामाक्षरबीजो राहूराहूं दैतेयमुगेशं ग्राहक मिति ।
v3.c20.s2.t5.20
प्राच्यां पश्चिमाभिमुखो धूम्रवर्णः श्वेताम्बरधरो नागेशोऽन्यत्सर्वं राहोरिव केतुं कृष्णं रौद्रं प्रकाशिनमिति । यदिद्वारं तद्दिद्वारपार्श्वे समर्चयेत् ।
v3.c20.s2.t5.21
तृतीयावरणदेवाः ।
v3.c20.s2.t5.22
तृतीयावरणे प्राच्यां प्राग्द्वारादक्षिणे पश्चिमाभिमुखी द्विभुज पीताम्बरा श्वेताभा कृष्णकुञ्चितमूर्धजा हृदयेऽञ्जुलिसंयुक्ता रेवतीजाता गकारबीजा कूर्मध्वजवाहना शङ्खवा गङ्गा गङ्गां नलिनीं जाह्नवीं लोकपावनीमिति ।
v3.c20.s2.t5.23
दक्षिणे चोत्तराभिमुखा श्यामवर्णा रक्तवस्त्रधरा पीनस्तना कृष्णकुञ्चितमूर्धजा द्विभुजा पुष्पहस्ता परपुष्टरवा मत्स्यवाहनकेतुका मूलजा नामाद्यक्षरबीजा यमुना यमुनां स्फाटिकां नदीवरां पावनी- मिति ।
v3.c20.s2.t5.24
पश्चिमे प्राङ्मुखा रक्ताभा श्वेतवस्त्रा सुखासीना द्विभुजा पुष्प- मालाधरा कूर्मध्वजवाहना जलजकुक्कुटरवाश्विनीजाता नामाद्यक्षर- बीजा [नर्मदा*] नर्मदां नदीरूपां विद्युद्रूपां विशालामिति ।
v3.c20.s2.t5.25
उत्तरे दक्षिणामुखा कृष्णश्वेताभा पुष्पवस्त्रधरा पद्महस्ता द्विभुजोद्धकेशौ पौष्णजा जलघोषरवा मकरध्वजवाहना सिता- [द्य*] क्षरबीजा सिन्धुसिन्धुं नदीवरां मृद्रूपां साधनामिति ।
v3.c20.s2.t5.26
प्राग्द्वारोत्तरे श्यामवर्णा पीताम्बराष्टभुजा चतुर्भुजा वा शङ्खच- क्रधरा सर्वाभरणसंयुक्ता कक्ष्याबन्धघनस्तनी कृत्तिकोद्भवा घण्टारवा नामाद्यक्षरबीजा सिंहध्वजवाहना दुर्गा दुर्गा कात्यायनीं विन्ध्यवासिनी- मिति ।
v3.c20.s2.t5.27
आग्नेय्यां रक्तवर्णा श्वेतवस्त्रा चतुर्भुजा दक्षिणवामयोरक्षमाला- कमण्डलुज्ञानमुद्रापुस्तकहस्ता हंसवाहना नामाद्यक्षरबीजाश्विनीजाता प्रणवध्वनिसिद्धिसिद्धिं विश्वां भृगुपत्नीं सरस्वतीमिति ।
v3.c20.s2.t5.28
नैर्ऋत्यां श्रियं पूर्ववत् ।
v3.c20.s2.t5.29
वायव्यां रक्ताभा पुष्पान्बरा पीनस्तना पुष्पानिधिभाजनधरा दक्षिणे पीतगदाधरा वृषभयुता वामे रक्तनीलपरिताङ्गी (?) मङ्कलि- कायुक्ता* ज्येष्ठानक्षत्रजाता खरयुक्तरथवाहना काकध्वजा काकध्वनि- युता नामाक्षरबीजा ज्येष्ठा, भूः ज्येष्ठायनीं भुवः ज्येष्ठायनीं सुवः ज्येष्ठायनीं कलिलाजनीं (?) कलिपत्नीमिति ।
v3.c20.s2.t5.30
ऐशान्यां रक्ताभा श्यामान्बरधरोग्रनयना महारौद्री दंष्ट्राभ्या- मलङ्कृता बालमौल्युत्तरासङ्गा मांसार्द्रत्रिशूला षड्भुजा भ्रूभङ्गविकटा कपालपाशहस्ता रक्तकुञ्चितमूर्धजाट्टहाससहितोग्रपीठसमासीना डमरु- कध्वनियुता नामाक्षरबीजा पिशाचध्वजवाहनाद्र्धनक्षत्रजाता धात्रीं महोदरीं रौद्रीं महाकालीमिति ।
