Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63: प्रथमः खण्डः

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63

Language
English

Contents

प्रथमः खण्डः

प्रथमः पटलः (औपोद्घातिकम्)

v1.c63.s1.1

(औपोद्घातिकम्)

v1.c63.s1.2

वास्तुलक्षणम्

v1.c63.s1.3

१. वि० वा०
(अ) ७. १.; ७. ६१
देवतानां नराणाञ्च गजगोवाजिनामपि ।
निवासभूमिश्चल्पज्ञै— र्वास्तुसंज्ञमुदीरितम् ॥
इष्टिका च शिला दारुरयः कीलादयो ऽ प्यमी ।
वास्तुकर्मणि चान्यत्र वास्तुसंज्ञमुदीरितम् ॥
(ब) २. ३२-३६⅓
अतो लोकेषु सर्वेषु शिल्पं बहुविधं ततम् ।
ग्रामाणां च पुरीणां च लक्षणं बहुधा स्मृतम् ॥ १ ॥
खेटकर्वटकादीनां दुर्गाणामपि लक्षणम् ।
प्रासादेषु च हर्म्येषु देवानां भूभुजामपि ॥
विविधेष्वपि निर्माणेष्वपि सन्दूप्यकं बहु ।
भवने न्यायशालायां सभायों कोशसद्मनि ॥
अन्तःपुरे शस्त्रगेहे शालासु विविधासु च ।
क्रीडागेहेषु रम्येषु तोरणादिषु मञ्जिके ॥
अधिष्ठानोपपीठेषु गोपुरेषु तथा बहु ।
सङ्गीर्गभवनाढ्येषु पताकापारिभद्रके ॥
चातुर्वर्ण्यगृहाणां च लक्षणं बहुधा स्मृतम् ।
वेदिकापोतिकासन्धिबन्धनावरणेषु च ॥
स्तम्भादिके च निर्माणो विशेषभवनेषु च ।
मण्डपेषु विमानेषु प्राकारादिषु यन्मतम् ॥
लक्षणं बहुधा प्रोक्तं नानादेशविभागशः ।
२. स० सू०
१. ४-५
देशः पुरं निवासश्च सभा वेश्मासनानि च ।
यद्यदीदृशमन्यच्च तत्तच्छ्रेयस्करं मतम् ॥
वास्तुशास्त्रादृते तस्य न स्याल्लक्षणनिश्चयः ।
तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥
३. टि० अपराजित-पृच्छायां (सू० ५३, २४) कोऽपि अद्भुत एव वास्तु-लक्षण-विलासः

v1.c63.s1.4

@H ४. मा०

v1.c63.s1.5

तैत(ति)लाश्च नराश्चैव यस्मिन्यस्मिन् परिस्थि(ष्ठि)ताः ।
तद्वस्तु सु(सू)रिभिः प्रोक्तं(क्तं) तथा वै वक्ष्यतेऽधुना ॥
धरा हर्म्यादि यानं च पर्यङ्कादि चतुर्विधम् ।
धरा प्रधानवस्तु स्यात्तत्तज्जातिषु सर्वशः ॥
विमानादीनि वास्तूनि वस्तुतं(तो) वस्तुसंश्रयात् ।
तान्येव वस्तुरे (वै)वेति कथितं वस्तुविद्बुधैः ॥
प्रासादमण्डपं चैव सभाशालाप्रपां(पास्)तथा ।
(अ)रङ्गमिति चैतानि हर्म्यमुक्तं पुरातनैः ॥
आदिकं स्यन्दनं शिल्पि(न्)शिबिका च रथं तथा ।
सर्वैर(सर्वं) यानमिति ख्यातं शयनं वक्ष्यते तथा ॥
पञ्ज(अ) रं मञ्जली मञ्चं काकाष्ठं फलकासनम् ।
तथैव बालपर्यङ्कं पर्यङ्कमिति कथ्यते ॥
@H ५. मय०
@H २. १-३
अमर्त्याश्चैव मर्त्याश्च यत्र यत्र वसन्ति हि ।
तद् वस्त्विति मतं तज्ज्ञैस्तद्मेदं च वदाम्यहम् ॥
भूमिप्रासादयानानि शयनं च चतुर्विधम् ।
भूरेव मुख्यवस्तु स्यात् तत्र जातानि यानि हि ॥
प्रासादादीनि वास्तूनि वस्तुत्वाद् वस्तुसंश्रयात् ।
वस्तून्यैव हि तान्येव प्रोक्तान्यस्मिन् पुरातनैः ॥

v1.c63.s1.6

वास्तु-शास्त्र-जन्म

v1.c63.s1.7

@H १. वि० वा०
@H २. २८-३२
सा परा शक्तिरेवैषा शूलिनः केन वर्ण्यते ॥
या तता त्रिषु लोकेषु तैलबिन्दुरिवाम्भसि ।
यत्प्रसादान्मया ज्ञातं वास्तुशास्त्रमिदं ततम् ॥
शास्त्रेणानेन सर्वस्य लोकस्य परमं सुखम् ।
चतुर्वर्गफलप्राप्तिस्सल्लोकश्च भवेद्ध्रुवम् ॥
शिल्पशास्त्रपरिज्ञानान्मर्त्योऽपि सुरतां व्रजेत् ।
परमानन्दजनकं देवानामिदमीरितम् ॥
शिल्पं विना न हि जगत्त्रिषु लोकेषु विद्यते ।
जगद्विना न शिल्पं च वर्तते वासव ! प्रभो ! ॥
@H २. स० सू०
@H (अ) २. ४-१४
तानुवाच मुनिर्वत्सा ! विदितं वो यथा पुरा ।
वास्तु ब्रह्मा ससर्जोदौ विश्वमप्यखिलं तथा ॥
धर्म्यं कर्म तदा श्रैष्ठ्यप्राप्त्यै लोका वनानि च ।
व्यवस्थाप्य चकारैष लोकपालस्य कल्पनाम् ॥
अहमप्यमुना विश्वनाथेनाम्बुजजन्मना ।
लोकानां संनिवासाथर्मादिष्टोस्मि स्वयम्भुवा ॥

v1.c63.s1.8

रम्याणि नगरोद्यानसभास्थानान्यथो मया ।
सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥
गत्वोर्वी वैन्यनृपतेर्वत्साः ! प्रियचिकीर्षया ।
नगरग्रामखेटादीन् करिष्यामि पृथक् पृथक् ॥
कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते ।
सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ।
यतस्त्रिभुवनालोकप्रद्योतस्याब्जिनीपतेः ।
सहायतां तमश्छेदे कलयन्ति मरीचयः ॥
स्वयं करिष्येऽहमतो निवासाय पृथोः पुरीम् ।
विचित्रनगरग्रामखेटामतिमनोहराम् ॥
भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् ।
तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकृताश्रयान् ॥
अन्तरेष्वध्वपाथोधिGeneralशैलानां सरितां तथा ।
विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥
वर्णप्रकृतिवेश्मनि संस्थानानि च लक्ष्मभिः ।
विधेयानि प्रतिग्रामं प्रतिपूर प्रतिपत्तनम् ॥

v1.c63.s1.9

पृथुनेत्यथ विज्ञप्तो भगवानब्जसम्भवः ॥
उवाच बोधयन्नेनं कृत्वा भूमिं च निर्भयाम् ।
इयं मही महीपाल ! विधिवत् पालिता सती ॥
सस्यैरूपा (द्य?य) निष्पन्नैस्तव भोग्या भविष्यति ।
यच्च ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥
तदेष त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः ।
सुतः प्रभासस्य विभोः स्वस्त्रीयश्च बृहस्पतेः ॥
विश्वातिशायिधीः सर्वं विश्वकर्मा करिष्यति ।
राजन्नसौ महेन्द्रस्य विदधावमरावतीम् ।
अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः ।
त्वया चेत्रीकृतां मूर्तिं दृष्ट्वा साद्रिद्रुमामसौ ॥
सन्निवेशान् पुरग्रामनगराणां विधास्यति ।
तद्गच्छ वत्स ! लोकानामितस्त्वं हितकाम्यया ॥
भयोञ्झिता त्वमप्युर्वि ! पृथोः प्रियकरी भव ।
काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥
त्वमप्यखिलमेवैतद् विश्वकर्म (न्) ! करिष्यसि ॥

v1.c63.s1.10

ततो हिमवतः पृष्ठे ब्रह्मलोकात्समागतौ ।
शृङ्गाकुले वनाकीर्णे हिमवन्तश्रीयोद्भवे ॥
नैकगुहाश्रमरम्ये गन्धर्वगणसेविते ।

v1.c63.s1.11

मिष्टान्नकृतहारीशं क्रीडासालिगृहागृहैः ॥
तयः पृच्छति यत्त्वेदं वास्तुविद्योद्भवं वदः।
तदिदं कथितव्यं च शृणु संवादमुत्तमम् ॥
चतुर्

v1.c63.s1.12

वास्तु-शास्त्राचार्याः

v1.c63.s1.13

(i) पौराणिकाः

v1.c63.s1.14

भृगुरत्रिवशिष्ठश्च विश्वकर्मा मयस्तथा ।
नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ॥

v1.c63.s1.15

ब्रह्मा कुमारो नन्दीशः शौनको भर्ग एव च ।

v1.c63.s1.16

वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ॥
अष्टादशैते विख्याताः शिल्पशास्त्रोपदेशकाः ॥

v1.c63.s1.17

(ii) तान्त्रिकाश्च

v1.c63.s1.18

आगमापरनामानि तन्त्राणि शैव-शाक्त-वैष्णव-भेदानि त्रेधा भिद्यन्ते । शैवागमाः कापाल-कालमुख-पाशुपत-शैव-भेदेन चतुर्धा भवन्ति । तत्रापि चरमे काश्मीरशैवसिद्धान्तभेदेन द्विधा भिद्यन्ते ।

v1.c63.s1.19

शाक्तागमाः दक्षिणाचार-वामाचार-भेदेन द्विविधा भवन्ति । दक्षिणाचारः प्रायो वैदिकमार्गानुसारी । वामाचारस्तु वैदिकमार्गपरिश्रष्ट इति वदन्ति ।

v1.c63.s1.20

वैष्णवागमाश्च वैखानस-पञ्चरात्रभेदेन द्विविधा भवन्ति । उभयेऽपीमे विष्णुपारम्यं विष्णुपूजादिकं च प्राधान्येन प्रतिपादयन्ति ।

v1.c63.s1.21

वैखानस-पञ्चरात्रयोस्तारतम्यम् वैखानसप्रक्रियायां वैखानस-सूत्रिणां द्विजानामेवाधिकारः । भगवान् वैखानसो हि आपस्तम्ब-बोधायनादिवत् यजुः-शाखानुसारी श्रौत-गृह्य-धर्म-सूत्राणां रचयिता । तदीयसूत्रेषु भगवतो नारायणस्य पूजां संग्रहेण प्रतिपादितामवलम्ब्य भृगुमरीच्यादयो महर्षयो विस्तरेण भगवत्पूजां प्रतिपादयिषवो विविधनामग्रन्थानरचयन् ते च भृगुसंहिता, मरीचिपटलः, आनन्दसंहितेत्यादिनाम्ना प्रथन्ते ।

v1.c63.s1.22

पाञ्चरात्रप्रक्रियायान्तु स्वार्थे गृहार्ार्चायजने सर्वेषामधिकारः । परार्थे देवालययजने तु ये किल प्रसिद्धेषु देवालयेषु वंशपरम्परया दीक्षाविशेषपुरःस्सरे समाराधनेऽधिकृताः, तद्वंशजानामेव मुख्योऽधिकारः, अन्येषां तु गौणोऽधिकार इति संप्रदायः ।

v1.c63.s1.23

पाञ्चरात्रसंहितासंख्यापरिगणनम् एतच्छास्त्रसंबन्धिनः संहिताबेदाश्च पाद्ममार्कण्डेयकपिलभारद्वाजहयशीर्षसंहिताविष्णुतन्त्रादिषु बहुधा नामतो निर्दिश्यन्ते । ततः संगृह्य तन्नामानि तत्रभवता पण्डित श्री कृष्णमाचार्येण लक्ष्मीतन्त्रोपोद्घाते प्रस्तुतानि तत्रैव विभाव्यानीति दिक् ।

v1.c63.s1.24

वास्तुशास्त्रस्य विस्तारः विषयाश्च

v1.c63.s1.25

(अ) विस्तारः- भारतीय-वास्तुशास्त्र-नामके लेखकस्य हिन्दी-ग्रन्थे अवलोकनीयः-

v1.c63.s1.26

अ-स्वातान्त्रिकः ब-सार्वभौमिकः दार्शनिको वा स-भौगोलिकः
य-खगोलीयः र-भौगर्भिकश्च पत्रांक-२३४-२४२

