Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48: Rasaprakasasudhakara.

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c48

Language
English

Contents

Rasaprakasasudhakara.

यशोधरविरचितात् रसप्रकाशसुधाकरात् उद्धृृताः श्लोकाः ।

c48.s1.1

विमलसूतवरो हि पलोन्मितं
तदनु धातुघटोत्पटकौंचिकाः ।
पृथगिमाश्च चतुःपलभागिकाः
स्फटिकशुद्धपलाष्टसमन्विताः ।
सह जलेन विमर्द्द्य च यामकं
लवणकाङ्क्षजलेन विमिश्रितम् ।
उदितधातुगणस्य च मूषिकां
कुरु रसं विनिवेशय तत्र वै ।
डमरुकाभिधयन्त्रवरेण तं
द्विदृशयाममजाचयवह्निना ।
पवनपित्तकफक्षयकारकं
सकलरोगहरं परमं सदा ।
गजपतेर्बलवद्बलदो नृणां
द्विजपतौक्षणवन्नयनप्रदः ।
युवतिकामविलासविधायको
भवति सूतवरः सुखदः सदा ।
सघनसाररसः किल कान्तिद-
स्त्वखिलकुष्ठहरः कथितो मया ॥
इति कर्पूररसः ॥
उदयभास्करनामरसो ह्ययं
भवति रोगविशान्तकरः स्वयम् ।

c48.s1.2

मगधिकामधुना सह गुञ्जिकार्-
द्वयमितश्च सदा परिसेवितः ।
ललितकामविलासविधायकः
स्थविरकोऽपि रतौ तरुणायते ॥
गटहरो बलटोऽपि हि वष्टिठो
भवति कम्म्रविपाजज्रोगहा ।
सकलसूतकशास्त्रविमन्त्रणो
द्विजवरेण मया प्रकटोकृतः ॥
इति उदयभास्कररसः ॥
अदिदानीं प्रवक्ष्यामि धातुशोधनमारणम् ।
अनुभूतं मया किञ्चित् किञ्चिच्छास्त्रानुसारतः ॥
सुवर्णं रजतं चेति लोहं शुद्धमुदीरयेत् ।
ताम्रं चैवाश्मसारञ्च नागवङ्गे तथैव च ॥
तीक्ष्णलोहं निगदितं द्वितयं रसवेदिभिः ।
ममित्रलोहवितयं सौराष्ट्रीतिवर्त्तकाः ।
एतेऽष्टौ धातवो ज्ञेया लौहान्येवं भवन्ति हि ॥
अथ रसकगुणाः ।
द्विविधो रसकः प्रोक्तः कारवेल्लकदुर्दुरः¹ ।
सत्त्वपाते परः प्रोक्तः प्रथमश्चौषधादिषु ॥
स तुं² मेहहरश्चैव पित्तश्लेष्मविनाशनः ।
रञ्जनः पारदस्याथ नेत्ररोगक्षयापहः³ ॥

c48.s1.3

¹ The text reads काणौ वमवद्दुर्दर, which appears to be incorrect

c48.s1.4

² The text reads सुतं, which seems to be incorrect.

c48.s1.5

³ The second hemistich is wanting in the text. We have adopted the reading of रसम्न्रसमुच्चय ।

c48.s1.6

पारदो रसकश्चैव देहलोहकरावुभौ । नागार्जुनेन कथितौ सिद्धौ श्रेष्ठौ रसावुभौ ॥ कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ । तेन स्वर्णमयी सिद्धिरर्जिता¹ च न संशयः ॥ रसको द्रावितः सम्यक् निक्षिप्तो रसपूरके । निर्मलत्वमवाप्नोति सप्तवारं निमज्जितः² ॥ काञ्जिके वाथ तक्र³ वा नृमूत्रे³ मेषमूत्रके । द्रावितं ढालितं⁴ सम्यक् खर्परं परिशुध्यति ॥ खर्परं रेचितं शुद्धं स्थापितं नरमूतके । रञ्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥ वचाहरिद्रात्रिफला-गृहधूमैः ससैन्धवैः । भल्लातकैष्टङ्गणैश्च क्षारैरम्लैश्च मर्दितम्⁵ ॥ पादंशसंयुतैर्मूषां वृन्ताकफलसन्निभाम् । निरुध्य शोषयित्वा च मूषामुखोरि न्यसेत् ॥ प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यटि । लोहसंदंशके मूषां धृत्वा कृत्वा ह्यधोमुखीय् ॥ भूम्यामाढालयेत् सत्त्वं यथा नाळं न भज्यते । तदा सीसोपमं⁶ सत्त्वं पतत्येव न संशयः ॥ अनेनैव प्रकारेण वारत्रयहते सति । विनिःसरेत् सर्व्वसत्त्वं सचिंगु(?) गुरुणोदितम् ॥

c48.s1.7

¹ The text reads सिद्धी राजिता, which is not accurate.

