Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c67: पञ्चमः खण्डः
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c67
- Language
- English
पञ्चमः खण्डः
v1.c67.1
प्रासाद-वास्तु
v1.c67.2
प्रासाद-लक्षणम्—सामान्यम्—
v1.c67.3
| लोक-व्यवहारः | देवादीनां नराणां च येषु रम्यतया चिरम्। |
| शिल्प० १६-१ | मनांसि च प्रसीदन्ति प्रासादास्तेन कीर्तिताः॥ |
| शास्त्रीयार्थश्च | प्रासादं यच्छिवशक्त्यात्मकं तच्छक्त्यन्तैः। |
| ईशा० ३.१२-१६ | स्याद्वसुधायैस्तु तत्त्वैः॥ |
| | शैवीः मूर्तिः खलु देवालयाख्ये— |
| | त्यस्माद् ध्येया प्रथमं चाभिपूज्या॥ |
| प्रासाद-प्रयोजनम् | कृत्वा प्रभूतं सलिलमारामान्विनिवेश्य च। |
| बृ० सं० | देवायतनं कुर्याद्यशोधर्माभिवृद्धये॥ |
| | इष्टापूर्तेन लभ्यन्ते ये लोकास्तान् बुभूषता। |
| | देवानामालयः कार्यो द्वयमप्यत्र दृश्यते॥ |
v1.c67.4
प्रासादोत्पत्तौ—प्रासादस्य आध्यात्मिकायां प्रतिकृतौ
v1.c67.5
(अ) प्रासादः पुरुषमूर्तिः (ब) प्रासादो भगवती मूर्तिः—
v1.c67.6
टि०— तत्र प्रतिपादित-ग्रन्थ भागे (४०१-४ पृष्ठेषु) अवलोकनीयं भवेत्।
v1.c67.7
प्रासादस्य भौतिकप्रतिकृतौ च।
v1.c67.8
(अ) वैदिकी चितिः (ब) वैदिक-सद-संस्थाः (स) पाषाण-पट्टिकाः (य) अवैदिक-देव-गृहाः (स) पर्वताकृतयः (य) गुहा-निवासाश्च
v1.c67.9
टि०— तत्र प्रतिपादित-ग्रन्थ-भागे (४०६-१४ पृष्ठेषु) प्रतिपाद्यामानाः सन्ति न तेषां लक्षणानि वास्तु-ग्रन्थेषु उपलभ्यन्ते अत उपश्लोक्यमानैः तैः प्रीयन्ताम्।
v1.c67.10
प्रासादाः विमान-मूलाः
v1.c67.11
| स० सू० ४६. २-८ | पुरा ब्रह्मासृजत् पञ्च विमानान्यसुरद्विपाम्। |
| | वियद्वर्त्मविचारीणि श्रीमन्ति च महन्ति च॥ |
v1.c67.12
तानि वैराजकैलासे पुष्पकं मणिकाभिधम् ।
हैमानि मणिवित्राणि पञ्चमं च त्रिविष्टपम् ॥
आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः ।
सुरेशिने च विश्वेशो विमानानि यथाक्रमम् ॥
बहून्यन्यानि चैवं स सूर्यादीनामकल्पयत् ।
विशेशाय यथोक्तैस्तान्याकारै प्रतिदैवतम् ॥
प्रासादांश्च तदाकारान् शिलापक्केष्टकादिभिः ।
नगराणामलङ्कारहेतवे समकल्पयत् ॥
वैराजं चतुरश्रं स्याद् वृत्तं कैलाससंज्ञितम् ।
चतुरश्रायताकारं विमानं पुष्पकं भवेत् ॥
वृत्तायतं च मणिकमष्टाश्रि स्यात् त्रिविष्टपम् ।
तद्भेदान् श्रीमतोऽन्यांश्च विविधानासृजत् प्रभुः ॥
v1.c67.13
कीर्त्तितानि विमानानि यान्येव सुरवर्त्मनि ॥
तान्येव स्थावरत्वेन प्रासादा इति विश्रुताः ॥
v1.c67.14
अथातः सम्प्रवक्ष्यामि प्रासादान् शिखरान्वितान् ।
रुचकादींश्चतुःषष्टिं नामलक्षणतः क्रमात् ॥
पूर्वं यानि विमानानि पञ्चोक्तान्यभवंस्ततः ।
तदाकारभृतः सर्वे प्रासादाः पञ्चविंशतिः ॥
शिखरैर्विविधाकारैरेकेनाण्डेन भूषिताः ।