v1.c63.s1.27

(ब) विषयाः

v1.c63.s1.28

(i) विज्ञानात्मकाः

v1.c63.s1.29

अथ तेषु जयो नाम वाक्यं तद् विश्वकर्मणः ।

v1.c63.s1.30

श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥

v1.c63.s1.31

ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल ।
वृणोषि तेन न वयमात्मानं बहु मन्महे ॥
तदिदानीं हितार्थं नः प्रजानामपि च प्रभो !
अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥
पूर्वमेकार्णवे जाते जगति प्रलयं गते ।
महाभूतामरपुरीज्योतिषां कथमुद्भवः ?
किमाकारा किमाधारा किंप्रमाणा च मेदिनी ?
विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ?
उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः ।
कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥
काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक् पृथक् ।
भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ?
किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः ?
लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ?
युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः ?
कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ?
कति देशाः कति भुवः पृथक्त्वेन निरूपिताः ?
कार्यः क्व च कथं सन्निवेशो जनपदाश्रयः ॥
व्यक्तिचिह्नैः स्वनस्पर्शगन्धवर्णरसादिभिः ?
काः शस्ता निन्दिताः काश्च पुराणामपि भूमयः ?
कार्यं केन विधानेन भूभृत्पुरनिवेशनम् ।
किं फलं सुनिविष्टेऽस्मिन् दुर्निविष्टे च किं पुनः ?
कति प्रकारं दुर्गं च दुर्गकर्मक्रमश्च कः ?
किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ।
कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः ?
प्राकारगोपुराट्टालपरिखावप्रकर्म च
तमङ्गानिर्गमद्वारप्रतोल्यट्टालकादिभिः ।
कीदृशः प्रविभागश्च रथ्याचत्वरवत्मभिः ॥
भूमिप्रमाणसंस्थानं सीमा च क्षेत्रदिक्पथैः ।
नगरग्रामखेटानां निवेशाः स्युः पृथक् पृथक् ?
पुरस्याभ्यन्तरे पूर्वं कैर्द्रव्यावयवक्रमैः ।
कस्मिन् स्थाने कथं कार्यं शक्रध्वजनिवेशनम् ?
प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः ।
हिताय नृपलोकानां विधातव्यो महोत्सवः ?
गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च ।

v1.c63.s1.32

भागैर्बाह्यान्तरैः कैः कैः कार्याः काः काश्च देवताः ?
कैः कैर्यार्नपरीवारवर्णरूपविभूषणैः ।
कार्याः कैः कैः सुरा वस्त्रवयोवेषायुधध्वजैः ॥
प्रमाणमितिसंस्थानसंख्यानोच्छ्रयलक्ष्मभिः ।
प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ?
प्राकारपरिखागुप्तं पुरे स्याद् गोपुरं क्व च ।
युग्ममध्याम्बुवेश्मनि क्व च स्युः क्व महानसम् ?
कोषागारायुधस्थानभाण्डागारनिवेशनैः ।
व्यायामवृत्तसंगीतस्नानधारागृहादिभिः ॥
शय्यावासगृहप्रेक्षावेश्म [दर्शगृहैः पृथक् ।
क्रीडादोलालयारिष्टगृहान्तःपुरवेश्मभिः ॥
विटङ्क भ्रमनिर्यूहकक्षासंयमनादिभिः ।
अशोकवनिकाभिश्च लत्तामण्डपवेश्मभिः ॥
वापीभिर्दारुगिरिभिश्चित्रामिः पुष्पवीथिभिः ।
एतैर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥
मानोन्मानक्रियायामद्रव्याकृतिविनिर्मितः ।
निकेतननिवेशः स्याद् राज्ञां भागाश्रितः कथम् ?
पुरोधःसैन्यभूश्रेष्ठदैवचिन्तक मन्त्रिणाम् ।
कं कं च भागं प्राप्य स्युर्निवेशा नृपवेश्मनः ?
पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च ।
विप्रराजन्यविट्शूद्रास्तज्जैरन्तरजैः समम् ?
तथा कृषितुलाशिल्पकलापण्योपजीविनः ।
हिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ?
विवेशाः कीदृशाश्चैषां कियन्तो वा भवन्ति ते ?
शस्यन्ते केन वा केषां कैः प्रवेशजलभ्रमैः ?
धिष्ण्यमार्थं कतिविधं द्रव्याण्याद्यानि कानि वा ?
हेतुस्तेषां च सर्वेषां स्याच्च कीदृगनुक्रमः ?
भजन्ते योगमन्योन्यं कानि द्रव्याणि कैः सह ?
कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ?
इष्टिकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः ?
परिकर्मक्रमस्तासां वह्न्यम्बुपवनैश्च कः ?
गुरुर्वृण्वध्वजोर्व्वीशतदभृत्यप्रतिमा (?!) पुराम् ।
वृक्षाः के के प्रशस्ताः स्युर्गृहार्थे के च गर्हिताः ?
तच्छेदस्रावसंभूतं शब्ददिक्पातगर्भजम् ।
विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ?

v1.c63.s1.33

प्रमाणं तक्षणाच्छेदैः शोधितानां कथं भवेत् ?
आहत्य स्थापनं पूर्वं दारूणां स्थानके क्व च ?
सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः ।
प्रशस्तैर्लक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ?
शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च ।
दिग्ग्रहः सूत्रणं चाधिवासनं च कथं भवेत् ?
प्रमाणं मूलपादस्य शिलान्यासे च को विधिः ।
विभज्यते कथं वेश्म शालालिन्दविभाजनैः ?
मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के ।
कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ?
समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह ।
नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥
जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च ।
कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ॥
स्वमानात् सर्ववर्णानां तलोच्छायास्तु कीदृशाः ।
का गवाक्षकपोतालिवेदिकाजालकक्रियाः ?
स्थूणा निसृष्टिकोट्सूका मृगा (ल्योःल्यु) पतुलास्तथा ।
सान्ताः प्रागिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ?
छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः ।
त्र्यस्त्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ?
सीमालिन्दशिर (स्वा?स्त्वा) सां कीदृशी चावलम्बना ।
कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ?
यच्चान्यदेवमादि स्यात् प्रासादभवनादिषु ।
द्रव्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ?
शालालिन्दप्रमाणानि चतुःशालेषु धामसु ।
ज्यायोमध्ययवीयस्सु रूपाभिः काष्ठकल्पना ॥
एकद्वित्रिचतुःशालान्येषां संयोगतोपि च ।
कथं कति च वेश्मानि कल्प्यन्ते प्रविभागशः ?
कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् ।
संविभागाः पदानां स्युः कथमत्रामरस्थितिः ?
आद्यो नवपदो वास्तुरन्यः साहस्त्रिकः कथम् ।
अङ्गमप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ?
कथमेते सुराः सर्वे वास्तोरस्य व्यवस्थिताः ।
एतद्दंशशिरश्पक्ष्क्षुः कुक्षिक्षन्मूर्धमर्मसु ?
जायेत पीडा द्रव्येण सन्निविष्टेषु कस्य का ।

v1.c63.s1.34

वास्त्वारम्भप्रवेशेषु, यात्रायां स्थापनेषु च ॥
दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् ?
दारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ?
योज्यं किं किमयोग्यं च किं भूपभवनादिषु !
हस्तस्य लक्षणं मानसञ्ज्ञा वै जायते कथम् ?
किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् ?
अनुक्रमेण वर्णानां वलिकर्म च कीदृशम् ?
विधेयं विधिना केन भवने च प्रवेशनेम् ?
पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥
निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु ।
मधुवल्मीकसम्भूतौ प्रविरूढे च दारुणि ॥
जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः ?
इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसम्भृतं च ।
अस्मास्वनल्पकरुणाद्रितचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनुक्रमेण ।

v1.c63.s1.35

सृष्टिकौतूहलं देव उत्पत्तिर्भूतधातृभिः ।
ब्रह्माण्डं च कथं प्रोक्तं केन संख्याप्रमाणतः ?
कया युक्त्या समुत्पन्नं वर्द्धितं केन हेतुना ।
विकासः केन संजातः कैराधारैश्च धार्यते ?
धरायाः केचिदाधारा आकाशस्य कथं विदुः ।
के च मेर्वाद्यः शैलाः कैराधारैः कुलाचलाः ?
किं धरित्र्याः प्रमाणं च सप्तद्वीपा वसुन्धरा ?
समुद्राश्च कथं प्रोक्ता वनोपवनकाननम् ?
द्वीपद्वीपेषु क्षेत्राणां प्रमाणानि कथं विदुः ।
जम्बूद्वीपस्य मध्ये तु नव क्षेत्राणि कानि च ?
उत्तमं भारतं क्षेत्रं तत्प्रमाणं च ख्यातु मे ।
स्वेदाण्डोद्भेजरायुजो भूतग्रामः कथंचन ?
को धर्मः कुत्र क्षेत्रेषु रम्यकादौ वदेद्भगवान् ?
ये देशा भारते क्षेत्रे आश्रमा ग्रामसंख्यया ॥
को धर्मः कुत्र देशे तु भरतक्षेत्रमध्यतः ।
कृतत्रेताद्वापरे तु चतुर्थे वा कलौ युगे ॥
युगान्ते च कथं धर्मो युगरूपानुदेवताः ।
धर्मः कृतयुगादीनां द्विजदेवयज्ञादयः ॥
कश्च धर्मः कथं कीर्त्तिर्द्विजदेवालयादितः ।
आलयः सर्वसत्त्वानां वेश्महर्म्यप्रसाधनम् ?
वास्तूत्पत्तिः कथं तात देवादेश्च निघण्टुकम् ।

v1.c63.s1.36

एकपादादिकं वास्तु यावत्पदसहस्रकम् ॥
नमोपमर्मवंशाश्च रेखाषट्कसंध्यादिकम् ।
वज्रत्रिशूललाङ्गलं हस्तसूत्रादिपञ्चकम् ॥
बलिकर्मविधिं ब्रूहि वास्तुपादनिवासिनाम् ।
विद्यात् स्थानानि सर्वाणि प्रासादभवनादितः ॥
हस्तलक्षणमानं च देवतापादसंभवम् ।
मानोन्मानप्रमाणं च सर्वकर्मादिकारणम् ॥
सूत्रधारो हि जानीयाद्धणं रुतमेव च ।
भूपरीक्षां शल्योद्धारं कीलिकारोपणादिकम् ॥
वर्णगन्धरसास्वादप्लवादिभूमिलक्षणम् ।
दीपवर्त्तिप्राग्विशुद्धिं दिशां च साधनादिकम् ॥
प्रस्तारक्रमसूत्रं च राजधान्याः पुरादिकम् ।
पुरग्रामनगराद्यं खेटं कूटं च कर्वटम् ॥
पुरप्राकारपरिखाप्रतोलीमार्गगोपुरम् ।
वेश्मनि राजवेश्मनि सभां शालां गजाश्वयोः ॥
सूत्रपातविधिं ज्ञात्वा दन्यादेश्चापि लक्षणम् ।
ज्योतिषे केवलं ज्ञानं स्त्रीपुरुषादिलक्षणम् ॥
प्रासादप्रतिमालिङ्गजगतीपीठमण्डपान् ।
प्रासादान् विविधाकारान् वैराज्यकुलसम्भवान् ॥
अष्टजातिक्रमच्छन्दो देशानुरूपसूत्रणे ।
रेखाश्च विविधास्तत्र प्रासादे शिखरे मताः ॥
घण्टाकलशध्वजानां प्रमाणं सृष्टिसम्भवम् ।
प्रतिष्ठा सप्तधा ख्याता कूर्माद्या च ध्वजान्तगा ॥
प्रासादे गर्भद्वारे च देवतानामनुक्रमः ।
द्वारदृष्टिपदस्थानं दिग्द्वारं च कथञ्चन ॥
द्वारलक्षणं प्रोक्तव्यं दारुकर्मरथारुहे(त्मके) ।
सिंहकर्णकपोतालीनिर्यूहच्छाद्यकं लुमम् ॥
वितानानि विचित्राणि क्षिप्तान्युत्क्षिप्तकानि च ।
पद्मकं नाभिरुच्छन्दं च सभामार्गं मन्दारकम् ॥
प्रतिमालक्ष्मस्थानानि दृष्टस्थानादिकं तथा ।
भृत्यचारप्रभेदाश्च स्वस्वयानादिकं तथा ॥
तालप्रस्तारगीतानां वादित्रैः स्याच्चतुर्विधम् ।
चित्रपट्टप्रभेदाश्च रेखाचित्रसमुद्भवाः ॥
वर्णरूपरसवृत्तिभावानुभावकोद्भवाः ।
शुद्धावद्धानि चित्राणि पत्राणि पञ्च एव (?) च ॥

