Pramāṇa · Search · About · API

Elements of Hindu Iconography v3.c22: Appendix C. प्रतिमालक्षणानि

Elements of Hindu Iconography v3.c22

Language
English

Contents

Appendix C. प्रतिमालक्षणानि

v3.c22.1

¹ अत्र मुद्रितानां सर्वेषामपि लक्षणवचनानां तन्त्रशिल्पादिमूलग्रन्थे-भ्यस्समुद्धृतत्वात्तेषु भूयिष्ठमपशब्दलिङ्गव्यत्ययादिकमुपलभ्यते । साकल्येन तद्विपरिवर्तनं दुश्शकमित्यर्थावबोधोपरोधकानां परमपशब्दानां साधुस्वरूप-मधस्तादुपदर्श्यते ।

v3.c22.2

विनायकः ।

v3.c22.3

स्थानकं वासनं वापि पद्मपीठे विशेषतः । स्वदन्तं दक्षिणे हस्ते वामहस्ते कपित्थकम् ॥ मोदकं गजहस्ते तु अङ्कुशं दक्षिणे परे । वामहस्ते तु पाशं वा नागं वाप्यक्षमालिका ॥ त्रिनेत्रं चतुर्भुजं हेयं दुकूलवसनान्वितम् । आभङ्गं समभङ्गं वा स्थानके तु प्रकल्पयेत् ॥ आसने त्वासनं चेत्तु वामपादं तु शाययेत् । वामेतरेणोरुमूर्ध्नि पादेनोत्कुटिकासनम् ॥

v3.c22.4

ईषद्वक्रतनुवर्मे कर्तव्यन्तु१ विशेषतः । व्यालयज्ञोपवीती च किरीटमकुटान्वितः ॥ सर्वाभरणसंयुक्तो महाकायो महोदरः । एवं विनायकं२ ख्यातं षण्मुखस्य ततश्शृणु ॥

v3.c22.5

(अंशुमद्भेदागमे ॥)

v3.c22.6

गजवक्त्रो गणाधीशो भूतरूपो महोदरः । नागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः ॥ नीलनीरुरुहाभस्तु चतुर्दोरण्डमण्डितः । अवामवामावर्तेभहस्तः पद्मासने स्थितः ॥ स्वदन्तं परशुं कुर्यात्स्वदक्षिणकरद्वये । लड्डुकं चाक्षमालां च वामपाणावथोल्पम् ॥ रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् । पीतकञ्चुकसंछन्नं किरीटमकुटोज्वलम् ॥ शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् । स्वं शृङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुकम् ॥ स्थानकं३ वासनं वाथ गणेशं कारयेत्ततः । त्रिभिर्विरजितं नैतर्नेत्राभ्यामधवा द्विजाः ! ॥

v3.c22.7

¹ 'कर्तव्यस्त्व'ति भवितव्यम् ।

v3.c22.8

² 'विनायकः ख्यात' इति भवितव्यम् ।

v3.c22.9

³ तिष्ठन्तमासीनं वेत्यर्थः ।

v3.c22.10

पद्मस्थं वापि पीठस्थं मूषिकस्थमथापिवा । इष्टासनस्थितो वापि प्रभादिपरिमण्डितः ॥ एवं स्यात्केवलो विघ्नराजशक्त्यान्वितोऽथवा । गणेशो भारतीभ्यां वामेऽवामे युतोऽथवा ॥ शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते । आसीनमासने रत्नमकुटादिविभूषितम् ॥ श्यामवर्णं तथा शक्तिं धारयन्तं दिगम्बरम् । उत्सङ्गे निहितां देवीं सर्वाभरणभूषिताम् ॥ दिगम्बरां सुवदनां भुजद्वयसमन्विताम् । विघ्नेश्वरीतिविख्यातां सर्वावयवसुन्दरीम् ॥ पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु । स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् ॥ चतुर्भुजं त्रिनेत्रं च पाशाङ्कुशधरं विभुम् । इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् ॥ स्पृशन्तं पुष्करेणापि खण्डमिक્ષोस्तु हे द्विजाः ! । एवं संपाद्य तन्मन्त्रैः प्रतिष्ठामाभेद्द्विजाः ! ॥ (उत्तरकामिकागमे पञ्चचत्वारिंशत्तमपटले ॥)

v3.c22.11

अथातस्संप्रवक्ष्यामि विघ्नेस्थापनं परम् । आदौ त्वहमुमासार्धं क्रीडार्थं हिमवद्वने ॥

v3.c22.12

१. उमया सार्धमित्यर्थः । २. आदावित्यर्धस्यासंपूर्णार्थत्वात्तदनन्तरं करेणुश्चेत्यर्धात्पूर्वं चैकेनाधैन भवितव्यमिति संभाव्यते ।

v3.c22.13

करेणुश्च गजेन्द्रेण सम्भोगमकरोत्ततः । यदृच्छया तु तं दृष्ट्वा तदाकारमगामहम् ॥ १करेणवराकृतं चोमां तदाक्रीडमहं भृशम् । तस्यां तु गर्भमधात्तस्मिन्काले२ तवो ३भवेत् ॥ फलं दक्षिणहस्ते तु वामहस्ते स्वश्रृङ्कम् । पादाङ्कुशोर्ध्वहस्ते४ तु गजहस्ते तु लड्डुकम् ॥ करण्डमकुटं प्रोक्तं सर्वाभरणभूषितम् । शिरश्चक्रप्रभां कृत्वा पद्मपीठोपस्थितम् ॥ दाडिमीपुष्पसङ्काशं सर्वाभरणभूषितम् । आसनं स्थानकं वापि कारयेद्विनायकम् ॥

v3.c22.14

(सुप्रभेदागमे त्रिचत्वारिंशत्तमपटले ॥)

v3.c22.15

विनायकस्य वक्ष्यामि मूर्तिं चित्रोपयोगिनीम् । गजवक्त्रं त्रिनेत्रं च चतुर्बाहुं महोदरम् ॥ भग्नदन्तसंयुक्तं स्तब्धकर्णं समालिखेत् । नागोपवीतिनं कुब्जं पीनस्कन्धाङ्घ्रिपाणिकम् ॥ भग्नदन्धरं चैकमन्यमुत्पलसंयुतम् । दक्षिणे विलिखेद्वामे सकुठारसलस्पृकौ (?) ॥

v3.c22.16

¹ ‘करेणोराकृतिं चोमा’ इति भवितव्यम् ।

v3.c22.17

² ‘मदधां तस्मि’न्निति भवितव्यम् ।

v3.c22.18

³ ‘तवोद्भव’ इति भवितव्यम् ।

v3.c22.19

⁴ ‘पाशाङ्कुशाूर्ध्वहस्ते’ इति भवितव्यम् ।

v3.c22.20

पार्श्वे बुद्धिकुद्धिभ्यामधस्तादधुनान्वितम् । आसीनमुत्तमे पीठे सिन्धुराननविग्रहम् ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)

v3.c22.21

प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् । एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ॥ (बृहत्संहिताया मष्टापञ्चाशत्तमाध्याये ॥)

v3.c22.22

विनायकस्तु कर्तव्यो गजवक्त्रश्चतुर्भुजः । स्थलकं¹ चाक्षमाला च तस्य दक्षिणहस्तयोः ॥

v3.c22.23

¹ वाचस्पत्ये विनायकलक्षणप्रदर्शनावसरे 'स्थलकं गजदन्ताकार'मिति विवरणं कृतम् ।

v3.c22.24

पात्रं चोदकपूर्ण² च परशुश्चैव वामतः । दन्तश्चास्य न कर्तव्यो वामे रिपुनिषूदन ! ॥

v3.c22.25

² 'मोदकपूर्णं च' इति भवितव्यम् ।

v3.c22.26

पादपीठकृतः पाद एक आसनगो भवेत् । पूर्णे चोदकपात्रे³ च कराग्रं तस्य कारयेत् ॥

v3.c22.27

³ 'मोदकपात्रे' इति भवितव्यम् ।

v3.c22.28

लम्बोदरस्तथा कार्यस्तब्धकर्णश्च यादव ! । व्याघ्रचर्माम्बरधरस्सर्पयज्ञोपवीतवान् ॥ (हेमाद्रिव्रतखण्डे विष्णुध० ॥)

v3.c22.29

दन्तं च परशुं पद्मं मोदकांश्च गजाननः । गणेशो मूषकारूढो बिभ्राणस्सर्वकामदः ॥ (रूपमण्डने ॥)