v3.c20.s2.t5.31
अन्तराले प्राच्यां पश्चिमाभिमुखा रक्तवर्णा जपान्बरधरा पुष्प- हस्ता ललाटे पुष्पचूडा कृष्णकुञ्चितमूर्धजा वीणावेणुरवा स्वात्युद्भवा कपोतध्वजवाहना सुराक्षरबीजा सुरा सुरां सुमुखीं विद्युद्रूपां सुभगा- मिति ।
v3.c20.s2.t5.32
तद्दक्षिणे पश्चिमाभिमुखी कनकाभा सिताम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा । वीणावेणुरवा स्वात्युद्भवा हंसध्वजवाहना
v3.c20.s2.t5.33
∗ मङ्कुलकुचयुक्तेति पाठान्तरम् ।
v3.c20.s2.t5.34
नामाद्यक्षरबीजा शेषं सुरावत्, सुन्दरी सुन्दरीं विशालां पद्माक्षीं पद्मवर्णिनीमिति ।
v3.c20.s2.t5.35
दक्षिणे चोत्तराभिमुखा रुक्माभा रक्तवस्त्रधरा पुष्पहस्ता कृष्णकुञ्चितमूर्धजा हंसध्वजवाहना हंसरवा विशाखजाता नामाद्यक्षरबीजा स्वाहा स्वाहां शुभाङ्गीं मृदङ्गीं साधनामिति ।
v3.c20.s2.t5.36
तत्पश्चिमे चोत्तराभिमुखा सितश्यामा कृष्णाम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा शुकध्वजवाहना नामाद्यक्षरबीजामिरवा याम्यजा स्वधा स्वधां समृद्धिं कुलवर्धनीं सन्नतिमिति ।
v3.c20.s2.t5.37
पश्चिमे प्राङ्मुखा कनकाभा सिताम्बरधरा पुष्पहस्ता द्विभुजा ललाटोपरि पुष्पचूडान्विता मयूरवाहना मयूरस्वररवा सौम्यजा नामाद्यक्षरबीजा माया मायां मातङ्गीं वराङ्गीं वरानमिति ।
v3.c20.s2.t5.38
तदुत्तरे प्राङ्मुखा कनकाभा शुक्लाम्बरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा वीणावेणुरवा हंसध्वजवाहना मूलोद्भवा नामाद्यक्षरबीजा संहादिनी संहादिनीं वरारोहां मायाङ्गीं मदवर्धनीमिति ।
v3.c20.s2.t5.39
उत्तरे दक्षिणामुखा हेममिश्रसिताभा रक्ताम्बरा पद्महस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा शुकस्वररवा हंसध्वजवाहना राकाद्यक्षरबीजामिजिज्जाता राकाराकां मुख्यां रक्ताङ्गीं वरानमिति ।
v3.c20.s2.t5.40
तत्पूर्वे दक्षिणमुखा सितश्यामा शमीपुष्पनिभाम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा घनस्तनी पृथुश्रोणी हंसध्वजवाहना शुकस्वरवाभिज्जाता पुण्याद्यक्षरबीजा [सिनावाली*] सिनीवालीं गभस्तिनीं हितदां पुण्यदामिति ।
हवीरक्षकादयः ।
v3.c20.s2.t6.1
पचनालये चोत्तरमुखः कृष्णवर्णः श्वेताम्बरो विकटशूलपाणिः कुशेशयायताक्षो नामाद्यक्षरबीजस्सुरगणेशः शङ्करवोऽश्ववाहनस्सिंहध्वजो रोहिणीजो हवीरक्षको हवीरक्षकामाग्नेयं शैलूषं पचनामिति ।
v3.c20.s2.t6.2
पुष्पसंचयस्थाने पश्चिममुखः कनकवर्णश्यामाम्बरो गजवाहनः पुष्पध्वजो रेवतीजश्शङ्खवरशुद्धाङ्गीशो नामाद्यक्षरबीजः पुष्परक्षकः पुष्परक्षकं हरितमधिवासं फुल्लमिति ।