v1.c63.s1.37

शालभञ्जी प्रतीहारी लास्यताण्डवकादिकम् ।
भूषणानि विचित्राणि देवासुरनृणां किल ॥
छत्रं सिंहासनं शय्यां यानानि चायुधानि च ।
वेदिकानानलङ्कारं रत्नधातूद्भवं तथा ॥
एतत्सर्वं प्रसादेन कथय स्वयमीश्वर !
भक्तवत्सल देव त्वं प्रसादं कुरु मे प्रभो ॥

v1.c63.s1.38

मानोपकण्रं चादौ शिल्प(ल्पि)लक्षणपूर्वकम् ।
अथ वास्तुप्रकरणं भूपरीक्षाविधिं तथा ॥
भूसंग्रहस्ततः प्रोक्त शङ्कुस्थापनलक्षणम् ।
देवादीनां स्थापनाय पदविन्यासलक्षणम् ॥
बलिकर्मविधिं चैव ग्रामादीनां च लक्षणम् ।
नगरीलक्षणं चैव भूमिलम्बविधानकम् ॥
गर्भन्यासविधिं चैव चोपपीठस्य लक्षणम् ।
अधिष्ठानविधिं चैव पादमानस्य लक्षणम् ॥
प्रस्तरस्य विधिं चैव लक्षणं सन्धिकर्मणः ।
विमानलक्षणं चैवमेकभूम्याश्च लक्षणम् ॥
द्वितलस्य विधिं चैव त्रितलस्य विधानकम् ।
चतुस्तलविधिं चैव पञ्चभूम्याश्च लक्षणम् ॥
षट्सप्ततलं चैवमष्टभूनवभूमिकम् ।
दशभूमिविधानं च रुद्रभूमिविधानकम् ॥
तलं द्वादशकं चैव प्राकाराणां च लक्षणम् ।
परिखालक्षणं चैव गोपुराणां च लक्षणम् ॥
मण्डपस्य विधानं च शालानां चैव लक्षणम् ।
विन्यासश्च गृहस्याथ गृहप्रवेशलक्षणम् ॥
द्वारस्थानविधिं चैव द्वारमानस्य लक्षणम् ।
राजहर्म्याविधिं चैव राज्याङ्गस्य तु लक्षणम् ॥
भूपतेर्लक्षणं चैव यानादेरथ लक्षणम् ।
शयनस्य लक्षणं चैव सिंहासनलक्षणम् ॥
? तोरणं(णस्य)मध्यरङ्गस्य कल्पवृक्षस्य लक्षणम् ।
अभिषेकलक्षणं चव सर्वभूषणलक्षणम् ॥
ब्रह्मादीनां त्रिमूर्तेश्च लक्षणं लिङ्गलक्षणम् ।
पीठस्य लक्षणं चैव शक्तीनां लक्षणं तथा ॥
बौद्धस्य जैनिकानां च लक्षणं मुनिलक्षणम् ।
यक्षविद्याधरादीनां लक्षणं भक्तलक्षणम् ।
ग्रहादीनां च देवानां तत्तद्वाहनलक्षणम् ।

v1.c63.s1.39

लक्षणं प्रतिमानां चोत्तमदशतालस्य च ।
धीमानाय मध्यमस्य दशतालस्य लक्षणम् ।
प्रलम्बलक्षणं चैव मधूच्छिष्टविधानकम् ॥
तथा च लक्ष्यते सर्वमङ्गदोषविधानकम् ।
नयनोन्मीलनं चैव लक्षणं वक्ष्यते क्रमात् ॥

v1.c63.s1.40

तैत्तिलानां मनुष्याणां वस्त्वादीनां सुखोदयम् ।
प्राज्ञो मुनिर्मयः कर्ता सर्वेषां वस्तुलक्षणम् ॥
आदौ वस्तुप्रकारं च भूपरीक्षा परिग्रहम् ।
मानोपकण्रं चैव शङ्कुस्थापनमार्गकम् ॥
सपदं स्वरविन्यासं बलिकर्मविधिं तथा ।
ग्रामादीनां च विन्यासं लक्षणं नगरादिषु ॥
भूलम्बस्य विधानं च गर्भर्विन्यासलक्षणम् ।
उपपीठविधिं चैवाधिष्ठानानां तु लक्षणम् ॥
स्तम्भानां लक्षणं चैव प्रस्तरस्य विधिक्रमम् ।
सन्धिकर्मविधानं च शिखराणां तु लक्षणम् ॥
एकभूमिविधानं च द्वितलस्य तु लक्षणम् ।
त्रितलस्य विधानं च चतुर्भूम्यादिलक्षणम् ॥
ससारं परिवाराणां गोपुराणां तु लक्षणम् ।
मण्डपादिविधिं चैव शालानां चैव लक्षणम् ॥
गृहविन्यास मार्गं च गृहवेशनमेव च ।
राजवेश्मविधानं च द्वारविन्यासलक्षणम् ॥
यानानां शयनानां च लक्षणं लिङ्गलक्षणम् ।
पीठस्य लक्षणं सम्यगनुक्रमविधि तथा ॥
प्रतिमालक्षणं देवदेवीनां मानलक्षणम् ।
चक्षुरुन्मीलनं चैव संक्षिप्याह यथाक्रमम् ॥

v1.c63.s1.41

आचार्यलक्षणं पूर्वं मानसाधनलक्षणम् ।
पश्चाद् भूलक्षणं चैव) भूपरिग्रहमेव च ॥
ग्रामादीनां लक्षणं च पदविन्यासलक्षणम् ।
वास्तुपूजाक्रमं तत्र ग्रामादेर्द्वारलक्षणम् ॥
तत्र देवालयस्थान परं खातविधिक्रमम् ।
शङ्कुना दिक्परिज्ञानं गर्भविन्यासस्ततः परम् ॥
वास्तु (कर्म) विधानं च साधनानां च लक्षणम् ।
हर्म्यादिलक्षणं पश्चाद् पश्चात् प्रासादलक्षणम् ॥
पादाधिष्ठाननियममुपपीठस्य लक्षणम् ।
प्राद्यङ्गलक्षणं नाललक्षणं भित्तिलक्षणम् ॥

v1.c63.s1.42

+ + + भित्तिभूषाः सर्वस्वलक्षणम् (?) ।
द्वाराणां लक्षणं पश्चात् तोरणानां च लक्षणम् ॥
जालस्य लक्षणं कूटगोष्ठादीनां च लक्षणम् ।
पञ्जराचरणं वृत्तस्फुटितस्य तु लक्षणम् ॥
पश्चात् कुम्भलताचारमुत्तराणां च लक्षणम् ।
प्रस्तरस्य गलस्यापि शिखरस्य च लक्षणम् ॥
लुपाया लक्षणं पश्चात्तत्र मूर्द्धेष्टकाविधिम् ।
नासिकालक्षणं स्तूपिलक्षणं शान्तिकादिकम् ॥
वृत्ताष्टाश्रषडश्रादिप्रासादाकारलक्षणम् ।
मण्डपस्य विधिः पञ्चप्राकारं गोपुरं ततः ॥
परिवारविधिं पश्चान्महापीठस्य लक्षणम् ।
ध्वजस्य लक्षणं सन्धिलक्षणं चित्रलक्षणम् ॥
प्रत्येकं क्रमशः प्रोक्ताः पूर्वभागे भवन्त्विति ।
षट्चत्वारिंशदध्यायाः शिल्परत्नाख्यसंग्रहे ॥
अथातो बिम्बलिङ्गादि साधनस्वीकृतिक्रमः ।
लिङ्गस्य लक्षणं पश्चाल्लिङ्गलक्षणलक्षणम् ॥
बिम्बायामविधिः पश्चादुत्तमं दशतालकम् ।
मध्यमं दशतालं चाप्यधमं दशतालकम् ॥
उत्तमं नवतालं च मध्यमं नवतालकम् ।
अधमं नवतालं चाप्यष्टतालस्य लक्षणम् ॥
सप्ततालं च षट्तालं पञ्चतालं तथैव च ।
चतुस्तालं ततः पश्चाद् भूषायुधविधिः पुनः ॥
शूलसंस्थापनं पश्चाद् रज्जुबन्धक्रमं पुनः ।
मृल्लेपनं तथा देवीलक्षणं वाहलक्षणम् ॥
(किं)ञ्च शैवप्रकरणं वैष्णवं शक्तिमार्गजम् ।
ध्यानं च बिम्बदोषं च पीठलक्षणमेव च ॥
प्रतिष्ठायाः क्रमं पश्चाज्जीर्णोद्धारः ततः परम् ।
लिङ्गप्रासादकरणं मानुषालयलक्षणम् ॥
कूपप्रश्नं ततः पश्चादासनादिपरिच्छदम् ।
कर्मकारजनस्यास्य वेतनाकल्पनक्रमम् ॥
छुरिकालक्षणं पञ्चत्रिंशदस्ताध्यायसमन्वितम् ।
भवेत् तदुत्तरं भागं संजनेभ्यो नमो नमः ॥

v1.c63.s1.43

(ii) कलात्मकाः— तथाहि चतुर्विधं स्थापत्यम् (स्थपतिलक्षणमित्यर्थः) अष्टाङ्गंस्थापत्यं च—

v1.c63.s1.44

स्थपति-लक्षणम्—

v1.c63.s1.45

स्थापत्यमुच्यतेऽस्माभिरिदानीं प्रक्रमागतम् ।
ज्ञातेन येन ज्ञायन्ते स्थपतीनां गुणागुणाः ॥
शास्त्रं कर्म तथा प्रज्ञा शीलं च क्रियान्वितम् ।
लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत् ॥
सामुद्रं गणितं चैव ज्यौतिषं छन्द एव च ।
सिराज्ञानं तथा शिल्पं यन्त्रकर्मविधिस्तथा ॥
एतान्यङ्गानि जानीयाद् वास्तुशास्त्रस्य बुद्धिमान् ।
शास्त्रानुसारेणाभ्यूह्य लक्षणानि च लक्षयेत् ॥
प्रसिद्धशास्त्रदृष्टान्तैर्वास्तुज्ञानं प्रसाधयेत् ।
वास्तुनः ससिरावंशैर्मर्मवेधैः सुनिश्चितैः ॥
वास्तुद्वारक्षणान् भूयः सर्वान् जानाति शास्त्रतः ।
यस्तु शास्त्रमविज्ञाय प्रयोक्ता स्थपतिर्भवेत् ॥
हन्तव्यः स स्वयं राज्ञा मृत्युवद् राजहिंसकः ।
मिथ्याज्ञानादहङ्कारी शास्त्रे चैवाकृतश्रमः ॥
अकालमृत्युर्लोकस्य विचरेद् वसुधातले ।
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ॥
स मुह्यति क्रियाकाले दृष्ट्वा भीरुरिवाहवम् ।
केवलं कर्म यो वेत्ति शास्त्रार्थं नाधिगच्छति ॥
सोऽन्धुरिव नीयेत विवशोऽन्येन वर्त्मसु ।
कर्म वास्तुविधेः स्थानं मानमुन्मानमेव च ॥
क्षेत्रजा(दि?नि)च कर्माणि लुमालेखा(च?श्च)तुर्दश ।
च(त्वा?तु)रो गण्डकाच्छेदान् वृत्तच्छेदेषु सप्तसु ॥
सुश्लिष्टं सन्धिसन्धानैरधरोत्तरसंयुतम् ।
बाह्यरेखान्वितं शुद्धं यो जानाति स कर्मवित् ॥
शास्त्रकर्मसमर्थोऽपि स्थपतिः प्रज्ञया विना ।
फलेयुः कर्मभिरन्याभिः (?) स्यान्निर्मद इव द्विपः ॥
प्रत्युत्पन्नमतिर्यः स्याद् वाह (तः? कः) स्यपतिस्तथा ।
कर्मकाले न मुह्येत स प्रज्ञानेनोपबृंहितः ॥
अप्रमेयं दुरालोकं गूढार्थं बहुविस्तरम् ।
प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिधं(धि)तरेत् ॥
ज्ञानवांश्च तथा वाग्मी कर्मस्वपि च निष्ठितः ।
एवं युक्तोपि न श्रेयान् यदि शीलेविवर्जितः ॥
रोषाद् द्वेषात् तथा लोभान्मोहाद् रागात् तथैव च ।

v1.c63.s1.46

अन्यचिन्त्यत्वमायाति दुःशीलाना मविक्षयात्(?) ॥
शीलवान् पूजितो लोके शीलवान् साधुसम्मतः ।
शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः ॥
शीलाधाने परं यत्नमा(धि?ति)ष्ठेत् स्थपतिः सदा ।
ततः कर्माणि सिध्यन्ति जनयन्ति शुभानि च ॥
तथाचाष्टविधं कर्म ज्ञेयं स्थपतिना सदा ।
आलेख्यं लेख्यजातं च दारुकर्मचयस्तथा ॥
पाषाणसिद्धहेम्रां च शिल्पं कर्म तथैव च ।
एभिर्गुणैः समायुक्तः स्थपतिर्याति पूज्यताम् ॥
स्थापत्यमङ्गैरिदमष्टभिर्यश्चतुर्विधं वेत्ति विशुद्धबुद्धिः ।
स शिल्पिनं संसदि लब्धपूजः परां प्रतिष्ठां लभते चिरायुः ॥