बीजगणपतिः ।

v3.c22.s1.1

रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तन्दिलश्चन्द्रमौलि- र्नैत्रैर्युक्तास्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः । हस्ताग्राकृत्तपाशाङ्कुशदरवरदो नागवक्त्रोऽहिभूषो देवः पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः ॥

v3.c22.s1.2

धृतपाशाङ्कुशकल्पलतिकावरदश्च बीजपूरयुतः । शशिशकलकलितमौलिस्त्रिलोचनोऽरुणहनुश्च गजवदनः ॥

v3.c22.s1.3

भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः । . . . . . सम्पदे मनुजैः ॥

v3.c22.s1.4

नमामि पाशाङ्कुशदन्तभक्ष्य- संलक्षितं त्र्यक्षमुदारकुक्षिम । नागाननं नागकृतोत्तरीय- मुत्तप्तहेमप्रभमेकदन्तम् ॥

v3.c22.s1.5

रत्नाक्षमालां परशुं च दन्तं भक्ष्यं च दोर्भिः परितो दधानम् । हेमावदातं त्रिदशं गजास्यं लम्बोदरं तं शिरसा नमामि ॥

v3.c22.s1.6

विघ्नेशं सपरश्वधाक्षपदिकं१ दन्तोल्लस........कै- र्दौर्भिः पाशसृणीस्वदन्तवरदाढ्यैर्वा चतुर्भिर्युतम् । शुण्डाग्राहितबीजपूरमुरुकुक्षिं त्रीक्षणं संस्मरेत् सिन्दूराभमिभास्यमिन्दुशकलाकल्पाम्बजासनम् ॥

v3.c22.s1.7

¹ अक्षपदिकमिति भवितव्यम् । अक्षमालेत्यर्थः ।

हेरम्बः ।

v3.c22.s2.1

सिंहोपरि स्थितं देवं पञ्चवक्त्रं गजाननम् ।
दशबाहुं त्रिनेत्रंच जाम्बूनदसप्रभम् ॥
प्रसादाभयदातारं पात्रं पूरितमोदकम् ।
स्वदन्तं सव्यहस्तेन बिभ्रतं चापि सुव्रते ! ॥
...करं चाक्षसूत्रं च परशुं मुद्गरं तथा ।
पाशाङ्कुशकरां शक्तिं देवं लम्बोदरं शुभम् ॥
पीवरं चैकदन्तं च तुम्बुरूणां गणान्वितम् ।
(शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s2.2

वरं तथाङ्कुशं दन्तं दक्षिणे च परश्वधः १ ।
वामे कपालंर बाणाक्षपाशं कौमोदकीं तथा ॥
धारयन्तं करैरेभिः पञ्चवक्त्रं त्रिलोचनम् ।
हेरम्बं मूषकारूढं कुर्यात्सर्वार्थकामदम् ॥
(रूपमण्डने ॥)

v3.c22.s2.3

अभयवरहस्तं पाशदन्ताक्षमाला-
परशुमथ त्रिशीर्षैर्मुद्गरं च ।
विदधतुवरसिंह३ पञ्चमातङ्गवक्तः
कनकरुचिवर्णः पातु हेरम्बनामा ॥
(क्रियाक्रमद्योतौ ॥)

v3.c22.s2.4

१. ‘पर्श्वधाभया’विति पाठान्तरम् । २. ‘व्यलंवे’ति पाठान्तरम् ।
३. ‘विदधदपरसिंहः’ इति किमु स्यात् ? ।

v3.c22.s2.5

वक्रतुण्डः । लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तं च लसत्कर्णं सचामरम् ॥ (रूपमण्डने ॥)

v3.c22.s2.6

बालगणपतिः । बालः प्रसूतमात्रोऽयमम्बिकाङ्के निवेशितः । अतिरक्तो गजमुखो द्विश्दो१ रत्नभूषितः ॥ चषकं पुष्करे बिभ्रत् सृणिपाशौ करद्वये । द्वाभ्यां कल्पलतां दोभ्यां दोलयत्नवर्षिणीम् ॥ एवं ध्यात्वा जपेन्मन्त्रं बालाख्यं गणनायकम् । (शिल्परत्ने पञ्चविंशाध्याये ॥)

v3.c22.s2.7

करस्थकदलीचूतपनसेक्षुकपित्थकम् । बालसूर्यप्रभाकारं वन्दे बालगणाधिपम् ॥

v3.c22.s2.8

तरुणगणपतिः । पाशाङ्कुशापूपकपित्थजम्बूफलं तिलान्वेणुमपि स्वहस्तैः । धत्ते सदायस्तरुणोऽरुणाभः पायात्सुयुष्मांस्तरुणो गणेशः ॥

v3.c22.s2.9

भक्तविघ्नेशः । नालिकेराम्रकदलीगुळपायसधारिणम् । शरच्छाङ्कसदृशं भजे भक्तगणाधिपम् ॥

v3.c22.s2.10

¹ 'द्विरद' इति स्यात् ।

v3.c22.s2.11

वीरविघ्नेशः ।

v3.c22.s2.12

वेतालशक्तिशरकार्मुकखेटखड्ग- खट्वाङ्गमुद्गरगदाङ्कुशनागपाशान् । शूलं च कुन्तपरशुध्वजमुद्वहन्तं वीरं गणेशमरुणं सततं स्मरामि ॥

v3.c22.s2.13

शक्तिगणेशः ।

v3.c22.s2.14

आलिङ्ग्य देवीं हरितां निषण्णां परस्परस्पृष्टकटीनिवेशाम् । सन्ध्यारुणं पाशसृणिं वहन्तं भयावहं शक्तिगणेशमीडे ॥

v3.c22.s2.15

(क्रियाक्रमद्योतौ ॥)

v3.c22.s2.16

विषाणाङ्कुशाक्षसूत्रं च पाशं दधानं करैर्मोदकं पुष्करेण । स्वपत्न्या युतं हेमभूषाम्बराढ्यं गणेशं समुद्यदिनेशाभमीडे ॥

v3.c22.s2.17

(श्रीमन्मन्त्रमहार्णवे ॥)

v3.c22.s2.18

ध्वजगणाधिपः ।

v3.c22.s2.19

यः पुस्तकाक्षगुणदण्डकमण्डलुश्री- निर्वर्त्यमानकरभूषणमिन्दुवर्णम् । तं घोरमाननचतुर्भुजशोभमानं त्वां संस्मरेद् ध्वजगणाधिपते ! स धन्यः ॥