v3.c20.s2.t6.3
स्नानोदकसंचयस्थाने पुरुषं पूर्ववत् ।
v3.c20.s2.t6.4
प्लोतवस्त्रोत्तरीयादिसंचयस्थाने हेमाभश्शुकपिञ्छाम्बरधश्चतुर्भुजः कलशाक्षमालापाणिर्जटाधरो हंसवाहनो रूपाद्यक्षरबीजस्सावित्रीपतिरभिज्जातः कमण्डलुध्वजो हुङ्काररवस्वष्टा त्वष्टारं रूपजातं निधिजं प्लोताधिपतिमिति ।
v3.c20.s2.t6.5
शयनस्थाने पश्चिमाभिमुखा हेमाभा रक्ताम्बरा पद्महस्ता द्विभुजा शिरसि गदाधरा सिंहध्वजवाहना घोररवा श्रविष्ठा गकारबीजा गदा गदां कौमोदकीं पुण्यां प्रबलामिति ।
v3.c20.s2.t6.6
हविर्द्रव्यादिसंचयस्थाने पश्चिमाभिमुखो मेघवर्णः श्वेताम्बरो विकटो दण्डपाणिर्भूतवाहनश्शूलध्वजो नामाद्यक्षरबीजः कुम्भशब्दवस्सर्वेश आर्द्रा नक्षत्रजातश्चामुण्डस्सर्वेश्वरं जगन्नाथं चामुण्डं सर्वतश्चरमिति ।
v3.c20.s2.t6.7
होमस्थाने पश्चिमाभिमुखः श्यामवर्णः पीताम्बरो द्विभुजो दण्डायुधो रथवाहनस्सिंहध्वजो नामाद्यक्षरबीजश्शङ्करवः श्रविष्ठाजात-सुमनसापतिर्लिरक्षको बलिरक्षकं दण्डधरं सर्वज्ञं सममिति ।
v3.c20.s2.t6.8
चतुर्थावरणदेवाः ।
v3.c20.s2.t6.9
चतुर्थावरणे प्राग्द्वारोत्तरे खड्गसंकाशः पीतवासा दण्डपाणिः खड्गध्वजो* रथवाहनस्त्यलोचनापतिः श्रवणजो नामाद्यक्षरबीजो नादरवो गविष्ठो गविष्ठं त्रैष्टुभं गुह्यमाकाशमिति ।
v3.c20.s2.t6.10
द्वारस्य दक्षिणे पूर्ववद्धरिणीम् ।
v3.c20.s2.t6.11
पश्चिमे प्राङ्मुख उत्पलाभश्शुकपिञ्छाम्बरधरः पाशभृद्ज-वाहनस्सिंहध्वजो वकारबीजो वरुणजो दर्दुरशब्दः कनकाधिपस्तोयः पवित्रममृतं तोयं गद्दरमिति ।
v3.c20.s2.t6.12
∗ ध्यानमुक्तावल्यां खड्गध्वजत्वमुक्तम् ।
v3.c20.s2.t6.13
दक्षिणे चोत्तराभिमुखः पिङ्गलाभो नीलवासाशक्तिभृद्धजवाहनः कपिध्वजसद्ध्यापतिशङ्करवो नामाद्यक्षरबीजोऽग्निर्वीतिहोत्रमाभुरन्यं शुद्धमभिमिति ।
v3.c20.s2.t6.14
उत्तरे दक्षिणामुखः श्यामवर्णः पीतवासा असिपार्णिगजवाहनो रेणुध्वजो यकारबीजश्चलिकापतिस्वातीजशङ्करवो वायुर्सुं समीरणं वायुं पृषदश्वमिति ।
v3.c20.s2.t6.15
आग्नेय्यां पश्चिमाभिमुखस्फटिकाभो रक्ताम्बरो द्विभुजः पुष्पहस्तषट्तुध्वजवाहनो विगेश ऋताद्यक्षरबीजो याम्यज ऋग्वेद ऋग्वेदं मधुं सोमं क्रतुमिति ।
v3.c20.s2.t6.16
नैर्ऋत्यां प्राङ्मुखः पीतवर्णः श्वेताम्बरः कुलिशहस्तो द्विभुजः कांस्यतालरवोऽग्निकेतुर्बुद्धीशस्तुरङ्गवाहन* इध्माद्यक्षरबीजः† पुनर्वसूजातो यजुर्वेदो यजुर्वेदं दधिमिश्रमिष्टमिति ।
v3.c20.s2.t6.17
वायव्यां प्राङ्मुखो रक्ताभः पीतवासा द्विभुजस्सप्तस्वरध्वजोऽजवाहनो मूलोद्भवो मतीशो गानरवस्सामाद्यक्षरबीजस्सामवेदस्सामं घृतं वज्रं यज्ञमिति ।