v1.c63.s1.47

शृणु वत्स ! यथान्यायं सूत्रधारस्य लक्षणम् ।
शास्त्रज्ञः कुशलो दक्षो वास्तुविद्याविबोधकः ॥
सूत्रधारो महाप्राज्ञः षट्कर्मसु निरन्तरम् ।
यो नित्यं त्यमरत्तत्त्वं सामुष्टोपि तदालयम् ? ॥
माधुर्यवांस्तथालापे वास्तुविद्यादिकौशलः ।
ज्ञानचक्षुः सुहृदयः प्रारम्भादिरुजापहः ॥
हस्तलाघवसम्पन्नो घाट्यचित्रादिकौशलः ।
चक्षुःप्रत्यक्षकृच्चैव ह्यदृष्टं ज्योतिषो यथा ॥
ग्रन्थार्थगुणसम्पृक्तो वास्तुमर्मादिबोधकः ।
आत्ममत्युद्भवं रूपं ससूत्रं स च कर्मणा ॥
सूत्रधारोपचारोर्थ ? वास्तुशास्त्रादिवोधनम् ।
भुवनकोशविज्ञानं प्रमाणं सूत्रकर्मणि ॥
समुद्रोपकण्ठदेशमहाशैलाश्रमादिकम् ।
भूमिभागैरनेकैश्च परीक्षा सूत्रकर्मणाम् ॥
मर्मोपमर्मवेधाश्च वंशोपवंशकानि च ।
सन्धिरेखाषट्कशतं लाङ्गलं पञ्चकादिकम् ॥
षण्मर्मवेधा विज्ञेया वास्तुदेहसमुद्भवाः ।
निघण्टुं देवतानां च जानीयात् सूत्रकर्मणि ॥
नगरग्रामखेटाद्यं वास्तुवेदसमुद्भवम् ।
कूटकर्वटकूप्यादि ज्ञायते सूत्रकर्मणा ॥
पुरप्राकारपरिखाप्रतोलीमार्गगोपुरम् ।
गृहं च राजवेश्माद्यं ज्ञायते सूत्रकर्मणा ॥
प्रासादप्रतिमालिङ्गजगतीपीठमण्डपम् ।
वेदीकुण्डं स्रुचा चैव ज्ञायते सूत्रकर्मणा ॥

v1.c63.s1.48

रेखानां विविधाकारा प्रासादशिखरोत्तमाः ।
घण्टाकलशध्वजाद्यं ज्ञायते सूत्रकर्मणा ॥
द्वारशाखाविधिं ज्ञात्वा मूलप्रासादच्छन्दजम् ?
द्वारपालविधिश्चैव ज्ञायते सूत्रकर्मणा ॥
द्वारदृष्टिपदस्थानं तथाग्रे वाहनादिकम् ।
दृष्टिस्यानं चान्तरं तु ज्ञायते सूत्रकर्मणा ॥
लक्षणं च द्वारविधिं शिवलिङ्गेषु सर्वतः ।
मानोन्मानप्रमाणं च ज्ञायते सूत्रकर्मणा ॥
वितानानि विचित्राणि क्षिप्तान्युत्क्षिप्तकानि च ।
मन्दारसभापद्मानि ज्ञायन्ते सूत्रकर्मणा ॥
- वितानानां संवरणा घण्टाकूटसमाकुलाः ।
सिंहसङ्घटणाकीर्णा ज्ञायन्ते सूत्रकर्मणा ॥
शुक्लाम्बरधरः सूत्रस्वस्थचित्तः समाहितः ।
पूजापरिग्रहं दद्यादात्मचिन्तस्तु दैवते ॥
तुष्टिदानं ततो दद्यात्सर्वकर्मसु वै तथा ।
सुभृत्यांस्तोषयेत्तत्र कर्मकारापरैः सह ॥
तोषितैः सर्वसूत्रैश्च गुरुतः क्षेममाप्नुयात् ।
निर्विघ्नं च भवेत्तत्र सर्वकामफलं भवेत् ॥
सिद्धिं विनायकं चादौ क्षेत्रपालांस्तोऽर्चयेत् ।
पूजयेदुक्तविधिना योगिनीश्च कुमारिकाः ॥
भूपरिग्रहणं प्रोक्तं शुभं धात्रीपरीक्षणम् ।
पूर्वं त्वेवं प्रवक्ष्यामि शृणु चैकाग्रमानसः ॥

v1.c63.s1.49

अथ वक्ष्यामि सङ्क्षेपाच्छिल्पिनां लक्षणं पृथक् ।
स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्र विशारदः ॥
नहीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः ।
अमात्सर्योऽनसूयश्च तान्त्रिकस्त्वभिजातवान् ॥
गणितज्ञः पुराणज्ञ आनन्दात्माप्यलुब्धकः ।
चित्रज्ञः सर्वदेशज्ञः सत्यवादी जितेन्द्रियः ॥
अरोगी चाप्रमादी च सप्तव्यसनवर्जितः ।
सुनामा दृढबन्धुश्च वास्तुविद्याब्धिपारगः ॥
स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा ।
स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः ॥
सूत्रदण्डप्रमाणज्ञो मानोन्मानप्रमाणवित् ।
तक्षितानां तक्षकेणाप्युपर्युपरि युक्तितः ॥
वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा ।

v1.c63.s1.50

तक्षणात् स्थूलसूक्ष्माणां तक्षकः स तु कीर्तितः ॥
नृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ।
गुरुभक्तः सदा हृष्टः स्थपत्याद्यनुगः सदा ॥
एभि र्विना न सर्वेषां कर्तुं कर्म न शक्यते ।
तस्मादेषां सदा पूज्यं स्थपत्यादिचतुष्टयन् ॥
शिल्पिनां लक्षणं वक्ष्ये मानोपकरा(णं) क्रमाद् ।
परःशिवसकाशाद्धि ब्रह्मा इ(चे)न्द्रोऽपि लोककृद् ॥
स महाविश्वकर्मेति ई(श्वी)श्वरेणैव कीर्तितः ।
स एवायं विश्वकर्मा ब्रह्माण्डं सृजते मुहुः ॥
विश्वकर्मा चतुर्वक्त्रं (पूर्ववक्त्रादीनि चत्वारि) नाम(मानि) वक्ष्ये पृथक् पृथक् ?
विश्वभूरिति नामैतत्पूर्ववक्त्रं प्रकीर्तितन् ॥
दक्षिणे विश्वविद्वक्त्रं विश्वस्त(स्य)श्च तथोत्तरे ।
पश्चिमे विश्वस्रष्टाख्यं वक्तमेवं चतुर्विधन् ॥
एतेभ्यः प्रथमो जातो विश्वकर्मा चतुर्मुखः ।
पूर्वानने विश्वकर्मा जातो दक्षिणे मयः ॥
उत्तरस्य मुखे त्वष्टा पश्चिमे तु मनुः स्मृतः ।
उपयेमे विश्वकर्मा इ(न्वि)न्द्रस्य तनयां तदा ॥
मयः सुरेन्द्रतनयामुपयेमे क्रमात्ततः ।
त्वष्टा वैश्रवणसुतामुपयेमे त्वनन्तरम् ॥
मनुर्नलस्य तनयामुपयेमे तु तुर्यकम्(कः) ।
विश्वकर्मान्यनाम्नोस्य(इत्यस्य)पुत्रः स्थपतिरुच्यते ॥
मयस्य तनयः सूत्रग्राहीति परिकीर्तितः ।
त्वष्टुर्देव-ऋषेः पुत्रो वर्धकी(किरि)ति प्रकथ्यते ॥
मनोः पुत्रस्तक्षकः स्यात्स्थपत्यादिचतुष्टयम् ।
स्थपतिस्तु स्तुतुर्यैभ्यस्त्रिभ्यो गुरुरिति स्मृतः ॥
सूत्रग्राही गुरुर्द्वाभ्यां तुर्येभ्योऽद्य इति स्मृतः ।
तक्षकस्य गुरुर्नाम(न्ना)वर्धकी(किरि)ति प्रकीर्तितः ॥
स्थपतिः सर्वशास्त्रज्ञः सूत्रग्राहीति सूत्रधृक् ।
वर्धकी (किर्) मानकर्मज्ञः तक्षणात्तक्षकः स्मृतः ॥
स्थपतिः स्थापनायार्हः वेदविच्छास्त्रपारगः ।
स्थापनाधिपतिर्यस्मात्तस्मात्स्थपतिरुच्यते ॥
स्थपतेश्चाज्ञया सर्वे सूत्रग्राह्यादयः सदा ।
कुर्वन्ति शास्त्रदृष्टे(ज्ञादेशे)न वास्तुवस्तु प्रयत्नतः ॥
स्थपत्यादिचतुर्वर्गः शिल्पिनिः परिकीर्तितः ।
आचार्याल्लक्षणैर्युक्तं (कः) स्थपतिर्नान धीरते ॥

v1.c63.s1.51

श्रुतज्ञः सूत्रग्राही च रेखाज्ञः शास्त्रवित्तमः ।
विचारज्ञः श्रुतज्ञश्च चित्रकर्मज्ञ (ज्ञो) वर्धकी (किः) ॥
तक्षकः कर्मवित्सभ्यो बलबन्धू (न्धु) दयापरः ।

v1.c63.s1.52

ग्रामादिकं वा नृगृहादिकं वा वाप्यादिकं वा विबुधालयं वा ।
यः कर्तुमिच्छत्यथ संवृतं ते- न स्याद्गुरुशिल्पिरेतदर्थम् (?) ॥
विप्रः कुलीनः कृतसंक्रियौघः स्वाधीतवेदागमतत्त्ववेत्ता ।
वर्णाश्रमाचारपरोऽधिदीक्षो दक्षस्तपस्वी गुरुरास्तिकोऽस्तु ॥
पूर्वं स्थपतिरेष्टव्यः शिल्पशास्त्रविशारदः ।
तथैव शिल्पशास्त्रज्ञो युक्तः स्वाचार्यलक्षणैः ॥
स्थापकोऽपि वृतः कर्त्रा वास्तुकर्म समाचरेत् ।
ताभ्यामुभाभ्यां प्रारब्धं विमानं वान्यदेव वा ॥
निष्पाद्यमासमाप्तेः स्यात् ताभ्यामेव हि नेतरैः ।
तयोरभावे तत्पुत्रैः शिष्यैर्वा कर्मतत्परैः ॥

v1.c63.s1.53

स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः ।
न हीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः ॥
अमात्सर्योऽनसूयश्च तान्त्रिकः स्वाभिजातवान् ।
गणितज्ञः पुराणज्ञः सानन्दश्चाप्यलुब्धकः ॥
चित्रज्ञः सर्वदेशज्ञः सत्यवादी जितेन्द्रियः ।
अरोगी चाप्रमादी च सप्तव्यसनवर्जितः ॥
सुनामा दृढबन्धुश्च वास्तुविद्याब्धिपारगः ।
स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा ॥
स्थपत्याज्ञा (नधारी? नुरोधी) च सर्वकर्मविशारदः ।
सूत्रदण्डप्रमाणज्ञो मानोन्मानप्रमाणवित् ॥
तक्षणात् स्थूलसूक्ष्माणां तक्षकः स तु कीर्तितः ।
मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ॥
गुरुभक्तः सदा हृष्टः स्थपत्याद्यनुगः सदा ।
तक्षितानां वक्षकेणाप्युपर्युपरि युक्तितः ॥
वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा ।
एभिर्विनापि सर्वेषां कर्म कर्तुं न शक्यते ॥
तस्मादेष सदा पूज्यः स्थपत्यादिचतुष्टयः ॥

v1.c63.s1.54

अष्टाङ्गं स्थापत्यम्

v1.c63.s1.55

प्रोक्तं चतुर्धा स्थापत्यं वास्तुतत्त्वस्य सिद्धये ।
ब्रूमस्तदेव चेदानीमङ्गैः संयुक्तमष्टभिः ॥
तेष्वङ्गं प्रथमं प्रोक्तं वास्तुपुंसो विकल्पना ।
पुरस्य विनिवेशस्तु द्वितीयं द्वारकर्म च ॥
रथ्याविभागः प्राकारनिवेशोऽट्टालकस्य च ।
विनिवेशः प्रतोलीनां विभागस्थानकानि च ॥
प्रासादश्च तृतीयं स्याच्चतुर्थं तु ध्वजोच्छ्रितिः ।
पञ्चमं नृपतेर्वेश्म स्थानान्तरविभक्ति च ॥
चातुर्वर्ण्यविभागश्च गृहभागश्च षष्ठकम् ।
सप्तमं यजमानस्य शालायां मानमीरितम् ॥
यज्ञवेदीप्रमाणं च कोटिहोमविधिस्तथा ।
अष्टमं राजशिविरनिवेशो दुर्गकर्म च ॥
यो वेत्त्यङ्गान्यमून्यष्टौ सोऽत्र स्थपतिसत्तमः ।
यशो मानं स लभते पूज्यते च नराधिपैः ॥
अशास्त्रज्ञमकर्मज्ञं स्थपतिं यः प्रयोजयेत् ।
न तस्य वास्तु सिद्ध्येत सिद्धमप्यसुखावहम् ॥
तस्मात् कर्म च शास्त्रं च यो वेत्ति द्वितयं नरः ।
अष्टाङ्गमपि यो वेत्ति स राज्ञः स्थपतिर्भवेत् ॥