v3.c22.s2.20

पिङ्गलगणपतिः ।

v3.c22.s2.21

पक्वचूतफलकल्पमञ्जरीभिक्षुसारतिलमोदकैस्सह । उद्वहन्परशुहस्त ते नमः श्रीसहाययुत देवपिङ्गल ! ॥

v3.c22.s2.22

उच्छिष्टगणपतिः ।

v3.c22.s2.23

लीलाब्जं दाडिमं वीणाशाली१ पुच्छाक्षसूत्रकम् । दधदुच्छिष्टनामानं गणेशं वीरमेव च ॥

v3.c22.s2.24

(क्रियाक्रमद्योतौ ॥)

v3.c22.s2.25

शरं धनुः पाशसृणी स्वहस्तैर्दधानमारक्तसरोरुहस्थम् । विवस्त्रपत्न्या सुरतप्रवृत्तमुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥

v3.c22.s2.26

चतुर्भुजं रक्तनुं त्रिनेत्रं पाशाङ्कुशौ मोदकपावदन्तौ । करैर्दधानं सरसीरुहस्थमुन्मत्तमुच्छिष्टगणेशमीडे ॥

v3.c22.s2.27

(श्रीमन्मन्त्रमहार्णवे ॥)

v3.c22.s2.28

विघ्नराजगणपतिः ।

v3.c22.s2.29

पाशाङ्कुशौ धरन्नाम्रफलाशी चाखुवाहनः । विघ्नं विहन्तु नसर्वं रक्तवर्णो विनायकः ॥

v3.c22.s2.30

लक्ष्मीगणेशः ।

v3.c22.s2.31

बिभ्राणशुक्बीजपूरकमलं माणिक्यकुम्भाङ्कुशा- न्पाशं कल्पलतां च बाणकलिकास्त्रोत्सस्सरोनिसरः (?) ।

v3.c22.s2.32

¹ शालिपुञ्जेति स्यात् ।

v3.c22.s2.33

श्यामोरक्तसरोरुहेण सहितो विद्वन्नयेनान्तिके (?) गौराङ्गो वरदादिहस्तकमलो लक्ष्मीगणेशो महान् ॥ (क्रियाक्रमद्योतौ ॥)

v3.c22.s2.34

दत्ताभये१ चक्रधरौ२ दधानं कराग्रगस्वर्णघटं विनेवम् । धृताब्जयालिङ्गितमब्धिपुत्र्या लक्ष्मीगणेशं कनकाभमीडे ॥ (श्रीमन्मन्त्रमहोदधौ ॥)

v3.c22.s2.35

महागणेशः ।

v3.c22.s2.36

बिभ्राणोऽब्जकबीजपूरकगदा दन्तेक्षुबाणैस्समं बिभ्राणो मणिकुम्भशालिकणिशं पाशं च वक्त्रान्वितम् । गौराङ्ग्या रुचिरारविन्दयुतया देव्या सनाथान्तिक- श्शोणाङ्ग्शुभमातनोतु भवतां नित्यं गणेशो महान् ॥

v3.c22.s2.37

भुवनेशगणपतिः ।

v3.c22.s2.38

शङ्खेक्षुचापकुसुमेषुुकवामदन्त- पाशाङ्कुशैः कलममञ्जरिकासनाथैः । पाणिस्थितैः परिसमावृतभूषणश्री- र्विघ्नेश्वरौ विजयते कमनीयगौरः ॥

v3.c22.s2.39

नृत्तगणपतिः ।

v3.c22.s2.40

पाशाङ्कुशापूपकुठारदन्तचञ्चत्करं वलय........मङ्गुलीयकम । पीतप्रभं कल्पतरूरुहस्तं भजामि नृत्तपदं गणेशम् ॥

v3.c22.s2.41

१. दन्ताभये इति स्यात् । २. चक्रधरमिति स्यात् ।

v3.c22.s2.42

ऊर्ध्वगणेशः । कल्हारशालिकणिशेषुकचापबाण- दन्तप्ररोहभरः कनकोज्वलाङ्गः । आलिङ्गनद्यतकरस्तटिदाभकव्या देव्या दिशत्वभयमूर्ध्वगणेश्वरस्ते ॥ (क्रियाक्रमद्योतौ ॥)

v3.c22.s2.43

प्रसन्नगणेशः । उद्यदिनेश्वररुचिं निजहस्तपद्मैः पाशाङ्कुशाभयवरान्दधतं गजास्यम् । रक्ताम्बरं सकलदुःखहरं गणेशं ध्यायेत्प्रसन्नमखिलाभरणाभिरामम् ॥ (श्रीमन्मन्त्ररत्नाकरे ॥)

v3.c22.s2.44

उन्मत्तविनायकः । चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ । करैर्दधानं सरसीरुहस्थमुन्मत्तमुच्छिष्टगणेशमीडे ॥ (मन्त्रमहोधौ ॥)

v3.c22.s2.45

हरिद्रागणेशः । पाशाङ्कुशौ मोदकमेकदन्तं करैर्दधानं कनकासनस्थम् । हारिद्रखण्डप्रतिभं विनेत्रं पीतांशुकां रविगणेशमीडे ॥ (श्रीमन्मन्त्ररत्नाकरे ॥)

v3.c22.s2.46

गणेशायतनम् ।

v3.c22.s2.47

वामाङ्गे गजकर्ण तु सिद्धिं दद्याच्च दक्षिणे । पृष्टिकर्णैस्तथाद्वौ (?) च धूम्रको बालचन्द्रमाः १ ॥ उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्षराजश्च बुद्धिः पूर्वसुसंस्थिता ॥

v3.c22.s2.48

गणेशप्रतीहाराः ।

v3.c22.s2.49

सर्वे च वानाकारासौम्याश्च परुषाननाः । तर्जनी परशुः पद्मविघ्नो दण्डहस्तकः ॥ तर्जनीदण्डापसव्ये स भवेद्विघ्नराजकः । तर्जनी खड्गखेटं तु दण्डहस्तस्सुवक्त्रकः ॥ तर्जनी दण्डापसव्ये दक्षिणे बलवान्भवेत् । तर्जनी बाणचापं च दण्डं च गजकर्णकः ॥ तर्जनी दण्डापसव्ये गोकर्णः पश्चिमे स्मृतः । तर्जनीपद्माङ्कुशं च दण्डहस्तः सुसौम्यकः ॥ तर्जनीदण्डापसव्ये स चैव शुभदायकः । पूर्वद्वारादिके सर्वे प्राच्यादिष्वष्ट संस्थिताः ॥

v3.c22.s2.50

(रूपमण्डने ॥)

v3.c22.s2.51

१. बालचन्द्रमा इति स्यात् ।

वैष्णवध्रुवबेराणि ।

v3.c22.s3.1

वैष्णवध्रुवबेराणि ।

v3.c22.s3.2

योगस्थानकमूर्तिः १ ।

v3.c22.s3.3

देवेशं श्यामाभं चतुर्भुजं शङ्खचक्रधरमभयकरदक्षिणहस्तं वरद- कट्यवलम्बितवामहस्तं दक्षिणे चैकजानुासीनं भृगुं तथा वामे मार्कण्डेयं तथैव भूमिपुण्यार्चिते२ वा दक्षिणे भित्तिपार्श्वे हेमाभं चतुर्भुजमक्षमालाकमण्डलुधरमभयकट्यवलम्बितहस्तं ब्रह्माणमुत्तराभि- मुखमुत्तरे भित्तिपार्श्वे श्वेताभं चतुर्भुजं मृगपरशुधरमभयकट्यवलम्बित- हस्तं शङ्करं दक्षिणाभिमुखं स्थितमेव कारयेत् ।