v3.c20.s2.t6.18
∗ स्वरवाहन इति पाठान्तरम् । † ध्यानमुक्तावल्यां यकारबीजत्वमुक्तम् ।
v3.c20.s2.t6.19
ऐशान्यां पश्चिमाभिमुखोऽजनाभः श्वेतवस्त्रो द्विभुजः कूर्च-हस्तस्तुध्वजो हंसवाहनो हंसरवः कलेशः प्रोष्ठपाजातो जपाद्यक्षरबीजोऽथर्ववेदोऽथर्वणं पवित्रं क्षीरं पुण्यमिति ।
v3.c20.s2.t6.20
अन्तराले प्राच्यामुत्तरे शिवं पूर्ववत् ।
v3.c20.s2.t6.21
तद्दक्षिणे पश्चिमाभिमुखसुवर्णवर्णः शुकपिच्छाम्बरधरः श्रीपतिर्जयकेतुः खड्गवाहन*श्चतुर्भुजशङ्खचक्रधरः पाञ्चजन्यरवः† श्रवणोद्भवो जाताद्यक्षरबीजो विष्णुर्विष्णुं व्यापिनं रक्तं विश्वमिति ।
v3.c20.s2.t6.22
दक्षिणे चोत्तराभिमुखः कृष्णवर्णः पुष्पवस्त्रधरो वेणुदण्डधरो द्विभुजशङ्खरवत्रिपादवाहनः कमण्डलुध्वजो विश्वाद्यक्षरबीजो हस्तजः क्षमेशः काश्यपः काश्यपं विश्वमूर्तिमकशतं तक्षकमिति ।
v3.c20.s2.t6.23
तत्पश्चिमे चोत्तराभिमुखः पालाशपुष्पाभो द्विषड्भुजष्षण्मुखस्सर्वाभरणभूषितो बालमौलियुतो देवयानीपतिर्नामाद्यक्षरबीजशङ्खरवौ मयूरध्वजवाहनो गुहो जगद्भुवं विश्वभुवं रुद्रभुवं ब्रह्मभुवं भुवर्भुवमिति ।
v3.c20.s2.t6.24
पश्चिमे दक्षिणभागे प्राङ्मुखश्यामवर्णस्सिताम्बरो द्विभुजः खड्गखेटकसंयुक्तः किरीटी भूतध्वजवाहनो नन्दितापतिरुत्तरोद्भवो
v3.c20.s2.t6.25
∗ खड्गध्वजवाहन इति पाठान्तरम् । परं तु खगध्वजवाहन इति स्यात् । † ध्यानमुक्तावल्यामस्य पञ्चशब्दध्वनित्वमुक्तम् ।
v3.c20.s2.t6.26
वरायक्षरबीजो वंशरवः पङ्क्तीशः पङ्क्तीशं मिलं वरदं भूतनायक- मिति ।
v3.c20.s2.t6.27
तदुत्तरे प्राङ्मुखोऽजनाभः श्वेताम्बरधरो नपुंसको वृषवाहनो गळकाध्वज उग्ररव ऊर्म्यायुधस्सौम्यजः परायक्षरबीजः पवित्रः पवित्रममृतं जप्यं शुद्धमिति ।
v3.c20.s2.t6.28
उत्तरे दक्षिणामुखः पिङ्गलाभः श्यामाम्बरोऽन्यत्सर्वं पवित्रवत् पावनस्सर्वतीर्थं जलं पुण्यं पावनं पुष्पपूजितमिति ।
v3.c20.s2.t6.29
तत्पूर्वे दक्षिणामुखः श्यामवर्णो हेमाम्बरधरः पञ्चसप्तफणयुतो जरापतिर्हस्ततालरव आश्लेषजो मकरध्वजवाहनो नामाद्यक्षरबीजस्त- क्षकक्षकं सर्पराजं क्षितिजं धराधरमिति ।
v3.c20.s2.t6.30
पञ्चमावरणदेवाः ।
v3.c20.s2.t6.31
पञ्चमावरणे पूर्वद्वारोत्तरे पश्चिमाभिमुखा श्यामाभा पुष्पवस्त्रा पद्महस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा शुकस्वररवा खड्गध्वजवाहना नामाद्यक्षरबीजा कुहूर्मेदिनीं कुहूं सुदंष्ट्रां क्षमिति ।
v3.c20.s2.t6.32
दक्षिणे पश्चिमाभिमुखा सितश्यामा जपाम्बरधरा पुष्पहस्ता द्विभुजा खड्गध्वजवाहना शुकस्वररवा तताद्यक्षरबीजामिजिजातानुम- ति¹रनुमतिं सुरूपां तन्वङ्गीं सुभगामिति ।