c48.s1.8

² The text reads निमज्जितं, which is incorrect

c48.s1.9

³ The text has only मूत्रे, which mars the metre.

c48.s1.10

⁴ द्राविते ढालिते is the reading of the text, which is evidently an error.

c48.s1.11

⁵ The text reads वर्जित, which seems to be incorrect.

c48.s1.12

⁶ रस्रत्नसमुच्चय says वङ्गाभं । See Chap. II. Verse 161.

c48.s1.13

अथ सौराष्ट्रोगुणाः।

c48.s1.14

सौराष्ट्रदेशे सञ्जाता खनिजा¹ तुवरी मता।
या लेपिना श्शेतवस्ते रङ्गबन्धकरी हि सा ॥
फुल्लिका खटिका² तहत् द्विप्रकारा प्रशस्यते ।
किञ्चित् पीता च सुस्निग्धा गरदोषविनाशिनी ॥
श्श्वेतवर्णा परा भाम्या फुल्लिका लोहमारणे ॥
कषाया मधुरा काङ्क्षी कटुका विषनाशिनी ।
व्रणघ्नो कफहा चैव नेत्रव्यापन्निटोपहा ॥
कण्ठरोगहृश मा तु पारटे वीजजारणो ।
धान्याम्ले तुवरी क्षिप्ता शुष्यति विदिनेन वै ॥
क्षारैर्गन्धैश्च मृदिता धाता सत्वं विमुञ्चति ।
तत् सत्त्वं धातुवादार्थे चौषधे नोपपद्यते ॥

c48.s1.15

अथ पुटानि लिख्यन्ते ।

c48.s1.16

भूम्यां वै खन्यते गत्तं द्विहस्तं चतुरस्रकम् ।
छागलेन सहस्रेण पूरयेत्तदनन्तरम् ॥
औषधं धार

c48.s1.17

उर्द्धग्निं ज्वालयेत् सम्यक् सोऽयं गजपुटो भवेत् ॥
इति गजपुटः ॥
उपलं पिष्टकं छाणमुत्पलञ्च गरिण्डकम्।
छागोपलसारौ च तचरा¹ छागणाभिधाः ॥
अरत्निमात्रे कंडे च वाराहपुटमुच्यते² ॥
इति वाराहपुटः ॥
वितस्तिद्वयमानेन गत्तं चैवचतुरस्रकम्³।
कुक्कुटाख्यं पुटं विद्रादौषधानाञ्च साधनम् ॥
इति कुक्कुटपुटः ॥
छागणैरष्टभिः सम्यक् कपोतपुटमुच्यते ॥
इति कपोतपुटः ॥
तुषैर्वा गोवरैर्वापि रसभस्मप्रसाधनम् ।
माणिकाहयमानेन गोवरं पुटमुच्यते ॥
इति गोवरपुटः ॥
मृद्भाण्डे तु प्रपूर्यैवं मध्ये द्रव्यं तु विन्यसेत् ।
अधस्ताज्ज्वालयेद्वह्निं मृद्भाण्डपुटमुच्यते ॥
इति (मृद्)भाण्डपुटः ॥
गत्तं तु बालुकापूर्गे मध्ये द्रव्यं तु विन्यसेत् ।
उपरिष्टादधस्ताच्च वह्निं कुर्य्यात् प्रयत्नतः ।
तद्वालुकापुटं सम्यगुच्यते शास्त्रकोविदैः ॥
इति बालुकापुटः ॥