v3.c22.s3.4

१. अनन्तशयनसंस्कृतग्रन्थप्रकाशनकार्यालयादानीतमादर्शद्वयमवलम्ब्य भूयसीनां वैष्णवप्रतिमानां लक्षणवाक्यानि वैखानसागमादुद्धृतानि । तस्मिन्ना- दर्शद्वये परस्परमर्थसाम्येऽपि भूयान्वचनव्यक्तिभेदस्समुपलभ्यते । तस्य सर्वस्यापि पाठान्तरतया प्रदर्शनं दुष्करमिति विलक्षणार्थवतामेव पदा- दीनां स्वरूपमधस्तादुपदर्श्यते । २. ‘भूमिपुण्यार्चिते वामदक्षिणे’ इति पाठान्तरम् ।

v3.c22.s3.5

ब्रह्मशङ्कराभ्यां१ हीनं मध्यमम् ।

v3.c22.s3.6

पूजकमुनिभ्यां हीनमधमम्२ ।

v3.c22.s3.7

भोगस्थानकमूर्तिः ।

v3.c22.s3.8

द्वितीयं भोगस्थानकं चतुर्भुजं श्यामाभं शङ्खचक्रधरमभयवरद- दक्षिणहस्तकव्यबलम्बितसिंहकर्णवामहस्तं तथा ब्रहेशौ, दक्षिणे श्रीदेवीं रुक्माभां स्वस्थित३दक्षिणपादां किंचित्कुञ्चितवामपादां धृतकमल- दक्षिणहस्तां प्रसारितवामकरां देवं किंचित्समीक्ष्य स्थितां, वामे ४हरिणीं श्यामाभां प्रसारितदक्षिणहस्तां धृतोत्पलवामहस्तां सुस्थित५वामपादां किंचित्कुञ्चितदक्षिणपादां६ देवं किंचित्समीक्ष्य स्थितां कारयेत्७ । देव्यो- र्हस्तौ विपरीतौ वा कारयेत् । दक्षिणे८ भृगुं ९दक्षिणजानुनासीनं वामेनोत्कुटिकमासीनं सपद्मवामहस्तं दक्षिणोरुनिहितदक्षिणकरं वामे पुराणं वामेन जानुनासीनं सपद्मदक्षिणहस्तं [वामोरु*] विन्यस्तवामकरं

v3.c22.s3.9

१. एतत्पदादनन्तरं पूजकमुनिभ्यामित्यधिकमादर्शान्तरे दृश्यते ।
२. शङ्खचक्राभ्यां हीनमधममिति पाठान्तरम् । ३. सुस्थितेति भवितव्यम् ।
४. ‘हरिणी’मित्येतत्पदमादर्शान्तरे नास्ति । ५. सुस्थितेति पदमादर्शान्तरे न । ६. दक्षिणपादामित्येतदादर्शान्तरे न । ७. स्थितां कारयेदिति पदद्वयमादर्शा- न्तरे न । ८. दक्षिण इति पदात्पूर्व ‘कुञ्च्यकौतुकयोर्मध्ये’ इत्यादर्शान्तरे विद्यते ।
९. दक्षिणजानुनेत्यारभ्य संपुटौ वा कारयेदित्यन्तस्य स्थाने ‘एकजानुमासी- नमुत्कुटिकासनां वा वामे तथा पुराणमित्यन्यतरादर्श दृश्यते ।

v3.c22.s3.10

प्रातिमालक्षणानि ।

v3.c22.s3.11

कारयेत् । एवमासयित्वा हस्तौ सम्पुटौ वा कारयेत् । भित्त्यूर्ध्वभागे १ माया- संह्लादिनीभ्यां कामिनीव्याजनीभ्यां २ तुम्बुरुनारदाभ्यां किन्नरमिथुनाभ्यां यक्षविद्याधराभ्यां सनकसनत्कुमाराभ्यां सूर्यचन्द्राभ्यां युक्तमुत्तमं ३ भोग- स्थानकम् ।

v3.c22.s3.12

तुम्बुरुनारदाभ्यां ४ यक्षविद्याधराभ्यां हीनं मध्यमम् ।

v3.c22.s3.13

सनकसनत्कुमाराभ्यामादित्यचन्द्राभ्यां पूजकमुनिभ्यां हीन- मधमम् ।

वीरस्थानकमूर्तिः ।

v3.c22.s3.t1.1

तृतीयं वीरस्थानकं देवं श्यामाभं ५ चतुर्भुजं ६ शङ्खचक्रधरं दक्षिणवामयोः ब्रह्देशाभ्यां भृगुपुण्याभ्यां किष्किन्धसुन्दराभ्यां ७ सनक सनत्कुमाराभ्यां ८ सूर्यचन्द्राभ्यां युक्तमुत्तमं वीरस्थानकम् ।

v3.c22.s3.t1.2

किष्किन्धसुन्दराभ्यां ९ सनकसनत्कुमाराभ्यां हीनं मध्यमं वीरस्थानकम् ।

v3.c22.s3.t1.3

आदित्यचन्द्राभ्यां पूजकमुनिभ्यां हीनमधमं वीरस्थानकम् ।

v3.c22.s3.t1.4

¹ अपरभित्त्यूर्ध्वति पाठान्तरम् ।

v3.c22.s3.t1.5

² व्याजकमुनिभ्यामिति पाठान्तरम् ।

v3.c22.s3.t1.6

³ मध्यममिति पाठान्तरम् ।

v3.c22.s3.t1.7

⁴ एतत्पदानन्तरमादर्शान्तरे ‘किन्नरमिथुनाभ्यां हीनमधम’मिति विद्यते ।

v3.c22.s3.t1.8

⁵ एतदादर्शान्तरे न ।

v3.c22.s3.t1.9

⁶ एतत्पदात्पूर्व ‘देव्या सह’ त्यादर्शान्तरे दृश्यते ।

v3.c22.s3.t1.10

⁷ सुन्दरीभ्यामिति पाठान्तरम् ।

v3.c22.s3.t1.11

⁸ एतत्पदात्पूर्वमादर्शान्तरे ‘व्याजकाभ्या’मित्यधिकं दृश्यते ।

v3.c22.s3.t1.12

⁹ सुन्दरीभ्यामिति पाठान्तरम् ।

आभिचारिकस्थानकमूर्तिः ।

v3.c22.s3.t2.1

चतुर्थमाभिचारिकस्थानकं देवं द्विभुजं चतुर्भुजं वा धूमवर्णं श्यामवस्त्रधरं शुष्कवक्त्रं शुष्काङ्गं तमोगुणान्वितमूर्ध्वनेत्रं१ ब्रह्मादिदेवैर्विवर्जितं पैशाचपद आर्द्रायुक्तनक्षत्रे शर्वर्यां चरराशौ स्थापितं विमानं च लक्षणहीनं वा कारयेत् ।