द्वितीयः पटलः मौलिकाधाराः

v1.c63.s2.1

मौलिकाधाराः—

v1.c63.s2.2

१. दिङ् निर्णयः (शङ्कुस्थापनं च)
२. वस्तुपदानि
३. मानम्
४. आयादिषड्वर्गः
५. पताकादिच्छन्दांसि च

v1.c63.s2.3

दिङ्-निर्णयः

v1.c63.s2.4

आदौ कालं परीक्षेत सर्वकार्यार्थसिद्धये ।

v1.c63.s2.5

कालो हि सर्वजीवानां शुभाशुभफलप्रदः ॥ कालातिक्रमणे दोषो द्रव्यहानिश्च जायते । देवानांमपि देवीनां विप्रादीनां विशेषतः ॥ प्रासादभवनारम्भे स्तम्भस्थापनकर्मणि । द्वारस्थापनवेलायां भवनानां प्रवेशने ॥ वापीतटाकनिर्माणे गोपुरारम्भकर्मणि । विमानमण्डपारामगर्भगेहोदृष्टौ तथा ॥ कालं शुभं परीक्षेत मङ्गलावाप्तिसाधकम् । देशभेदेन कालोऽपि भिन्नतां प्रतिपद्यते ॥ इष्टिकान्यासनं शस्तं शुभकाले विशेषतः । तस्मात्सर्वप्रयत्नेन शुभं कालं न लङ्घयेत् ॥ प्राचीं परीक्षयेत्सम्यक् सूर्यगत्यनुमानतः । गृहीतस्थलके शङ्कुमवटे स्थापयेत्क्रमात् ॥ खदिरस्तिन्दुक वाणि क्षीरवृक्षसमुद्भवः । शङ्कुः श्रेयस्करः प्रोक्तो द्वादशाङ्गुलमानभाक् ॥ हस्तप्रमाणतो वापि द्विहस्तो देवमन्दिरे । शङ्कोरूपरि मानस्य सूचिका सा शिखा मता ॥ यत्र सा पतति व्यक्ता तत्स्थानं विन्दुसंज्ञकम् । शिल्पाचार्यवरैः शङ्कुस्थापनं कल्पयेद् बुधः ॥ चक्राकारे नेमियुक्ते मण्डले शङ्कुभासुरे । शङ्कुच्छायाप्रसारस्तु यत्र भाति सलक्षणः ॥ तं प्रदेशं निरीक्ष्यैव प्राचीनिर्णयमादिशेत् । उत्तरायणमासेषु दक्षिणायनगेष्वपि ॥

v1.c63.s2.6

केंन्यायां वृषभे मासि यदि व्यक्ते दिवाकरे ।
शङ्कुच्छाया मध्यगा स्यान्नहि पार्श्वे कदाचन ॥
मेषस्थे वा मृगस्थे वा रवौ तु चतुरङ्गुला ।
शङ्कुच्छाया भवेद्व्यक्ता दिशां निर्णयकारिणी ॥
मकरस्थे रवौ शङ्कोरच्छायाष्टाङ्गुुलका भवेत् ।
मिथुनस्थे रवौ शङ्कोरच्छाया तु त्र्यङ्गुला मता ॥
कुलीरस्थे रवौ शङ्कोरच्छाया वेदाङ्गुला मता ।
सिंहस्थे तु रवौ शङ्कोरच्छाया वेदाङ्गुला मता ॥
तुलास्थिते रवौ शङ्कोरच्छाया तु द्वयङ्गुला मता ।
वृश्चिकस्थे रवौ शङ्कोरच्छाया स्याच्चतुरङ्गुला ॥
चापस्थिते रवौ शङ्कोरच्छाया स्याच्च षडङ्गुला ।
मीनस्थिते रवौ शङ्कोरच्छाया स्याच्चतुरङ्गुला ॥
इति द्वादशमासस्थे रवौ छाया स्फुटा भवेत् ।
उत्तरायणमासेषु छाया दक्षिणगा भवेत् ॥
दक्षिणायनमासेषु छाया चोत्तरगा भवेत् ।
छायामानवशादेवमङ्गलानि विसर्जयेत् ॥
शिष्टच्छायाप्रसारेण सम्यक्प्राचीं समादिशेत् ।
विन्ध्यस्य दक्षिणे देशेष्वेवं प्राचीविनिर्णयः ॥
आर्यावर्तस्थदेशानां प्राचीनिर्णय उच्यते ।
मकरादिचतुर्मासेष्वेवं छायाङ्गुला भवेत् ॥
वृषभस्थे रवौ शङ्कोरच्छाया तु चतुरङ्गुला ।
मिथुनस्थे रवौ शङ्कोरच्छाया स्याच्च षडङ्गुला ॥
इति दक्षिणगा छाया प्राचीनिर्णयकारिणी ।
कुलीरस्थे वृश्चिकस्थे रवौ छाया न विद्यते ॥
सिंहस्यैकाङ्गुला प्रोक्ता कन्यास्थे द्वयङ्गुला भवेत् ।
तुलाचापस्थिते भानावङ्गुल सा प्रकीर्तिता ॥
इति चोत्तरगाच्छाया प्राचीनिर्णयकारिणी ।
ब्रह्मावर्तस्थदेशानां प्राचीनिर्णय उच्यते ॥
मकरादिषु मासेषु त्रिपुच्छायाङ्गुला भवेत् ।
मेषस्थे वृषभस्थे च छाया तु त्र्यङ्गुला मता ॥
मिथुनस्थे झषस्थे च छाया पञ्चाङ्गुला मता ।
मीनस्थे च क्वचिच्छाया न भवेदिति तान्त्रिकाः ॥
कुलीरस्थे रवौ चापस्थिते च न हि सा स्फुटा ।
सिंहकन्यास्थिते भानौ सा चतुष्पञ्चका मता ॥
तुलास्थिते द्वयङ्गुक्ता स्यादितिच्छायाक्रमो भवेत् ।

v1.c63.s2.7

शङ्कुस्थापनवेलायां विप्रेभ्यो बहुदक्षिणाः ॥
मार्दङ्गिकैः स्वस्तिकैश्च जयशब्दैश्शुभावहः ।
सूत्रप्रसारमानेन शुद्धां प्राचीं समाश्रयेत् ॥
पुरारम्भे गृहारम्भे गोपुरारम्भकर्मणि ।
गर्भगेहविमानादिसिद्धास्तुष्ठ शुभावहः ॥
शिल्पिनां माननं शस्तं हेमभूषादिभिश्चशुभैः ।
स्थूपित्थापनकाले च प्राकारस्थापने तथा ॥
प्रासादभवनारम्भे वापीकूपादिकेषु च ।
गृहप्रवेशकाले च स्वस्तिघोषश्शुभावहः ॥
दिशां कोणास्तु चत्वारो न शस्ता आद्यलक्षणे ।
तस्मात्सर्वप्रयत्नेन शुद्धां प्राचीं समाश्रयेत् ॥
@H २. अ० पृ० ६३. १६-३२
प्राचीमतः प्रवक्ष्यामि दिङ्मूढभ्रान्तिनाशिनीम् ।
सा च पञ्चविधा प्रोक्ता कथये यामनुक्रमात् ॥
दिनादौ मेषतुलयोः कृत्तिकाश्रवणोदये ।
चित्रास्वात्यन्तरे चैव शङ्कुच्छाया ध्रुवेषु च ॥
कृत्तिकोदये या प्राची सा प्राची श्रवणोदये ।
चित्रास्वात्यन्तरे प्राची तत्र सूत्रान्तरोत्तरा ॥
ध्रुवगङ्गोद्भवा प्रांची सूत्रसूत्रान्तरोत्तरा ।
दिनादौ मेषतुलयोः सूर्य्यभुक्त्यैकमार्गतः ॥
स्यात्पलत्रयतो वृद्धिर्ह्रस्वे ह्रस्वं तु वर्धयेत् ।
ह्रासवृद्धीह्यर्बुद्धार्द्धममयनं दक्षिणोत्तरम् ॥
जलाग्रमस्तकभवा साधने स्यात् समक्षितिः ।
साधनीया क्षमा त्वेवं शङ्कुम्मूर्ध्वं च स्थापयेद् ॥
श्रमसिद्धाः समतला निर्ऋणा दोषवर्जिताः ।
द्वादशपर्वोद्गवाश्च शङ्कुच्छायाश्च पर्वभिः ॥
द्वादश दशाष्टाभिश्च त्रिभिर्वृत्तं क्षिताङ्कितम् ।
शङ्कुच्छायास्त्रिगुणतो द्विपर्वयुक्तिकोत्तमाः ॥
परिधौ बाह्यवृत्तस्य व्यासे शङ्कुतुल्योत्तमां ।
कुंजवंशपूर्वां छाया शङ्कुश्चरणाश्रितैः ? ॥
छायाग्रे वृत्ततुल्या च छाया पूर्वापरोद्भवा ।
प्रवेशे निर्गमे छाया याति सूत्रं सदा भवेत् ॥
याम्योत्तरं सूत्रपाते मत्स्यमुखं पुच्छ्रामसूत्रे ? ।
याम्योत्तरोद्भूतं सूत्रं विकर्णैः कर्णसाधनम् ॥
अथ रात्रौ ध्रुवं साध्यं ध्रुवाक्षा दक्षिणोत्तरम् ।
मण्डलोभयपक्षे च मध्ये स्थाप्यं त्रिदीपकम् ॥

v1.c63.s2.8

एकसूत्रे यदा त्रीणि दीपशिखाग्रकाणि च।
पूर्वसंस्थं ध्रुवं साध्यमपरस्थं च दोषकृत् ॥
शस्तं तु मीनपातैश्च पूर्वापरादिसाधनम्।
विकर्णकर्णगा साध्या ध्रुवशङ्कुप्राच्युद्भवः ॥

v1.c63.s2.9

प्राची मेषतुलारवेरुदयतः स्याद्वैष्णवे वह्निभे
चित्रास्वातिभमध्यगा निगदिता प्राची बुधैः पञ्चधा।
प्रासादं भवनं करोति नगरं दिङ् मूढमर्थक्षयं
हर्म्यं देवगृहे पुरे च नितरामायुर्धनं दिङ्मुखे ॥
तारे मार्कटिके ध्रुवस्य समतां नीतेऽवलम्बे नते
दीपाग्रेण तदैवयतश्च कथिता सूत्रेण सौम्या दिशा।
शङ्कोर्नेत्रगुणे तु मण्डलवरे छायाद्वयान्मत्स्ययो-
र्जाता यत्र युतिस्तु शङ्कुतलतो याम्योत्तरे स्तः स्फुटे ॥