v3.c20.s2.t6.33
¹ अनुमितिरिति पाठान्तरम् ।
v3.c20.s2.t6.34
दक्षिणे चोत्तरभिमुखा ब्रह्माणी चतुर्मुखी रुक्मवर्णा रक्तवस्त्रा कलशाक्षमालायुता, सरित्प्रिया श्वेतवर्णा कृष्णाम्बरधरा त्रिनेत्रा शूलपाणिः, वैशाखिनी रक्तवर्णा श्वेताम्बरा षण्मुखी शक्तिपाणिः, वैष्णवी श्यामलाङ्गी पीताम्बरधरा शङ्खचक्रधरा, वाराही कृष्णश्यामनिभा रक्तवस्त्रा शस्त्रपाणिः, इन्द्राणी श्यामाभा रक्ताम्बरा वज्रपाणिः, काली श्यामाभा रक्ताम्बरा सुदंष्ट्रा शूलपाशपालिनी चैता एकप्रासादे समासीना नामायक्षरबीजाः पिशाचध्वजवाहना आर्द्रद्रवा गणध्वनियुतास्सप्तमातरः ।
v3.c20.s2.t6.35
ब्रह्माणीं पिङ्गलां गौरीं सर्वतोमुखीं, सरित्प्रियां विश्वरूपामुग्रां गणेश्वरीं, वैशाखिनीं खण्डिनीं गायत्रीं षण्मुखीं, विश्वगर्भां विषोर्मिणीं कृष्णां रोहिणीं, वाराहीं वरदामुर्वीं वज्रदंष्ट्रीं, जयन्तीं कौशिकिमीन्द्राणीं घनाघनीं, कालीं नालीकदंष्ट्रीं विषहां वेदधारिणीमिति ।
v3.c20.s2.t6.36
पश्चिमे प्राङ्मुखातिरक्ता शुकपत्रनिभाम्बरा जया, हाटकाभा शुकपत्रनिभाम्बरा विजया, हरिताङ्गी रक्तवस्त्रा विन्दा, कनकाभा श्वेतवस्त्रा पुष्टिका, केतकीपुष्पसंकाशा झषपत्रनिभाम्बरधरा नन्दका, कुमुदाभा सस्यश्यामनिभाम्बरा कुमुद्वती, चोत्पलनिभा नीलाम्बरधरोत्पलका, अशोकपुष्पनिभा शुकपत्रनिभाम्बरा विशोका चैताः पद्महस्ताः द्विभुजाः कृष्णकुञ्चितमूर्धजा वीणावेणुवाशुकध्वजवाहना नामाद्यक्षरबीजा धनिष्ठा जयाद्याः ।
v3.c20.s2.t6.37
जयां सुखप्रदां समृद्धिनीं भद्रां, विजयां विशोकां पुण्यां कामनन्दां, विन्दां लाभां प्रमत्तामजेयां, पुष्टिकां मोहवतीं पुण्यां प्रमत्तां, नन्दकां मधुजननीं सुमुक्तां सुभगां, कुमुद्वतीं सुवहां सुसंभारां निवृत्तिम्, उत्पलकां सुगन्धिनीं सर्वमोदां सर्वात्मकां, विशोकां धनरा-शिमक्षताममितामिति ।
v3.c20.s2.t6.38
उत्तरे दक्षिणमुखास्सर्वा मरकतप्रभाः पुष्पान्बरधराः पुष्प-हस्ता द्विभुजाः कृष्णकुञ्चितमूर्धजा मयूरध्वजवाहना मृदङ्गशब्दरवा रोहिणीजाता नामाद्यक्षरबीजास्सप्तरोहिण्यः ।
v3.c20.s2.t6.39
कूठिनीं नन्दिनीं धरित्रीं रजतप्रियां, ग्रन्थिनीं वेगिनीं प्रजयां प्रवाहिनीं, कृच्छ्रणीं शाखिनीं वाहिनीं योक्त्रिणीं, कुण्ठिनीं जारिणीं छर्दिनीं प्रवाहिनीं, विकारिणीं दामिनीं वैसिनीं विद्युतां, दर्द्रणीमिन्दुकरां सौमनसीं प्रविद्युताम्, इन्द्रियविकारिणीमर्वतीं गङ्गावाणीं सृजन्तीमिति ।
v3.c20.s2.t6.40
आग्नेय्यां पद्मपत्रनिभाः पुष्पान्बरा द्विभुजा दण्डहस्ताइशशध्वज-वाहनाइशङ्खस्स्वातीजाता नित्यादिबीजास्सुगुणानामीश्वरा वत्सरा वत्सरान्वसुसुतान्निधीन्धर्मसूनुकानिति ।