योगासनमूर्तिः ।

v3.c22.s3.t3.1

अथ योगासनं वक्ष्ये । देवेशं श्वेताभं पीतवाससं चतुर्भुजं जटामौलिं श्वेतपद्मे समासीनमूर्ध्वस्थित२दक्षिणपादमधस्त्वमपादमङ्कविन्यस्तवामकरं शङ्खचक्ररहितपरभुजं श्वेतवस्त्रोत्तरीयं सोपवीतं कुण्डलाङ्गदहाराद्याभरणभूषितमीषन्निमीलितलोचनं च भित्तिपार्श्वे दक्षिणे ब्रह्माणमुत्तरे शङ्करमूर्ध्वभागे चन्द्रादित्यौ सनकसनत्कुमारौ ३कौतुकादक्षिणवामभागयोर्भृगुमार्कण्डेयौ तथा महीमार्कण्डेयौ वा कारयेत्तदुत्तमं योगासनम् ।

v3.c22.s3.t3.2

४चन्द्रादित्याभ्यां सनकसनत्कुमाराभ्यां हीनं मध्यमम् ।

v3.c22.s3.t3.3

भृगुमार्कण्डेयाभ्यां हीनमधमम् ।

v3.c22.s3.t3.4

१. आदर्शान्तरे ऊर्ध्वनेत्रमित्यस्य स्थाने 'नेत्र' इति दृश्यते । २. ऊर्ध्वेत्यारभ्य परभुजमित्यन्तस्य स्थाने "दक्षिणे ऊर्ध्वमन्यमधस्थमेव ब्रह्मासनमासीनासायित्वाङ्के वामावामकरौ पल्लवौ विन्यस्य अन्यहस्तौ शङ्खचक्रौ विना नाकौ" इत्यादर्शान्तरे दृश्यते । ३. 'चक्रौ तु दक्षिणे' इति पाठान्तरम् । ४. 'भृगुमार्कण्डेयाभ्यां हीनं मध्यमम् । चन्द्रादित्याभ्यां हीनं सनकसनत्कुमाराभ्यां हीनमधमं योगासन'मिति पुस्तकान्तरे विद्यते ।

v3.c22.s3.t3.5

प्रतिमाल्लक्षणानि ।

भोगासनमूर्तिः ।

v3.c22.s3.t4.1

देवं सिंहासने समासीनं श्यामलाङ्गं चतुर्भुजं शङ्खचक्रधरम- भयवरददक्षिणहस्तकटिविन्यस्तसिंहकर्णवामहस्तं १प्रसारितदक्षिणपादं दक्षिणे श्रियं देवीं वामपादमाकुञ्च्य दक्षिणं प्रसार्य सिंहासने समा- सीनां स्वामपार्श्वे महीं देवीं दक्षिणं पादमाकुञ्च्य वामं प्रसार्य सिंहासन- समासीनामेतयोर्वामदक्षिणकरौ पद्मोत्पलधरावन्यहस्तौ सिंहासने निहितौ स्वोरुनिहितौ सिंहकर्णौ वा तद्विपरीतौ वा . . . . . दक्षिणो- त्तरयोर्ब्रह्मशङ्करौ तथासीनौ भृगुमार्कण्डेयौ चैकजानुकमेणासीना- वन्यत्सर्वं ३ योगासनवत्कुर्यात् । ४अपरभित्तिपार्श्वे मायासंह्लादिनीभ्यां तुम्बुरुनारदाभ्यां किन्नरमिथुनाभ्यां यक्षविद्याधराभ्यां सनकसनत्कुमा- राभ्यां सूर्यचन्द्राभ्यां ५देवद्रुमसमायुक्तमुत्तमं भोगासनम् ।

v3.c22.s3.t4.2

तुम्बुरुनारदाभ्यां किन्नरमिथुनाभ्यां यक्षविद्याधराभ्यां हीनं मध्यमम् ।

v3.c22.s3.t4.3

सनकसनत्कुमाराभ्यामादित्यचन्द्राभ्यां पूजकमुनिभ्यां हीनमधमं भोगासनम् ।

v3.c22.s3.t4.4

१. ‘पादेन्यस्ये’ति पाठान्तरम् । २. वामपार्श्व इत्यारभ्य समासी- नामित्यन्तं पुस्तकान्तरे न दृश्यते । ३. ‘अन्याभोगस्थानकव’दिति पाठान्तरम् ।
४. एतत्पदमादर्शान्तरे न । ५. ‘देवेन्द्रमौ च’ इति पाठान्तरम् ।

v3.c22.s3.t4.5

वीरासनमूर्तिः ।

v3.c22.s3.t4.6

१सिंहासनोपरिष्ठात्पद्मासने वामपादं समाकुञ्च्य दक्षिणं किञ्चि- त्प्रसार्य समासीनं चतुर्भुजं शङ्खचक्रधरमभयदक्षिणहस्तं सिंहकर्णवाम- हस्तं प्रवालाभं श्यामाम्बरधरं पूजकस्थाने दक्षिणे श्रीदेवीं वामे महीदेवीमेकजानुकमेणासयित्वा दक्षिणे ब्रह्माणं मार्कण्डेयं२ वामे शङ्करं भृगुं च गीर्वाण्यौ चामरधारिण्यौ च कारयेत् । सनकसनत्कुमाराभ्यां तुम्बुरुनारदाभ्यां सूर्यचन्द्राभ्यां सहितमुत्तमं वीरासनम् ।

v3.c22.s3.t4.7

३ तुम्बुरुनारदाभ्यां सनकसनत्कुमाराभ्यां कामिनी४व्याजनीभ्यां हीनं मध्यमम् ।

v3.c22.s3.t4.8

५ब्रह्मशङ्कराभ्यां सूर्यचन्द्राभ्यां पूजकस्थाने देवीभ्यां हीनमधमं वीरासनम् ।

v3.c22.s3.t4.9

आभिचारिकसनमूर्तिः ।

v3.c22.s3.t4.10

देवं६ वेदिकासने समासीनं द्विभुजं चतुर्भुजं वा नीलाभं श्याम- वस्त्रधरं तमोगुणान्वितमूर्ध्वाक्षं ७देव्यादीन्विना लक्षणहीने विमाने

v3.c22.s3.t4.11

१. सिंहासनेत्यारभ्य समासीनमित्यन्तमादर्शान्तरे न दृश्यते ।
२. मनुंचेति पाठान्तरम् । ३. एतत्पदात्पूर्व ब्रह्मशङ्कराभ्यामित्यधि- कमादर्शान्तरे दृश्यते ४. एतत्पदमादर्शान्तरे न । ५. एतत्पदमादर्शान्तरे न ।
६. ‘चतुर्थमाभिचारिकसनेनासीनं द्विभुज’मिति पाठान्तरम् । ७. ‘देवादि- देवानां विने’ति पाठान्तरम् ।

v3.c22.s3.t4.12

शत्रुदिङ्मुखे कृष्णाष्टम्यामार्द्राद्युक्तनक्षत्रे रात्रौ गर्भालये पैशाचपदे चरराशौ स्थापितमाभिचारिकसनम् ।