v1.c63.s2.10

यन्त्रेणावनतादिना च निपुणो यद्वाम्बुसम्पूरणे-
नोर्वी चारु समीकरोत्वथ दृढं शङ्कुं करार्धायतम्।
मूले द्व्यङ्गुलविस्तृतं क्रमवशादग्रे तदर्धान्वित-
न्यासं वृत्ततरं सरोजमुकुलाकाराग्रमाकल्पयेत् ॥
शङ्कुदीर्घयुगसम्मितसूत्रेणाकलय्य परिवृत्य सुवृत्तम्।
वृत्तमध्यमवधार्य सुसूक्ष्मं शङ्कुमत्र तु दृढं निवेशयेत् ॥
शङ्कुच्छायाग्रभागे त्ववहितहृदयो वृत्तलग्नेऽङ्कयित्वा
प्राह्नान्ते पश्चि(मस्यां?)मायां दिशि तदितरदिश्येवमेवापराह्ने ।
पाश्चात्त्येऽन्येद्युरप्यङ्कनमपि च विधायाङ्कयोरेतयोर-
प्यन्तर्भागत्रिभागे नयतु गतदिनाङ्कं तदेवेह सूक्ष्मम् ॥
पूर्वापरेद्युःप्रभवाङ्कयुग्ममेवं सुसूक्ष्मं परिकल्पितं यत्।
तदङ्कयुग्माहितसूत्रमेव पूर्वापराशाप्रभवं सुसूक्ष्मम् ॥
एवं क्षेत्रस्य मध्ये सुविहितमिह यद् ब्रह्मसूत्रं तदाहु-
स्तन्मध्येऽन्योन्यमन्तर्गतमथ रचयेद् वृत्तयुग्मं च धीमान्।
तद्योगात् तिर्यगुद्यज्झषजठरसुपुञ्छाध्वना सूत्रमेकं
याम्योदग्गामि सूक्ष्मं रचयतु यमसूत्रं तदित्यामनन्ति ॥
तत्सूत्रद्वितयेऽथ दिक्षु चतसृष्वङ्कान् समं कल्पयि-
त्वाङ्कारोपितमध्यकानि सुसमं चत्वारि वृत्तानि च।
सिद्ध्यन्त्यत्र विदिक्षु वृत्तयुगलीयोज्ञेन मत्स्याःशिवा-
न्त्याग्रास्तद्गतसूत्रयुग्ममपि चान्त्राब्ध्यश्रमाकल्पयेत् ॥
सूत्रे प्रागुदगग्रके क्षितितले कृत्वा चतुःखण्डिते
खण्डे कल्पयतु द्विजादिवसतिं शर्वेऽथवा नैऋते।
क्षेत्रे विस्तृतितस्त चेत् पुनरपि श्रुत्यंशिते गृह्यते

v1.c63.s2.11

शैवे नैऋ्‌तखण्डमेव निन्दितौ शैवं शुभं चोभयोः ॥
धात्रीतलेऽध्यक्षिनि मानुषाख्यं गृहाभिवृद्धिप्रदमैशखण्डम् ।
देवाख्यं नैऋ्‌तमिष्टं स्यादुभे शुभे गेहविधौ नराणाम् ॥
आग्नेयखण्डं यमसंज्ञितं स्यान्मृतिप्रदं चाखिलवर्ज्यमेतत् ।
वायव्यमप्यासुरसंज्ञितत्वान्निन्द्यं विशां क्वापि च गृह्यते तत् ॥
अथातः संप्रवक्ष्यामि शङ्कुस्थापनलक्षणम् ।
आदित्योदयकाले तु शङ्कुस्थापनमारभेत् ॥
उत्तरायणमासे तु दक्षिणायनगे (न ए) ऽथवा ।
शुक्लपक्षे यथा (ऽथवा) कृष्णपक्षे शुभतमे दिने ॥
पौर्णमीं(पूर्णिमा)चाप्यमावास्यां वर्जयेत्सुमुहूर्तके ।
प्रभाते स्थापयेच्छङ्कुमपराह्नात् (ह्ने) ततः स्थितम् ॥
स्थापनात्पूर्वदिवसे स्थलशुद्धिं प्रकारयेत् ।
वास्तूमध्यदेशे तु चतुरश्रं समन्ततः ॥
चतुर्हस्तप्रमाणेन विश्वतः सलिलस्थलम् ।
कृतमाल(लं) शमीशाखाचन्दनं रक्तचन्दनम् ॥
खदिरं तिन्तु(न्दु)कं चैव शङ्कुदारु प्रकीर्तित्वा (तम्) ।
श्वेतक्षीरिणि(णी)वृक्षं(क्षो)वा शुभदन्तमथापि(वा) ॥
शङ्कायामं तु हस्तं स्यान्मूलाग्रान्तं क्षयं क्रमात् ।
सुवृत्तं निर्व्रणं चैव छत्राकारं तदग्रकम् ॥
एवं तु चोत्तमं शङ्कु मध्यं तन्नवद्यते ।
अष्टादशाङ्गुलायामं मूलतारं शराङ्गुलम् ॥
अग्रमेकाङ्गुलं तारं शेषं प्रागुक्तवन्नयेत् ।
कन्यसं द्वादशाङ्गुल्यं शङ्कायामं विशेषतः ॥
चतुरङ्गुलविस्तारं मूलमग्रं श्रयाङ्गुलम् ।
अथवायामसंमूले नाहमग्रे नवाङ्गुलम् ॥
शेषं पूर्ववदुद्दिष्टं स्वीकीकृतभूतले ।
तन्मध्ये विन्दुतरवज्ञो शङ्कायामद्वयेन च ॥
भ्रामयेन्मण्डलं कुर्यात्तन्मध्ये शङ्कुमर्पयेत् ।
पूर्वाह्ने शङ्कुतरच्छायां पश्चिमे मण्डलान्तकम् ॥
तत्रैव विन्दुसंज्ञाञ्च कुर्यात्तु शिल्प(ल्पि)वित्तमः ।
(अ)परा शङ्कुतरच्छायां पूर्वदिक् मण्डलान्तके ॥
पूर्ववद्विन्दु(न्दुं)संस्थाप्य पश्चाच्छङ्क त्यजेत्ततः ।
शङ्कायामपडाधिक्यनत्र्यंशविभाजिते ॥
तस्यांशेन ह्यपच्छायां त्यक्त्वा प्राचीं नयेत्ततः ।
कन्यावृषभमासौ च ह्य(सयोर्)पच्छाया न विद्यते ॥

v1.c63.s2.12

मेषे च मिथुने चैव तुलासिंहचतुष्टये ।
एव हि द्वयङ्गुलं न्यस्तं वृश्चिकाषाढमीनयोः (नेषु) ॥
चतुरङ्गुलं प्रकर्त्तव्यं धनुःकुम्भो(म्भयोः)षडङ्गुलम् ।
मकरेऽष्टाङ्गुलं प्रोक्त(क्ता)मव(ह्यप)च्छायां(या)विशेषतः ॥
छायायां बिन्दुवामे(तु)दक्षिणे चोक्ताङ्गुलं न्यसेत् ।
अङ्गलान्ते तु यच्छुद्धं प्राचीसूत्रं प्रयोजयेत् ॥
मकरादि(दौ) च षण्मासे छाया दक्षिणतो भवेत् ।
कुलीरादि(दौ) च षण्मासे छाया चोत्तरतो दिशि ॥
छायाया अभिमुखे प्रत्यग्वामे वामं न्यसेद्यते(न्यसेद्गतः) ।
पूर्वे च दक्षिणे नीत्वा प्रत्यग्वामाङ्गलान्यसेत् ॥
अपच्छायां त्यजेच्छिल्पी प्राक् प्रत्यक् सूत्र(त्रं)विन्यसेत् ।
तत्सूत्रात्पूर्वदिग्देशे नीत्वा चोत्तरतो दिशि ॥
एवं मीनविवृद्धिः स्यात्पुरतोऽङ्गुलमेव च ।
तत्सूत्राद्दक्षिणे सौम्यं(म्ये) तस्य द्वारं प्रकल्पयेत् ॥
मत्स्यपुच्छानने न्यस्तं सूत्रं स्याद्दक्षिणोत्तरम् ।
मण्डलावधिदेशे तु नीत्वा सूत्रा(न्नम)ङ्गुलं न्यसेत् ॥
मासानां पङ्क्तिपङ्क्तेश्च दिवसानां त्रिधा त्रिधा ।
विद्यमानाव(प)च्छाया(य)पच्छायां(या)चोच्यते ॥
मेषे च प्रथमे पङ्क्ते (ङ्कौ) द्वयङ्गुलं च विसर्जयेत् ।
मध्ये दशदिने चैकं चान्त्ये पङ्क्त्या(म) ङ्गुलं विना ॥
वृषभे प्रथमदशके दिवसे त्वङ्गुलं नहि ।
मध्ये चैकाङ्गुलं प्रोक्तं पङ्क्त्यन्ते द्वयङ्गुलं त्यजेत् ॥
मिथुने प्रथमदशके दिवसे त्व(द्वय) ङ्गुलं त्यजेत् ।
मध्ये दशदिने वह्नि(र्द्धिं)चान्त्यपङ्क्ति(तै)च तु त्यजेत् ॥
कुलीरे प्रथमदशके वेदमात्रं विसर्जयेत् ।
मध्ये दशदिने चापि त्र्यङ्गुलं तत्परित्यजेत् ॥
द्वयङ्गुलं चान्त्यदिवसे दशके समुदाहृतम् ।
सिंहस्य चादिदशके द्वयङ्गुलं च परित्यजेत् ॥
मध्ये दशदिने चैकवा(म)न्त्यपङ्क्तौ विनाङ्गुलम् ।
युवत्यामादिदशके दिवसे नाङ्गुलं भवेत् ॥
मध्ये चैकाङ्गुलं त्यक्त्वा (क्तं) चान्त्यपङ्क्तौ द्वया(द्वय)ङ्गुलम् ।
तुलारम्भे दशदिने द्वयङ्गुलं च निषेधयेत् ॥
विसृज्य(ज्यं) द्वय(त्र्य)ङ्गुलं मध्ये चान्त्ये. वेदमिति स्मृतम् ।
वृश्चिके प्रथमे पङ्क्तर्(ङ्कौ)दिवसे चतुरङ्गुलम् ॥
मध्ये दशदिने बाणं चान्त्यपङ्क्तौ षडङ्गुलम् ।

v1.c63.s2.13

धनुराशौ दशदिने प्रथमे तु षडङ्गुलम् ॥ मध्ये दशदिने सप्तद्वय(सप्ता)ङ्गुलं च विवर्जयेत् । अन्येष्वङ्किदिने त्याज्यं वसुमात्रमिति स्मृतम् ॥ मकरादौ दशदिने त्यजेदष्टाङ्गुलं बुधः ॥ मध्ये सप्ताङ्गुलं त्यक्त्वा(त्यक्तं)चान्त्ये त्यक्त्वा(क्तं)षडङ्गुलम् । कुम्भे चादौ दशदिने विसृजेत्तु षडङ्गुलम् ॥ मध्ये पञ्चाङ्गुलं त्यक्त्वा(क्तं)चान्त्ये च चतुरङ्गुलम् । मीनराशौ च दशके दिवसे चतुरङ्गुलम् ॥ मध्ये च पङ्किदिवसे द्वय(नूय)ङ्गुलं च विसर्जयेत् । अन्ते दशदिने चापि वर्जयेद्बहुकाङ्गुलम् ॥ अपच्छायां(या)तत्र नास्ति यदुक्तं तदिहोच्यते । प्रागुक्ताविराश्यां तु कन्यायां वृषभस्थितम् ॥ अपरे विंशतिदिने तत्तदृक्षं भवेद्यदि । उक्ताङ्गुलं तत्र नास्ति सूत्रं ज्ञात्वा प्रसारयेत् ॥ राश्यां(ऋक्ष)युतं रवेर्मासं प्रो(प्रे)क्ष्यापि च परित्यजेत् । ऊहापोहप्यक्त्यादि दशा(द्वया)ङ्गुलं न्यत्र(स्तं)सूरिभिः ॥ तद्दशाक्तकुभं ग्राह्य(ह्यं)तत्र सूत्रं प्रसारयेत् । शुद्धप्राची भवेत्सम्यगैशान्या प्राच्यथोच्यते ॥ प्राच्यङ्गुलकृताद्विन्दोरुत्तरे चाङ्गुलं न्यसेत् । प्रतीचीमात्रतद्विन्दोरीशप्राची(चीं) प्रसूत्रयेत् ॥ मुक्तिकामस्य करणे शुद्धप्राचीं प्रयोजयेत् । ऐशान्यप्राची सर्वस्य भोगकामस्य संमताम्(ता) ॥ आग्नेयं प्राचीसंयुक्तं सर्वदोषकरं भवेत् । आग्नेयप्राचिकं वास्तु तस्मात्सर्वं विसर्जयेत् ॥ एवं कृते त्वलं वास्तौ(स्तु)सुगाढं सुसमृद्धये । दण्डमानस मं सूत्रदीर्घमानं प्रकल्पयेत् ॥ आदौ तन्तुं त्रिधा कृत्वा सूत्रग्राहीति योजयेत् । वा(द्वि)मावर्तं तु सूत्रं स्यात्तृतीयावर्तदक्षिणम् ॥ कार्पासं(स)सूत्रसंयुक्तं(वा)पट्टसूत्रमथापि वा । सूत्राल्ल(द्य ल)भ्यते वास्तौ प्रमाणं हीति निश्चितम् ॥ मध्यादिन्द्राच्च त(न्नेन्द्रात्तात्त)द्दिन्नु न्यसेन्द्रादि(सेदिन्द्र)शिखान्तकम् । इन्द्रादीशानपर्यन्तं चान्तकात्पावकान्तम् ॥ वरुणाद्वायुरुपर्यन्तं सौम्याद्देर्वायु(यो)र्वान्तकम् । सौम्यादीशानपर्यन्तं सूत्रमेवं परित्यजे(वाजये)त् ॥ विमाने विगृहे वाऽपि मण्डपादीनि(दोच)वास्तुके ।