v3.c20.s2.t6.41
नैर्ऋत्यां कनकाभास्सिताम्बरा द्विभुजा असिधराः प्लवङ्गवाह-नाशङ्खध्वजा हंसस्स्वात्युद्भवा यकारबीजा दायनीश्वराः प्राणादयः, प्राणमपानं व्यानमुदानं समानमिति ।
v3.c20.s2.t6.42
वायव्यां धूमाभासिताम्बरा द्विभुजा असिधराः प्लवङ्गवाहना- श्शङ्खध्वजा हंसखा उददायिशाशकारबीजा* मरुतो लोकधरान् सप्तसप्तगणान्मरुवतीसुतानि ति ।
v3.c20.s2.t6.43
ऐशान्यां . . . . . श्वेताभा व्याघ्रचर्माम्बराः पिङ्गलनेत्रा- इशकारबीजाश्चान्यत्सर्वं रुद्रवत् । शतरुद्रानोषधीशास्त्र्यम्बकान्कपाल- वनित† इति ।
v3.c20.s2.t6.44
दक्षिणेऽन्तराले पश्चिमाभिमुखा . . . . . भास्करवद् द्वाद- शादित्याः, धातारमर्यमणम् [अंश*] मित्रं [वरुण*] भगमिन्द्रं विव- स्वन्तं पूषणं पर्जन्यं त्वष्टारं विष्णुं (जघन्यम्) इति ।
v3.c20.s2.t6.45
उत्तरे पश्चिमाभिमुखाः (पद्मकिञ्जल्कसदृशाः पुष्प) . . . . . वर्णाः व्याघ्रचर्माम्बरा नीलग्रीवास्त्रिनेत्राश्चान्यत्सर्वं रुद्रवत् । एकादश- रुद्राक्ष अजैकपाद (?) हिर्बुध्न्यं पिनाकिनं पराजितं मृगव्याधकं शर्वं निर्ऋतिमीश्वरं कपालिनं स्थाणुमिति ।
v3.c20.s2.t6.46
दक्षिणे चोत्तराभिमुखा दंष्ट्रमुखा द्विभुजाः पाशहस्तास्सिंह- नादरवा गजवाहना गकार(यक्षर)बीजा देव्योकतायुक्ता‡ सौम्यनक्ष- त्रजाता [गन्धर्वाः*] गन्धर्वात्रम्यन्स्वरजान्सोमजानिति ।
v3.c20.s2.t6.47
∗ एषामुदयनीसनाथत्वं यकारबीजत्वं च ध्यानमुक्तावल्यां कथितम् । † ध्यानमुक्तावल्यां कपालपाणित्वमुक्तम् । ‡ ध्यानमुक्तावल्यामेषां रेफबीजत्वं रक्तासक्तत्वं चोक्तम् ।
v3.c20.s2.t6.48
तत्पश्चिमे चोत्तराभिमुखाः कनकाभा जटाधराः कुशाम्बराः कुशकृष्णाजिनधरा अनुराधाजा जलघोषरवास्तपोऽधिपास्तपाद्यक्षरबीजा मुनयो मुनीस्तपोऽधिपान्कृशाम्पापविनाशनानिति ।
v3.c20.s2.t6.49
पश्चिमे प्राङ्मुखा हेमाभाः पुष्पाम्बराः पद्महस्ता द्विभुजाः कृष्णकुञ्चितमूर्धजाःशुक्स्वरवाः हंसध्वजवाहना अमृतायक्षरबीजा उत्तराजा अप्सरसोऽमृतजा भोगवहास्सरोजा इति ।
v3.c20.s2.t6.50
तदुत्तरे प्राङ्मुखौ गोक्षीराभावशोकपुष्पवस्त्रौ पुष्पहस्तौ द्विभुजौ मयूरवाहनौ काकपक्षध्वजौ ज्येष्ठनक्षत्रजातौ हंसरावौ सुन्दरे-शावश्चाद्यक्षरबीजावश्विनौ यमौ युग्मौ त्वाष्ट्रपुत्राविति ।
v3.c20.s2.t6.51
उत्तरे दक्षिणामुखाः पद्माभाः पुष्पवस्त्रधराः पद्महस्ता द्विभुजाश्शङ्खध्वजवाहनास्त्वात्युद्भवाः प्रियाणामीशा वकारबीजाश्शङ्खरवा वसवः, धरं ध्रुवं सोममापमनलमनिलं प्रत्यूषं प्रभासमिति ।
v3.c20.s2.t6.52