v3.c22.s3.t4.13

योगशयनमूर्तिः ।

v3.c22.s3.t4.14

अथ योगशय्याक्रमं वक्ष्ये । देवं द्विभुजमर्धशयनं पीतश्यामं १ दक्षिणहस्तमुपधाने न्यस्य मौल्यग्रं समुद्धृत्य सम्यक्प्रसार्य वान्यं समाकुञ्च्य तत्कोर्परमूर्ध्वं कृत्वा कटिमवलम्ब्याथवा तदूरौ प्रसार्य वा, पादं दक्षिणं प्रसार्य वाममाकुञ्च्य शयानं सर्वाभरणभूषितं किंचिदुन्मीलितलोचनं भृगुपुण्यार्चित२ पादपार्श्वे३ मधुकैटभसंयुक्तं च नाभ्यम्बुजमासीनं ब्रह्माणं पञ्चायुधान् गरुडं विष्वक्सेनं सप्तर्षींश्चापरभित्त्यूर्ध्वभागे प्राञ्जलीकृत्य स्थितान्दक्षिणभित्तिपार्श्वे ब्रह्माणं वामे शङ्करं च समासीनमेव कारयेत् । एतदुक्तं योगशयनम् ।

v3.c22.s3.t4.15

सप्तर्षीन्विष्वक्सेनं च विना मध्यमम् । पूजकमुनिभ्यां मधुकैटभाभ्यां विनाधमं विज्ञायते ।

v3.c22.s3.t4.16

१. दक्षिणेत्यारभ्य प्रसार्य वा पादमित्यन्तस्य स्थाने ‘दक्षिणे हस्तमुपधानेन न्यस्तमौलिसीमान्ते समुद्धृतसम्यक्प्रसारितमन्यहस्तं समाकुञ्चित-कोर्परमूर्ध्वं कृत्वा कटकाङ्गुलीययुतमथवा तदूरुप्रसारितपादमित्यादर्शान्तरे दृश्यते । २. पुभ्यासार्चितमिति पाठान्तरम् । ३. पादेत्यादर्शान्तरे न ।

भोगशयनमूर्तिः ।

v3.c22.s3.t5.1

द्वितीयं भोगशयनं देवेशं श्यामलाङ्गं दर्शनीयं१ सुपुष्टाङ्गं चतुर्भुजं २वार्थशयानं चापवद्वालं हस्तं दक्षिणमुपधाने निधाय मकुटमालम्ब्य किंचित्प्रसार्य वामं वामोरौ प्रसार्य दक्षिणं पादं प्रसार्य वामाकुञ्च्य शयानं कारयेत् । . . . . . शिरःपार्श्वे श्रियं देवीं देवस्कन्धबाहुस्पर्शां३ सपद्मदक्षिणहस्तां कटकवामहस्तां पादपार्श्वे४ महीदेवीं वामाङ्कसंस्पर्शां हस्तेन दक्षिणेनोत्पलधृतां वामहस्तं कटकं कौतुकादक्षिणे मार्कण्डेयं वामे भृगुं दक्षिणे भित्तिपार्श्वे चासीनं ब्रह्माणं वामे शङ्करं च दक्षिणे वक्रतुण्डं वामे विन्ध्यवासिनीं पादपार्श्वे मधुकैटभावुद्वेगसमन्वितौ समुद्रतरङ्गच्छादितानू अनन्तस्य विषज्वालाभिर्दह्यमानौ वा कारयेत् । नाभिपद्मे समासीनं ब्रह्माणं तदक्षिणे पञ्चायुधान् गरुडोपरिष्ठादक्षिणे भास्करमुत्तरे५ निशाकरं तथा बालरूपिणौ तुम्बुरुनारदौ दक्षिणे६ऽश्विनावष्टलोकपालांस्तथाप्सरसश्च कारयेत् । एतदुक्तमं भोगशयनम् ।

v3.c22.s3.t5.2

तुम्बुरुनारदाभ्यां७ लोकपालैश्च विना मध्यमम् ।
पूजकमुनिभ्याम्प्सरोभिश्च विनाधमम् ।

v3.c22.s3.t5.3

१. आदर्शान्तरे न । २. ‘वार्थार्धशायितं गात्रं चलवद्धस्त’मिति पाठान्तरम् । ३. देवस्य बाहुसंस्पर्शाभिति पाठान्तरम् । ४. पादपार्श्व इत्यारभ्य कटकमित्यन्तमादर्शान्तरे न । ५. दक्षिण इति पाठान्तरम् । ६. अदक्षिण इति पाठान्तरम् । ७. एतदनन्तरमश्विभ्यामित्यधिकमादर्शान्तरे दृश्यते ।

वीरशयनमूर्तिः ।

v3.c22.s3.t6.1

तृतीयं वीरशयनं देवं श्यामाभं चतुर्भुजं शङ्खचक्रधरं सव्यहस्तं शिरोपधानं कृत्वा वामहस्तं प्रसार्य शयानं पादपार्श्वे श्रीभूमिभ्यां पादमर्दकाभ्यां मधुकैटभाभ्यां संयुक्तं कौतुकादक्षिणे मार्कण्डेयं वामे भृगुं नाभिपद्मे समासीनं ब्रह्माणं पञ्चायुधान् गरुडं चन्द्रादित्यौ सप्तर्षीन् द्वादशादित्यानेकादशरुद्रान् जयाप्सरसस्तम्बुरुनारदौ किन्नरमिथुने१ सनकसनत्कुमारौ ब्रह्मेशौ२ च कारयेदिति । तदुत्तमं वीरशयनम् ।

v3.c22.s3.t6.2

रुद्रादित्यैरप्सरोभिर्मुनिभिश्च विना मध्यमम् ।

किन्नरमिथुनाभ्यां सनकसनत्कुमाराभ्यां पूजकमुनिभ्यां हीन-
मध्यमम् ।

आभिचारिकशयनमूर्तिः ।

v3.c22.s3.t7.1

शेषशयनं लक्षणहीनं३ द्विफ़णं द्विवलयमुन्नतं शिरःपार्श्वे, देवं नीलाभं द्विभुजं४ चतुर्भुजं वा समनयनं५ महानिद्रासमायुक्तं शुष्कवक्त्रं शुष्काङ्गं श्यामवस्त्रधरं सर्वदेवैर्विहीनं६ कारयेत् । एतदुत्तममाभिचारिकं शयनम् ।

v3.c22.s3.t7.2

¹ आदर्शान्तरे 'किन्नरमिथुने' इति न ।

v3.c22.s3.t7.3

² एतदादर्शान्तरे न ।

v3.c22.s3.t7.4

³ 'सलक्षण' मिति पाठान्तरम् ।

v3.c22.s3.t7.5

⁴ एतदादर्शान्तरे न ।

v3.c22.s3.t7.6

⁵ समगयनामिति पाठान्तरम् । समशयनमिति स्यात् ।

v3.c22.s3.t7.7

⁶ सर्वदेवानकविना चोत्तरमुखमाभिचारिकशयनमिति पाठान्तरम् ।

v3.c22.s3.t7.8

एकफणमेकवलयं¹ मध्यमम् । सर्पदेहं विना समस्थलशयनमधमम् । (वैखानसागमे ॥)

v3.c22.s3.t7.9

¹ शयनमिति पाठान्तरम् ।

दशावताराः ।

v3.c22.s4.1

I. PREFACE

v3.c22.s4.2

दशावताराः ।

v3.c22.s4.3

मत्स्यमूर्तिः । मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत् ।

v3.c22.s4.4

कूर्ममूर्तिः । कूर्मवतारिणं देवं कमठाकृतिमालिखेत् ॥ (शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.5