v1.c63.s2.14

ग्रामादीनां च सर्वेषां मानयेन्मानसूत्रकम् ॥
तत्प्रमाणस्य परितो हस्तद्विहस्तम(म)धिकम् ।
तत्तत्सूत्रावसाने च शङ्कुमेवं प्रतिष्ठितम् ॥
गर्भसूत्रस्य कर्णैश्च द्विदिशङ्कु निखानयेत् ।
चतुर्दिक्षु चतुःशङ्कु जन्मनिष्क्रमणार्थम् ॥
चतुष्कर्णैश्च कर्णैश्च चतुःशङ्कु(ङ्कु)समायुतम् ।
एवं महार्थर्कम् कुर्याच्छङ्कु दारु प्रवक्ष्यते ॥
खदिरं चादिमेदं च मधूकं क्षीरिणी तथा ।
अन्यैश्च सारवृक्षैर्वा खातं(त) शङ्कु रिति स्मृतम् ॥
एकविंशाङ्गुलं वाऽपि चैकपञ्च(पञ्चविंश)त्यङ्गुलायतम् ।
खातं शङ्कुमिदं मुष्टिमानं तत्परिणाहकम् ॥
मूलं तु सूचिवत्कुर्यान्मूला(द)ग्रक्षयक्रमात् ।
गृहीत्वा वामहस्तेन स्थपतिस्थापकावुभौ ॥
शङ्कुदक्षिपहस्तेन लोष्ट्र(ष्ट्रं)संगृह्य ताडयेत् ।
प्रत्येक्रमष्टसंख्या च प्राङमुखो वाप्युदङमुखः ॥
शङ्कुस्थापनकाले तु ब्राह्मणैः(णः)स्वस्तिवाचक(न)म् ।
कुर्यान्मङ्गलघोषैश्च समभ्यां(माज्यः)पूजयेत्ततः ॥
एवं नैर्ऋतिकोणे तु(णादी)स्थपत्याज्ञश्च तक्षकम्(कः) ।
पश्चान्मङ्गलघोषैश्च सर्वशङ्कुः(ङ्कन्)प्रहारयेत् ॥

v1.c63.s2.15

शङ्कुं कलाङ्गुलायामं नाहं तत्सत्यमुच्यते ।
मूलताराष्टभागैकं हीनाग्रमति(वि)शालकम् ॥
सुवृत्तमर्जयेश(च्छ्रं)ङ्कु सारवृक्षं विशेषतः ।
शङ्कु द्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ॥
तन्मध्ये स्थापयेच्छङ्कु चतुर्दिक्षु विशेषतः ।
पूर्वापराह्नयोश्छाया यदि तौ मण्डलान्तकौ ॥
छायाग्रमध्यं संलक्ष्यं तथैव त्वपराह्नके ।
विन्दुद्वयान्तरं सूत्रं पूर्वापरादिगिष्यते ॥
तयोर्विन्दान्तरग्राह्यं यच्चापराननपुच्छकम् ? ।
दक्षिणोत्तरगं सूत्रं तन्मध्ये तु प्रसारयेत् ॥
येन मध्यममाधातुं ह्यपच्छायाङ्गुलं व्रजेत् ।
मण्डलं कुञ्जतालेन ह्यङ्गुलं तु विभाजयेत् ॥
भानुर्मीनाष्टविंशांशं सप्तविंशांशयोत्तरे ।
गते त्वर्जवनत्युक्ता कन्यायां च तथैव हि ॥
मीनेऽष्टविंशदेशं हि भागं प्रत्यर्धमातृकम् ।
वर्धयेन्मिथुने सप्तविंशदेशावसानके ॥

v1.c63.s2.16

ततोत्रि(ति)मात्रं क्षीणं स्याद्भागं प्रति विशेषतः ।
कन्यायां द्वन्द्वविंशांशं तद्धारांशविवर्धनात् ॥
छायोऽष्टविंशदं शान्तं ततो हासं तथैव हि ।
छायावृद्धि क्षयं चैव कृत्तिकांशं खु(कु) मध्यनम् ॥
छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत् ।
पूर्वापराह्वयोश्छाया मध्ये मानं च वर्जयेत् ॥
प्रागादिपरितं सूत्रमिष्टमाने तु विन्यसेत् ।

v1.c63.s2.17

साध्वे शङ्कुमिनाङ्गु्लं समतले कृत्वा पृथक्कोलज-
च्छायाग्राचितंत्रिविन्दुपारिवृत्त्योत्पाद्य मत्स्यद्वयम् ।
तत्सौपुन्नसिरोत्थसूत्रयुगयोगाच्छङ्कुनाभ्यन्तिमं
सूत्रं न्यस्य सुसाधयेद् यमधनेशाशे ततश्चेतरे ॥

v1.c63.s2.18

टि०—दिङ्निर्णाय एव प्लवविचारस्य प्रासङ्गिकत्वात् प्लवपरीक्षा यथा:—

v1.c63.s2.19

भुवः प्लवं प्रवक्ष्यामि नराणां च शुभाशुभम् ।
'पूर्वप्लवा वृद्धिकरी ह्युत्तरा धनदा स्मृता ॥
अर्थक्षयकरीं विद्यात् पश्चिमप्लवनां ततः ।
दक्षिणप्लवना 'पृथ्वी नराणां मृतिदा भवेत् ॥
वारुणोच्चसमायुक्ता नीचमाहेन्द्रसंयुता ।
गोवीथिरिति सा ज्ञेया ऐन्द्रोच्चानीचवारुणा ॥
जलवीथिरिति प्रोक्ता वास्तुज्ञानविशारदैः ।
सोमोच्चा यमनीचा च यमवीथीति कथ्यते ॥
यमोच्चसोमनीचा च गजवीथीति कथ्यते ।
ईशोच्चं निर्ऋतीनीचं भूतलं भूतवीथिकम् ॥
आग्नेयोच्चं वायुनीचं नागवीथी प्रशस्यते ।
वायूच्चमग्निनीचं यद् वीथीं वैश्वानरीं विदुः ॥
निर्ऋत्युच्चमिशानीचं धनवीथीत्युदाहृतम् ।
इन्द्राग्न्यन्तरमुच्चं स्थान्नीचं वरुणवातयोः ॥
वास्तु पैतामहं विद्यान्नराणां कुरुते शुभम् ।
याम्याग्न्यन्तरमुच्चं स्यान्नीचं मारुतसोमयोः ॥
सुपथं नाम तद्वास्तु प्रशस्तं सर्वकर्मणाम् ।
सोमेशानान्तरं नीचमुच्चं निर्ऋतिकालयोः ॥
दीर्घायुर्नाम तद्वास्तु प्रशस्तं कुलवर्धनम् ।
ईशानेन्द्रान्तरं नीचमुच्चं वरुणरक्षसोः ॥
पुण्यकं नाम तद्वास्तु द्विजानां च शुभावहम् ।
इन्द्राग्न्योरन्तरं नीचमुच्चं वायुजलेशयोः ॥

v1.c63.s2.20

अपथं नाम तद्वास्तु वैराय कलहाय च।
कालाग्न्योरन्तरं नीचमुच्चं स्याद् वायुसोमयोः॥
रोगकृन्नाम तद्वास्तु नराणां रोगवृद्धिकृत्।
निर्ऋत्यन्तकयोर्नीचमुच्चं सोमशिवान्तरम्॥
अर्गलं नाम तद्वास्तु ब्रह्महत्यादिनाशकृत्।
रुद्रेन्द्रान्तरमुच्चं स्यान्नीचं वरुणरक्षसोः॥
श्मशानं नाम तद्वास्तु केवलं कुलनाशनम्।
नीचमग्नौ भवेदुच्चं निर्ऋतीशानवायुषु॥
श्येनकं नाम तद्वास्तु नाशाय मरणाय च।
रुद्राग्निवरुणेपूच्चं नीचं स्यान्निर्ऋतौ तथा॥
श्वमुखं नाम तद्वास्तु दारिद्र्यं कारयेत् फलम्।
निर्ऋत्यग्निशिवेषूच्चं नीचं रवीन्द्रयोस्तथा॥
ब्रह्मघ्नं नाम तद्वास्तु नेष्टं प्राणभृतां सदा।
अग्नौ यदि भवेदुच्चं नीचं निर्ऋतिरुद्रयोः॥
वातनिम्नं च तद्वास्तु स्थावरं नाम शोभनम्।
उच्चं निर्ऋतिभागे स्यान्नीचं ज्वलनवातयोः॥
रुद्रनिम्नं च तद्वास्तु स्थण्डिलं नाम शोभनम्।
रुद्रोच्चं यदि निम्नं स्याद् वह्नौ निर्ऋतिवातयोः॥
शार्दूलं नाम तद्वास्तु प्रापयत्यशुभं सदा।
निर्ऋत्यग्निशिवेषूच्चं नीचं चन्द्रमसं प्रति॥
द्विजेन्द्राणां तु सुस्थानमवनी समुदाहृता।
नीचमिन्द्रे भवेदुच्चं निर्ऋत्यां पश्चिमानिले॥
सुलभं नाम तद्वास्तु राजराष्ट्रविवर्धनम्।
सौम्येशपवनेषूच्चं नीचं भवति चेद् यमे॥
नाम्ना वास्तुचरं नाम वैश्यानां तदभीष्टदम्।
नीचं वारुणमुच्चं चेदीशनेन्द्राग्निषु क्रमात्॥
श्वमुखं नाम तद्वास्तु शूद्राणां तदभीष्टदम्॥

v1.c63.s2.21

वास्तुपदानि-

v1.c63.s2.22

एकाशीतिपदं यत् स्यात् तथा शतपदञ्च यत्।
चतुःषष्टिपदं यच्च वास्तुरत्नं त्रिधोदितम्॥
चतुरश्रीकृते क्षेत्रे विभक्ते नवधा ततः।
मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः॥
तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा।
आग्नेयकोणे सवितृसावित्रौ पदिकावुभौ॥

v1.c63.s2.23

ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः ।
नैर्ऋते पदिकौ कोणे जयेन्द्रौ कथितावुभौ ॥
षट्पदः स्यात् ततो मित्रः काष्ठायां पत्युरम्भसः ।
कोणे परोत्तरे यक्ष्मा रुद्रश्च पदिकावुभौ ॥
षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः ।
आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ॥
इत्यन्तःसंश्रयान् देवान् प्रोक्तानूमो बहिः स्थितान् ।
ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥
अग्निसदनु पर्जन्यो जयन्तश्चेन्द्र एव च ।
रविः सत्यो भृशश्चेति नभस्तस्मात् ततोऽनिलः ॥
पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलेश्वरः ।
असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥
रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च ।
चरकोऽथादितिर्दैत्यमातेति पददेवताः ॥
स्वेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद् बहिः ।
चरकी च विदारी च पूतना पापराक्षसी ॥
पदभोगोऽस्ति नैतासां स्थानमेव हि केवलम् ।
पदभोगमथ ब्रूमो बहि.स्थानां नमःसदाम् ॥
तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च ।
वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः ॥
एभ्यः शेषा बहिर्ये तु ते स्युःपदभुजः सुराः ।
एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥
@H शतपदवास्तु
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
@H १६. १५–२०
भवेच्छतपदो वास्तुब्रूमोऽत्राप्यमरस्थितिम्॥
द्विरष्टगुणितं मध्ये पदमेकं पितामहः ।
भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्यमा ॥
विवस्वतोऽथ मित्रस्य तद्वच्च पृथिवीभृतः ।
भोगमिच्छन्ति वै तेषामर्यम्णा इव सूरयः ॥
सवित्राद्यापवत्सान्ता ये च प्रोक्ताः सुरोत्तमाः ।
यथैकाशीतिके तद्वत् तेषां भोगः पदाष्टकम् ॥
अन्यन्तरिक्षपवना मृगश्च पितरोऽपि च ।
रोगो दित्तिस्तथाद्यर्धपदभाजो बहिः स्थिताः ॥
चतुर्विंशतिरुक्ता ये पर्जन्याद्याः सुरोत्तमाः ।