तत्पूर्वे दक्षिणामुखाश्श्यामाभा रक्तवस्त्रा दंष्ट्रमुखा रक्तकेशा गदाधरा द्विभुजा डमरुकधरा महिषध्वजवाहना मेघरवा विद्याधरीणामीशा मन्त्रादिबीजा विद्याधरान्मन्त्रबलान्पुष्पजान्भोगजानिति ।
v3.c20.s2.t6.53
षष्ठावरणदेवाः ।
v3.c20.s2.t6.54
षष्ठावरणपूर्वद्वारोत्तरे रक्ताभः श्वेताम्बरो जटाधरो द्विभुजो वीणाहस्तो नागरवस्संगीतापतिर्वायुवाहनः सुवध्वजोऽभिजि- जातो नामाद्यक्षरबीजस्तम्बुरुस्तम्बुरुं मुनिवरं स्वरेशं वेदरूपिणमिति ।
v3.c20.s2.t6.55
तद्दक्षिणे पश्चिमाभिमुखः श्वेताभो रक्ताम्बरधरो जटाधरो द्विभुजो वीणाहस्तस्तालरवस्वरेशो [वायु*] वाहनः कूर्चध्वजोऽभिजितो नामाद्यक्षरबीजो नारदो नारदं मुनिवरं गानरूपं ब्रह्मसंभवमिति ।
v3.c20.s2.t6.56
दक्षिणे चोत्तरामुखा अब्जाभाः श्वेतवस्त्राः पुष्पहस्ता द्विभुजाः पुष्पथरवाहना विद्युध्वजा मेघरवाः श्वेतकृष्णापतयो मूलोद्भवा गकाराबीजाषड्तव ऋतून् फलराशीन्पुष्पगन्धास्तीर्थानिति ।
v3.c20.s2.t6.57
पश्चिमे प्राङ्मुखः श्वेताभः प्रजापतिरेकवक्त्र एष एव विशेषोऽन्यत्सर्वं विरिश्चवत्, प्रजापतिः प्रजापतिं स्रष्टारं वेदमयं ह्यरूपिणमिति ।
v3.c20.s2.t6.58
उत्तरे दक्षिणामुखः श्वेताभो रक्ताम्बरो जटाधरः कूर्मवाहनः कुशध्वजो वेदरवस्सुगणेशो नामाद्यक्षरबीजः श्रवणजो मुद्लो मुद्लं मुनिवरं शुद्धं सर्वज्ञमिति ।
v3.c20.s2.t6.59
आग्नेय्यां श्वेताभो नीलाम्बरो द्विभुजो हलधरः पद्मवाहनः पुष्पकेतुर्नामाद्यक्षरबीजो मायापतिर्मैत्रजो हंसरवो हलेशो हलेशं महाहलं मायाङ्गं वरदायिनमिति ।
v3.c20.s2.t6.60
नैरृत्यां हेमाभो रक्ताम्बरो द्विभुजः पुष्पहस्तो मेघध्वजवाहनो नारदो (?) यकारबीजो यक्षपतिमूलजातो यक्षो यक्षं सर्ववरदं सुखिनं देवयोनिमिति ।
v3.c20.s2.t6.61
वायव्यां श्यामाभो रक्ताम्बरो जटाधरो द्विभुजो बालमौलिसमायुक्तच्छन्नवीरसमायुक्तो बालापतिर्मेघध्वजवाहनः पुष्पधरहस्तो (मेघध्वजवाहनो) जकारबीजो मृदङ्गरवो जाम्बवं रूपं दर्शनीयं सुन्दरमिति ।
v3.c20.s2.t6.62
ऐशान्यां श्यामाभो रक्ताम्बरो द्विभुजश्शूलधरो रक्तकेशो दंष्ट्रमुखो नीलापतिः खरध्वजवाहनो घोररवो मूलजो नामाद्यक्षरबीजोऽसुरोऽसुरं दैतेयं भयानकं घोररूपणमिति ।
v3.c20.s2.t6.63
अन्तराले प्राच्यां पश्चिमाभिमुखं पक्षिपादं पुंस्त्रीरूपोर्ध्वकायं पार्श्वयोः पक्षाभ्यां युक्तं वीणातालहस्तं नामाद्यक्षरबीजं वायुवाहनं नालध्वजं स्वररवं हस्तजं किन्नरमिथुनं तीर्थं सङ्गीतं पक्षिरूपमिति ।
v3.c20.s2.t6.64
तद्दक्षिणे पश्चिमाभिमुखो रक्ताभस्सिताम्बरो जटाधरः पुष्पहस्तो द्विभुजः प्राणेशोऽश्वध्वजवाहनो रोहिणीजश्शङ्खरवः प्रणवाद्यक्षरबीजः प्रह्लादः प्रह्लादं प्रजननं विष्णुभक्तं गदाधरमिति ।