वराहः । आदिवराहं चतुर्भुजं सस्यश्यामनिभं¹ नागेन्द्र²- फणामणिस्थापितदक्षिणपादं तद्रौ महीं दधानं दक्षिणहस्तेन देव्योः पादौ गृह्न्तं वामहस्तेन तामुपगृह्न्तं मुखेन देवीं जिघ्रन्तं कृत्वा तां महीं प्राञ्जलीकृतहस्तां प्रसारितपादां पुष्पाम्बरधरां श्यामाभां किंचिदेवं

v3.c22.s4.6

¹ सन्ध्याश्यामनिभमिति पाठान्तरम् ।

v3.c22.s4.7

² नागेन्द्रत्यारभ्य कृत्वेत्यन्तस्य स्थाने 'पादं दक्षिणं सपत्नीकं नागेन्द्रस्य फणामणिस्थापितं वामकरस्थापि- कलामुत्कमणाय कुञ्चितविस्ताराभ्यां महीमादाय देवेशस्य आरूढाभ्यां द्वयो- स्संस्यस्य देवस्य हस्तेन दक्षिणे देव्याः पादौ गृहीत्वा तस्यापरभागे वामहस्तेन धारयन् देवस्य मुखेन देवीं जिघ्रन्तं वा कारयेत् ।' इत्यादर्शान्तरे दृश्यते ।

v3.c22.s4.8

समीक्ष्य व्रीडाहर्षेण संयुक्तां सर्वाभरणसंयुतां देवस्य स्तनान्तां वा पश्चातालेन मानेन कारयेत् । (वैखानसागमे षट्पञ्चाशपटले ॥)

v3.c22.s4.9

नृवराहं प्रवक्ष्यामि सूकरास्येन शोभितम् । गदापद्मधरं धात्रीं दंष्ट्रेण समुद्धृताम् ॥ बिभ्राणं कोर्परे वामे विस्मयोत्फुल्ललोचनाम् । नीलोत्पलधरां देवीमुपरिष्ठात्प्रकल्पयेत् ॥ दक्षिणं कटिसंस्थं च बाहुं तस्य प्रकल्पयेत् । कूर्मपृष्ठे पदं चैकमन्यन्नागेन्द्रमूर्धनि ॥ अथवा सूकराकारं महाकायं क्चिच्छिखेत् । तीक्ष्णदंष्ट्राग्रघोणास्यस्कन्धकर्णोर्ध्वरोमकम् ॥ (शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.10

नराङ्गो वाथ कर्तव्यो भूवराहो गदादिभृत् । दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्मेव वा ॥ श्रीर्वामकूर्परस्था तु क्ष्मानन्तौ चरणानगौ । वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ॥ (अग्निपु० ४९ अ० ॥)

v3.c22.s4.11

ऐश्वर्यसंनिरुद्धश्च वराहो भगवान् हरिः । ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः ॥ नृवराहोऽथवा कार्यश्शेषोपरिगतः प्रभुः । शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः ॥

v3.c22.s4.12

आश्रयात्फुल्लनयनो देववीक्षणतत्परः । कर्तव्यौ सीरमुसलौ करयोस्तस्य यादव ! ॥

v3.c22.s4.13

सर्पभोगश्च कर्तव्यस्तथैव रचिताञ्जलिः । आलीढस्थानसंस्थानस्तपृष्ठे भगवान्भवेत् ॥

v3.c22.s4.14

वामारत्निगता तस्य योषिद्रूपा वसुन्धरा । नमस्कारपरा तस्य कर्तव्या द्विभुजा शुभा ॥

v3.c22.s4.15

यस्मिन् भुजे धरा देवी तत्र शङ्करो भवेत् । अन्ये तस्य कराः कार्याः पद्मचक्रगदाधराः ॥

v3.c22.s4.16

हिरण्याक्षाशिरश्छेदचक्रोडुत्तकरोऽथवा । मृतोद्धतहिरण्याक्षसुमुखो भगवान्भवेत् ॥

v3.c22.s4.17

मूर्तिमन्र्तमनैश्वर्यं हिरण्याक्षं विदुर्बुधाः । ऐश्वर्येणाविनाशेन स निरस्तोऽरिमर्दनः ॥

v3.c22.s4.18

नृवराहोऽथवा कार्यो ध्याने कपिलवस्थितः । द्विभुजस्तथवा कार्यः पिण्डनिर्वपनोद्यतः ॥

v3.c22.s4.19

समग्रक्रोडरूपेण बहुदानवमध्यगः । नृवराहो वराहश्च कर्तव्यः क्षमाविदारणः ॥

v3.c22.s4.20

(विष्णुधर्मोत्तरे ॥)

v3.c22.s4.21

मत्स्यकूर्मौ स्वस्वरूपौ नृवराहो गदाम्बुजे । बिभ्रच्छ्यामो वराहास्यो दंष्ट्राग्रेणोद्धतां धराम् ॥

प्रलयवराहः ।

v3.c22.s4.t1.1

वक्ष्ये प्रलयवराहं वामपादं समाकुञ्च्य दक्षिणं प्रसार्य सिंहासने समासीनं नीलाभं¹ शङ्खचक्रधरमभयदक्षिणहस्तमूरुप्रतिष्ठितवामहस्तं पीताम्बरधरं सर्वाभरणभूषितं कारयित्वा तस्य दक्षिणे देवीं महीं पादं वाममाकुञ्च्य दक्षिणं प्रसार्यासीनां श्यामाभां सर्वाभरणभूषितामुत्पलधरवामकरामासननिहितदक्षिणकरां किंचिद्देवं समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत् ।

v3.c22.s4.t1.2

¹ नीलाभमित्यारभ्य प्रसार्यासीनामित्यन्तमादर्शान्तरे नास्ति ।

यज्ञवराहः ।

v3.c22.s4.t2.1

अथ यज्ञवराहं श्वेताभं चतुर्भुजं शङ्खचक्रधरं वामपादं समाकुञ्च्य दक्षिणं प्रसार्य सिंहासने समासीनं पीताम्बरधरं सर्वाभरणभूषितं कारयित्वा तस्य दक्षिणे देवीं श्रियं हेमाभां वामपादं समाकुञ्च्य दक्षिणं प्रसार्यासीनां पद्मधरवामहस्तामासने निहितदक्षिणहस्तां वामपार्श्वे महीं देवीं सस्यश्यामनिभां दक्षिणपादमाकुञ्च्य वामं प्रसार्यासीनामुत्पलधरदक्षिणहस्तामासने निहितवामहस्तां देवं किंचित्समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत् । त्रयाणां वराहाणां तत्तद्रूपं कौतुकबिम्बं विष्णुं चतुर्भुजं वा कारयेत् ।

नरसिंहः ।

v3.c22.s4.t3.1

नारसिंहो द्विविधो गिरिजस्थूण²जश्चेति । तयोर्मुखं सिंहस्येवान्यन्नराकारं तस्य मूर्धादिपादतलान्तं सविंशतिशताङ्गुलं...........