v1.c63.s2.24

अदित्यन्ता द्विपदिकास्ते शेषं प्राक् प्रसाधितम् ॥

v1.c63.s2.25

चतुरश्रीकृते क्षेत्रे पूर्ववद् भाजितेऽष्टभिः ।
चतुः षष्टिपदो वास्तुश्चतुःषष्ट्या पदैर्भवेत् ॥
अस्मिन् पदानि चत्वारि भुङ्क्त्यन्तः पितामहः ।
अर्यमाद्याः सुराश्चान्ते द्वे द्वे मध्यगताः पदे ॥
मध्येऽष्टौ बाह्यतोऽष्टौ ये स्थिताः कोणेषु चाष्टसु ।
ये देवाः सर्व एकत्र ते पदार्धभुजः स्मृताः ॥
पर्जन्योऽथ भृशः पूषा भृङ्गदौवारिकौ तथा ।
शोषनागादितिप्रान्ताः स्युरध्यर्धपदस्पृशः ॥
जयन्तादिषु बाह्येषु चरकान्तेषु कीर्तिता ।
प्रत्येकं षोडशस्वत्र सुरेषु द्विपदस्थितिः ॥
सिरां बहिः पदादूर्ध्वं नयेत् पितृपदान्ततः ।
बाह्याशानिर्गतां चैनां रोगनामानमानयेत् ॥
द्विनाम्नः प्रापयेद् भृङ्गं भृङ्गात् सुग्रीवमानयेत् ।
ततोऽदितिं तां गमयेद् द्विनामानं प्रवेशयेत् ॥
सौराद् याम्यं पदं नीत्वा वारुणं प्रापयेत् ततः ।
नयेत् पदं ततः सौम्यं तत आदित्यमानयेत् ॥
भृशादानीय वितथं शोषाख्यं वितथादथ ।
शोषान्मुख्यं समानीय नयेत् तस्मात् पुनर्भृशम् ॥
ये विभागाः समुद्दिष्टा यथासङ्ख्‍येन तैरिरह ।
यन्नामरनॄणां वास्तुं समस्तं विभजेत् सुधीः ॥

v1.c63.s2.26

अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे ।
एकश्चतुःषष्टिपदभागः शतपदोऽपरः ॥
अष्टधा भाजिते वृत्तविष्कम्भे भागिकान्तरान् ।
चतुरः परिधीन् कुर्यान्मध्यवृत्तं द्विभागिकम् ॥
स्याद्बर्हिर्वृत्तवलयमष्टाविंशतिभागिकम् ।
तदन्तर्वृत्तवलयमष्टाष्टांशोज्झितं क्रमात् ॥
एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम् ।
इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ॥
दशधा भाजिते वृत्तविष्कम्भे भागिकान्तराः ।
कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥
बहिस्यं बलयं तस्य भजेत् षट्त्रिंशता ततः ।
शेषं चतुःषष्टिपदस्थित्या स्याच्छतवास्तुनि ॥
देवतापदसङ्क्षिक्षिरनयोश्चतुरश्रवत् ।
एवं कार्यवशात् कार्या वास्तवोऽन्येऽपि धीमता ॥

v1.c63.s2.27

द्व्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत्।
वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम्॥
एक एव पुमानेषु बहुधा परिकल्पितः।
सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेद् ततः॥

v1.c63.s2.28

देवतानां ; पदैरित्थं संविभक्तैः पृथग्विधैः।
स्थपतिः प्रयत्नः कुर्याद् , वास्तुमित्थंपुमाकृतिम्॥
शिरस्तस्याभिरुद्दिष्टं दृष्टिदित्यम्बुदाधिपौ।
जयन्तश्चादितिश्चास्य कर्णौ वायुर्मुखे स्थितः॥
अर्कः स्याद् दक्षिणे वामे भुजे सोमः प्रतिष्ठितः।
महेन्द्रचरकौ सापवत्सावस्योरसि स्थितौ॥
स्तनेऽर्यमा दक्षिणे स्याद् वामे च पृथिवीधरः।
यक्ष्मा रोगश्च नागश्च मुख्यो भल्लाट इत्यमी॥
दक्षिणेतरमेतस्य बाहुं देवाः समाश्रिताः।
सत्यो भृशो नभो वायुः पूषा चेत्यथ दक्षिणम्॥
पञ्चापि बाहुमेतस्य संश्रितास्त्रिदिवौकसः।
सावित्रसंवितारौ च रुद्रशक्तिधरावपि॥
चत्वारोऽमी कलाः फोणिस्थाः कस्योहृदि च स्वभूः।
वितथौकःक्षतौ पार्श्वे दक्षिणेऽस्य व्यवस्थितौ॥
वामे पुनः स्थितावस्य देवौ शोषारुराभिधौ।
मित्राभिधो विवस्वांश्च द्वावप्युदरमाश्रितौ॥
मेढ्रमध्यस्थितावस्य सुराविन्द्रजयाभिधौः।
यमश्च वरुणश्चोभौः क्रमाद् दक्षिणवामयोः॥
गन्धर्वभृङ्गौ सम्पूगौ जङ्घां सव्यामथेतराम्।
द्वास्थसुग्रीवपुष्पाख्याः संश्रिताः पितरोऽङ्घ्रशः॥
एकाशीतिपदस्येशदिग्विभागाश्रितं शिरः।
माहेन्द्रीसंश्रितं विद्याच्चतुःषष्टिपदस्य तु॥
एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः।
यः षोडशपदः स स्याच्चतुष्षष्टिपदोद्भवः।

v1.c63.s2.29

मध्ये य एव देवानां स्थितो ब्रह्माब्जसंभवः।
स सहस्राननोऽचिन्त्यविभवो जगतां प्रभुः॥
योऽयं वह्निरिहोक्तः स सर्वभूतहरो हरः।
पर्जन्यनामा यश्चायं वृष्टिमानम्बुदाधिपः॥
जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः।
महेन्द्रस्तु सुराधीशो दनुजानां विमर्दनः॥
द्वाहित्यं पुनरिच्छन्ति विवस्वन्तमहस्करम्।

v1.c63.s2.30

सत्यो भूतहितो धर्मो वृषः कामोऽथ मन्मथः ॥
योऽन्तरिक्षः स्मृतो देवस्तन्नभः समुदाहृतम्।
मारुतो वायुरुद्दिष्टः पूषा मातृगणः स्मृतः ॥
अधमो वित्तथाख्यः स्यात् कलेरप्रतिमः सुतः।
गृहक्षतः पुनर्योऽत्र स चन्द्रतनयो बुधः ॥
प्रेताधिपो मतः श्रीमान् यमो वैवस्वतश्च सः।
गन्धर्वो भगवान् देवो नारदः परिकीर्तितः ॥
भृङ्गराजमिहेच्छन्ति राक्षसं निर्ऋतेः सुतम्।
यो मृगोऽस्मिन्नन्तः स स्वयंभूर्धर्म इत्यपि ॥
पितरस्तु स्मृता देवाः पितृलोकनिवासिनः।
स्मृतो दौवारिको नन्दी प्रमथानामधीश्वरः ॥
आदिः प्रजापतिः स्रष्टा मनुः सुग्रीव ईरितः।
पुष्पदन्तस्तु विनतातनयः स्यान्महाजवः ॥
वरुणः पाथसां नाथो लोकपालः स कीर्तितः।
असुरो राहुरर्केन्दुर्मर्दनः सिंहिकात्मजः ॥
शोषस्तु भगवान्नेष सूर्यपुत्रः शनैश्चरः।
पापयक्ष्मा हयः प्रोक्तो रोगस्तु कथितो ज्वरः ॥
भुजङ्गानामधिपः श्रीमान् नागस्तु वासुकिः।
त्वष्टा स्यान्मुख्यसंज्ञोऽत्र विश्वकर्माभिधश्च सः ॥
चन्द्रो भल्लाट इत्युक्तः कुबेरः सोमसंज्ञितः।
चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ॥
दितिरत्रोच्यते शर्वः शूलभृद् वृषभध्वजः।
हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥
आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते।
देवी गङ्गात्र विद्वद्भिः सवितेति प्रकीर्तिता ॥
मृत्युः शरीरहर्तालौ विवस्वानिति स स्मृतः।
नयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥
मित्रो हलधरो माली रुद्रस्तूको महेश्वरः।
राजयक्ष्मा गुहः प्रोक्तः क्षितिभ्रोऽनन्त उच्यते ॥
चरकी च विदारी च पूतना पापराक्षसी।
रक्षोयोनिभवा ह्येता देवतानुचरीर्विदुः ॥
इत्येष वास्तुदेवानां निवह्रदुः परिकीर्तितः।
क्षो मूर्ध्नि हो दृशोर्मध्ये खो घ्राणे चिबुके तु घः ॥
शः कण्ठे हृदये वः स्याल्लकारो नाभिदेशतः।
रेफो वस्तौ यकारस्तु मेढ्रे सः (पुच्छः) मुष्ककावुभौ ॥

v1.c63.s2.31

णकार ऊरूणौ जानुकारः पिण्डिकाश्रितः।
(ङः) डकारो गुल्फयोरन्ते पकारोऽङ्घ्रितले स्मृतः ॥

v1.c63.s2.32

शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत्।
मुखं मूर्धा ततः श्रोत्रे दृक्तालुवोष्ठरदाः क्रमात् ॥
वक्षः कण्ठः स्तनो नाभिर्मेढ्रमुष्कावथो गुदम्।
बाहू च प्रबाहू पाणी स्फिगूरूजङ्घापदद्वयम् ॥
कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः।
सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥
मर्मा‌ण्यथ महावंशा लक्ष्या वास्तुशरीरगाः।
सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥
पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम्।
महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥
प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः।
वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥
यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः।
सम्पाता ये स्युरेतेषां मर्म तत् संप्रचक्षते ॥
उपमर्माणि तान्याहुः पदमध्यानि यानि हि।
भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥
पदतो भागमिष्टं स्याद् वंशादीनामनुक्रमात्।
वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥
ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते चानुसन्धयः।
वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥
तदर्धमनुसन्धोनां प्रमाणं समुदीरितम्।
यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥
द्रव्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत्।
महावंशस्य नाक्रान्तिं कुर्याद् द्रव्येण केनचित् ॥
इतरेषु पुनर्द्रव्यं मध्यवंशेषु सन्त्यजेत्।
महावंशसमाक्रान्तौ भवेत् स्वामिवधो ध्रुवम् ॥
दर्पेण तपनाद् भीतिं वंशानां पीडनाद् विदुः।
उपमर्माणि रोगाय मर्माणि कुलहानये ॥
उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः।
फलिः स्यात् सन्धिविच्छेदे पीडितेष्वनुसन्धिषु ॥
तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत्।
ज्ञात्वा सिराः सानुसिराश्च नाडीवंशानुवंशानपि वास्तुदेहे।
यत्नेन मर्माणि फलानि चैषां वेधं त्यजेद् यस्तमुपैति नापत् ॥

v1.c63.s2.33

प्रासादा विविधास्तद्वद् विचित्राश्चाश्च मण्डपाः ।
तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥
यः पुनः स्याच्चतुःषष्टिपदस्तेन विभाजयेत् ।
नरेन्द्र शिविरग्रामखेटादि नगरादि च ॥
मर्माणि वास्तुपुंसोऽस्य षए्महान्ति प्रचक्षते ॥
वंशानुवंशसम्पाताः पदमध्यानि यानि च ।
देवस्थानानि तान्याद्ये पदषोडशकान्विते ॥
देवस्थानानि सम्पाताश्चतुःषष्टिपदे पुनः ।
तथैकाशीतिपदिके पदान्तशतिकेऽपि च ॥
चतुर्व्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् ।
मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥
भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः ।
मर्म यत् पीड्यते येन गृहे तत्रोच्यते फलम् ॥
द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् ।
दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा ॥
भवेत् स्वामिवधः स्तम्भैस्तुलाभिः स्त्रीपरिक्षयः ।
स्नुषावधो जयन्तीभिर्बन्धुनाशश्च सङ्ग्रहैः ॥
मर्मस्थानक्षयैः कार्यैर्भर्तुः कायो निपीड्यते ।
सुहृद्विश्लेषमिच्छन्ति सन्धिपालैश्च तद्विदः ॥
नागपाशैर्धनोच्छेदो नागदन्तैः क्षयमादिशेत् ॥
षड्दारुकाजानुसिरागवाक्षालोकनानि च ।
मर्ममध्योपगान्येतान्यावहन्ति धनक्षयम् ॥
द्वारद्वयतुलास्तम्भनागदन्तगवाक्षकैः ।
नृपदण्डभयं पत्युः पीडनं च प्रचक्षते ।
द्वारमध्येधु षड्दारुमध्येष्वपि च सूरयः ॥
कर्णद्वयादिभिर्विद्धेष्वेवमेव फलं विदुः ।
शय्यानुवंशविहिता गृहिणां कुलनाशिनी ॥
क्षयावहा नागदन्ता भर्तुः शय्यान्विता नगाः ।
वातायनैश्च स्तम्भैर्ये विद्धा नागदन्तकाः ॥
ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः ।

First 88 of 167 passages. Read on

Linked texts (11)