v3.c20.s2.t6.65
दक्षिणे चोत्तराभिमुखश्श्यामाभो रुक्माम्बरो द्विभुज इक्षुचापपुष्पशरो रतिपतिर्मेघध्वजवाहनः पुनर्वसूजातस्वररवो मकारबीजो मदनो मदनं कामं सुन्दरं दिव्यरूपणमिति ।
v3.c20.s2.t6.66
तत्पश्चिमे चोत्तराभिमुखा पाटलपुष्पनिभा रक्तवस्त्रधरा पुष्प-हस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा ललाटोपरि पुष्पचूडासमन्विता हंसध्वजवाहना शुकस्वरवा स्वात्युद्भवा विद्यादिबीजा विपा विपां विद्युद्रूपां विशालाक्षीं मेधामिति ।
v3.c20.s2.t6.67
पश्चिमे प्राङ्मुखा हेमाभा श्यामाम्बरा द्विभुजा पुष्पहस्ता कृष्णकुञ्चितमूर्धजा वेणुरवा शुकध्वजवाहना चित्रानक्षत्रजाता नामाद्यक्षरबीजा व्याजनीं सुभगां सुन्दरीं विशुद्रामिति ।
v3.c20.s2.t6.68
तदुत्तरे रत्नाभा श्वेताम्बरा चान्यत्सर्वं व्याजनीवत् , कामिनी कामिनीं कान्तां शुभाङ्गीं विमलामिति ।
v3.c20.s2.t6.69
उत्तरे दक्षिणाभिमुखा श्वेताभा कृष्णाम्बरा पुष्पहस्ता द्विभुजा ललाटोपरिपुष्पचूडासमन्विता खगध्वजवाहना हंसरवा हस्तजाता नामाद्यक्षरबीजा चन्द्राभा चन्द्राभां तन्वङ्गीं श्वतरूपां दृढव्रतामिति ।
v3.c20.s2.t6.70
तत्पूर्वे दक्षिणाभिमुखश्यामाभो रक्ताम्बरो द्विभुजः पद्महस्त-स्सर्वाभरणभूषितो गजवाहनः खड्गध्वजस्सुनन्दापतिर्नामाद्यक्षरबीजः शतभिषग्जातस्सुनन्दं सुन्दरं सुरप्रियं शुभाननं सौम्यमिति ।
v3.c20.s2.t6.71
सप्तमावरणदेवाः ।
v3.c20.s2.t6.72
सप्तमावरणे पूर्वद्वारोत्तरे ब्रह्माणं, तद्दक्षिणेऽर्यमणं पश्चिमाभि-मुखं, दक्षिणे दण्डधरमुत्तराभिमुखं, पश्चिमे पाशभृतं प्राङ्मुखम्, उत्तरे
v3.c20.s2.t6.73
धनदं दक्षिणाभिमुखम्, आग्नेय्यां सवितारं सावित्रं, नैर्ऋत्यां चेन्द्र-मिन्द्रजं,* वायव्यां रुद्रं रुद्रजम्,† ऐशान्याम्प आपवत्सं चार्चयेत् ।
v3.c20.s2.t6.74
अन्तराले प्राच्यामुत्तरपार्श्वे ईशं पर्जन्यं जयन्तं महेन्द्रं नागं भूतं यक्षमिति ।
v3.c20.s2.t6.75
तदक्षिणपार्श्वे चादित्यं सत्यकं भृशमन्तरिक्षं दुर्गां घोटकमुखीं धात्रीं वपुषं चेति ।
v3.c20.s2.t6.76
दक्षिणे पूर्वभागेऽग्निमुष्णांशुं वितथं गृहक्षतं राक्षसं जयं कृष्णं चेति ।
v3.c20.s2.t6.77
तत्पश्चिमभागे यमं गन्धर्वं भृङ्गराजमृषीन्सुरण्डं शिवं प्राणं चेति ।
First 200 of 218 passages. Read on
Linked texts (6)
- Sarwadharma (1191 Śaka) — Old Javanese
- Narasiṃha — Sanskrit
- Viṣṇu — Sanskrit
- Vāmanopapurāṇa — Sanskrit
- Subhadrā — Hastimalla, Sanskrit
- Mahābalasūtra — Sanskrit