v3.c22.s4.t3.2

² स्थूणाज इति भवितव्यम् ।

v3.c22.s4.t3.3

प्रतिमालक्षणानि । . . . . . नारासिंहं देवं सिंहासने पादं दक्षिणं प्रसार्य वाममाकुञ्च्य समासीनं चतुर्भुजं शङ्खचक्रधरं कुन्देन्दुधवलप्रभं रक्तवस्त्रधरं सर्वाभरणभूषितं करण्डिकामकुटयुतं पूर्वं दक्षिणकरमभयं दधानं वामं कट्यवलम्बितमूरुस्थं वा कारयेत् । तद्दक्षिणे श्रियं देवीं वामपादमाकुञ्च्य दक्षिणं प्रसार्यासीनां पद्मधरवामहस्तामासने निहितदक्षिणहस्तां सुवर्णाभां सर्वाभरणभूषितां वामपार्श्वे महीं देवीं दक्षिणं पादमाकुञ्च्य वामं प्रसार्यासीनामुत्पलधरदक्षिणहस्तामासने निहितवामहस्तां श्यामाभां सर्वाभरणभूषितां कारयेत् । अथवा सिंहासनस्योर्ध्वे वामं पादं प्रसार्यान्यमाकुञ्च्य तज्जानूर्ध्वे दक्षिणहस्तं गजहस्तत्वप्रसार्य वाममूरौ संन्यस्यासीनं शङ्खचक्रधरं देवीभ्यां सहितं कारयेत् ।

v3.c22.s4.t3.4

केवलनरसिंहः ।

v3.c22.s4.t3.5

केवलं नृसिंहदेवं पद्मपीठपरिषाद् द्वौ पादौ व्यत्ययेन न्यस्योत्कुटिकासनेनासयित्वोरुमध्ये वस्त्रेणाबध्य सर्वाभरणसंयुक्तं चतुर्भुजं शङ्खचक्रधरमन्यहस्तौ जानूपरिष्ठात्प्रसारितौ१ च कारयेत् ।

v3.c22.s4.t3.6

(वैखानसागमे ॥)

v3.c22.s4.t3.7

आसीनं द्विभुजं देवं प्रमत्तवदनेक्षणम् ।
श्वेतस्फटिकसङ्काशं चतुर्बाह्मथापि वा ॥

v3.c22.s4.t3.8

१. प्रसारितवियुक्तं वा संस्थापयेदिति पुस्तकान्तरे दृश्यते ।

v3.c22.s4.t3.9

आजानुलम्बिनौ बाहू कर्तव्यौ तत्र दक्षिणे । समीपे कल्पयेच्चक्रं वामे शङ्खं समीपतः ॥ ऊर्ध्वस्थिताभ्यां बाहुभ्यां दक्षिणे पङ्कजं न्यसेत् । वामे बाहौ गदामाम्यां१ लिखेच्चित्रविशारदः ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद्ग्रन्थे ॥)

v3.c22.s4.t3.10

स्थौणनारसिंहः ।

v3.c22.s4.t3.11

अथ २स्थूणनारसिंहं सोपाधानासिंहासने३ वामपादमाकुञ्च्यान्यं प्रसार्य समासीनं चतुर्भुजं शङ्खचक्रधरमभयक४दानदक्षिणहस्तमूरुप्रतिष्ठितवामहस्तं ५सटास्कन्धसंयुक्तं तीक्ष्णदंष्ट्रेक्षणं भयानकं६ श्वेताभं रक्ताम्बरधरं सर्वाभरणसंयुक्तं कारयेत्७ । तस्य कोपशान्त्यर्थं पार्श्वयोर्दक्षिणवामयोः श्रीमहौ प्रह्लादं वन्दमानं च कारयेत् । दक्षिणे नारदं वीणाहस्तं भित्तिपार्श्वे परितः प्रागाद्येशानान्तमिन्द्रादिलोकपालान्वन्दमानांश्च कारयेत् । (वैखानसागमे ॥)

v3.c22.s4.t3.12

१. ‘गदां रम्या’मिति किमु स्यात् ? २. स्थौणेति स्यात् । ३. सोपान इति पाठान्तरम् । ४. दक्षिणं पूर्वमभयमिति पाठान्तरम् । ५. एतदादर्शान्तरे नास्ति । ६. ‘भयानकं चेद्वीमं रक्ताम्बरधर’मित्यादर्शान्तरे दृश्यते । ७. एतद्वाक्यादनन्तर ‘मथवा षोडशादशहस्तैर्युक्तं विभाग स्थितं वामोरौ सुरेन्द्रं विन्यस्योरसि हस्ताभ्यां नखैर्भेदयित्वा दक्षिणभागे चैकैकाभयप्रदानमेकेन श्रोलाङ्गुलीय विन्यस्यासं वामे चैकेन मकुटग्रहणमेकेन मुष्टिप्रहरणमन्यैर्दमनं वाशीघ्रां सतीत्येवमतिभयानकं कृत्वा’ इत्याधिकमादर्शान्तरे विद्यते ।

v3.c22.s4.t3.13

नृसिंहस्याकृतिं वक्ष्ये रौद्रपिङ्गमुखेक्षणाम् । भुजाष्टकसमायुक्तां १स्कन्धपीनसमाश्रिताम् ॥

v3.c22.s4.t3.14

हिरण्यकशिपुं दैत्यं दारयन्तीं नखाङ्कुरैः । ऊरोरुपरि पीनस्य खड्गखेटधारिणम् ॥

v3.c22.s4.t3.15

तस्यान्त्रमाला निष्कृल्य२ बाहुयुग्मेन बिभ्रतीम् । मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजौ ॥

v3.c22.s4.t3.16

कौमोदकीं गदां शङ्खं बाहुभ्यामिति वामतः । नीलोत्पलवदच्छायां३ किं वा चम्पकसप्रभाम् ॥

v3.c22.s4.t3.17

तप्तकाञ्चनसङ्काशां बालार्कसदृशीं लिखेत् ।

v3.c22.s4.t3.18

(शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.t3.19

नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः । तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ॥

v3.c22.s4.t3.20

(अग्निपु० ४९ अ० ॥)

v3.c22.s4.t3.21

य एवं भगवान्विष्णुर्नृसिंहवपुर्धरः । ध्यानविधिस एवोक्तः परमज्ञानवर्धनः ॥

v3.c22.s4.t3.22

पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः । सिंहाननो नृदेहश्च नीलवासाः समन्वितः ॥

v3.c22.s4.t3.23

१. पीनस्कन्धेति स्यात् । २. निष्कृष्येति भवितव्यम् । ३. दलेति स्यात् ।

v3.c22.s4.t3.24

आलीढस्थानसंस्थानस्सर्वाभरणभूषितः । ज्वालामालाकुलमुखो ज्वालाकेसरमण्डलः ॥ हिरण्यकशिपोरक्षः पाटयन्नखरैः खरैः । नीलोत्पलाभः कर्तव्यो देवजानुगतस्तथा ॥ हिरण्यकशिपुदैत्यस्तमज्ञानं विदुर्बुधाः । (विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t3.25

नृसिंहस्सिंहवक्त्रोऽतिदंष्ट्रालः कुटिलोरुकः । हिरण्योरस्थलसक्तविदारणकरद्वयः ॥ (रूपमण्डने ॥)

v3.c22.s4.t3.26

यानकनरसिंहः ।

v3.c22.s4.t3.27

अथ यानकनरसिंहं वीशस्कन्धोपरिष्ठाच्छेपोत्सङ्गे समासीनं तत्फणैः पञ्चभिः [छ*] नमौलिं चतुर्भुजं शङ्खचक्रधरं सर्वाभरणभूषितं कारयेत् । अथवाष्टाभिर्द्वाभिरर्वा भुजैर्युक्तं भयानकं दैत्यवधानुरूपं नृसिंहं स्थूणजं कारयेत् । (वैखानसागमे ॥)

v3.c22.s4.t3.28

वामनः ।

First 200 of 1,118 passages. Read on

Linked texts (9)