c48.s1.18

¹ रसरत्नसमुच्चय reads वराटो ।

c48.s1.19

² The text reads अभिधावेष कुंडे च वाराहपुटमव्ययः, which seems to be incorrect

c48.s1.20

³ The text reads गत्ते कुर्याच्चतुरस्रकं, which mars the metre

c48.s1.21

मूषिकां भूमिमध्ये तु स्थापितां द्व्यङ्गुलादधः ।
उपरिष्टात् पुटं दद्यात्¹ तत् पुटं भूधराभिधम् ॥
इति भूधरापुटः ॥
गोवरैर्वा तुषैर्वापि मात्राकर्षमितैः पुटम् ।
यत्र तल्लावकाख्यं स्यान्मृदुद्रव्यस्य साधने ॥
इति लावकापुटः ॥
इति श्रीपद्मनाभसूनुश्रीयशोधरविरचिते
रसप्रकाशसुधाकरे दशमोऽध्यायः ।

c48.s1.22

¹ The text reads दवा, which is incorrect.

c48.s1.23

अथातः संप्रवक्ष्यामि धातूनां कौतुकं परम् ।
स्वानुभूतं मया किञ्चित् श्रुतं यच्छास्त्रतः खलु ॥
तदहं कथयिष्यामि यत् कृत्वा न सुखी भवेत् ॥
रसकं दरदं ताप्यं गगनं कुनटीसमम् ।
रक्तस्नुहीपयोभिश्च मर्दयेद्दिनसप्तकम् ॥
जलयन्त्रेण वै पाच्यं चतुर्विंशतियामकम् ।
तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥
सहस्र(शत)वेधी तु तत्कल्को जायते नात्र संशयः ॥
एकभागस्तथा सूतो वज्रवङ्गाथ मर्दितः ।
खल्ले निर्निंप्पाच्य रसे पञ्चभागसमन्विते ।
वेत्रयष्ट्या च रागिण्या पीतकल्कं प्रजायते ॥
षोडशांशेन दातव्यं द्रुते ताम्रे सुशोभने ।
जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥
इति हेमक्रिया ॥

c48.s1.24

स्वर्णमाक्षिकं संस्वेद्य काञ्जिके दिवसत्रयम् ।
चर्मरंग्या(गा)रसेनैव मर्दयेद्दिनसप्तकम् ।
जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥
दरदं रसदेशौर्यं¹ गोमूत्रेणैव स्वेदयेत् ।
दोलायन्त्रेऽह्नि² चत्वारि पश्चाच्छुद्धतमो भवेत् ॥
मनःशिला पद्मनिभा रक्ता चैव सुशोभना ।
स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ।
याममर्द्धमिता शुद्धा सर्व्वकार्येषु योजयेत् ॥
नवसारस्तथा सूतः शोधितोऽग्निमति स्थले ।
समभागानि सर्व्वाणि मर्दयेन्निम्बुकारसैः ॥
मातुलुङ्गरसेनैव कुमारीसुरसेन वा ।
सूर्यांतपे विमर्द्दोऽसौ पाचितो जलयन्त्रके ।
दिनानि त्रीणि तीव्राग्नौ कुर्य्यात्तदवतारयेत् ॥
शतांशं वेधयेत्तारं शुद्धहेम प्रजायते ।
जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥
शिलया मारितं नागं कुमार्य्याः स्वरसेन तु ।
पुटद्वादशयोगेन नागभस्म प्रजायते ॥
शतसंख्यानि वै कुर्य्यात् पुटान्‍येवं शरावके ।
कुमार्य्याः स्वरसेनैव भावयेद्दिनसप्तकम् ।
पूर्व्ववत् पुटनं कार्य्यं शतसंख्यामितं तथा ।
सूतगन्धशिलाटङ्कसमं चेन्नागभस्मकम् ।
त्रिंशदनोपलैर्दद्यात् पुटं वाराहसंज्ञकम् ॥
अनेन विधिना सम्यक् शतसंख्यानि दापयेत् ।
पुटान्‍येवं कृते त्रीणि शतानि द्वादशाधिकम् ॥

c48.s1.25

¹ The text reads रसदेशौयो, which is incorrect.

c48.s1.26

² अह्नि [अहानि] is grammatically incorrect.

c48.s1.27

प्याहट्टे काचमये कूपे द्वात्रिंशद्यामकम् ।
वालुकाग्निं प्रदद्याच्च स्वाङ्गशीतं समुद्धरेत् ॥
तद्भस्म ग्रहीतव्यं वेधयेत्तारशुल्वके ।
शुद्धंम भवेत्तेन नात्र कार्य्या विचारणा *

Linked texts (2)