केचिदण्डत्रयोपेताः केचित् पञ्चाण्डकान्विताः ॥
ईषद्भेदेन ते ज्ञेयाः प्रासादाः सर्व्वकामदाः ।
सौवर्णा राजताश्चैव देवानां सततं प्रियाः ॥
मणिमुक्ताप्रवालाद्यैर्भूषणैः सुविभूषिताः ।
रीतिकाताम्रघोषाद्यैः पिशाचोरगरक्षसाम् ॥
देवलोका भवन्त्येते कामस्वच्छन्दचारिणः ।
पाताले चापि निर्दिष्टाः पाषाणैः स्फाटिकैस्तथा ॥
इष्टकाकाष्ठपाषाणैर्मर्त्यलोकेऽपि नन्दकाः ।
सुखदाश्च भवन्त्येते कर्तुः कारयितुस्तथा ॥
लक्षणेनान्वितानेतान कथयामो यथाविधि ।
पुराणां भूषणार्थाय भुक्तिमुक्तिप्रदा नृणाम् ॥
v1.c67.15
विमानमथ वक्ष्यामः प्रासादं शम्भुवल्लभम् ।
स्वर्गपातालमर्त्यानां त्रयाणामपि भूषणम् ॥
सर्वेषां गृहवास्तूनां प्रसादानां च सर्वतः ।
प्रासादो मूलभूतोऽयं तथाच परिकर्मणाम् ॥
v1.c67.16
तेषु वैराज-भेदाः चतुरश्राः ब्राह्म-प्रासादाः
v1.c67.17
रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः ।
भद्रः श्रीकूट उष्णीषः शालाक्षो गजयूथपः ॥
नन्द्यावर्तोऽवतंसाह्वः स्वस्तिकः क्षितिभूषणः ।
भूजयो विजयो नन्दी श्रीतरुः प्रमदाप्रियः ॥
व्यामिश्रो हस्तिजातीयः कुबेरो वसुधाधरः ।
सर्वभद्रो विमानाख्यो मुक्तकोणश्च नामतः ॥
चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः ।
v1.c67.18
कैलास-भेदाः १० वृत्ताः शैव-प्रासादाः
v1.c67.19
वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि ।
वलयो दुन्दुभिः प्रान्तः पद्मः कान्तश्चतुर्मुखः ॥
माण्डूकाख्योऽथ कूर्मश्च तालीगृह उलूषिकः ।
इति वृत्ताः समासेन प्रासादा दश कीर्तिताः ॥
v1.c67.20
पुष्पक-प्रमेदाः चतुरश्रायताः १० कौबेर-प्रासादाः
v1.c67.21
चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि नामतः ।
भवो विशालः साम्मुख्यः प्रभवः शिबिराग्रहः ॥
मुखशालो द्विशालश्च गृहराजोऽमलो विभुः ।
एवमते समुद्दिष्टारंश्च तुरश्रायता दश ॥
v1.c67.22
मणिक-प्रमेदाः वृत्तायताः १० वारुण-प्रासादाः
v1.c67.23
अथ वृत्तायतान् ब्रूमः प्रासादानभिधानतः ।
आमोदो रैतिकस्तुङ्गश्चारुभूतिर्निषेवकः ॥
सदा-निषेधः सिंहाख्यः सुप्रभो लोचनोत्सवः ।
एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश ॥
v1.c67.24
त्रिविष्टप-प्रभेदाः अष्टाश्राः १० वैष्णव-प्रासादाः
v1.c67.25
अष्टाश्रीणां च नामानि कथयामि समासतः
वज्रको नन्दनः शङ्कुर्मेखलो वामनो लयः ॥
महापद्मश्च हंसश्च व्योमचन्द्रोदयाविति ।
अष्टाश्रय इमे प्रोक्ताः प्रासादा दशसंख्यया ।
भवन्त्येवं चतुष्षष्टिर्लक्ष्मैषामधुनोच्यते ।
v1.c67.26
तेषु एकस्य स्वस्तिकस्य लक्षणं यथा—
v1.c67.27
स्वस्तिकः प्रोच्ययेऽधुना ।
चतुरश्रीकृते क्षेत्रे पङ्भागप्रविभाजिते ॥
प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम् ।
द्वारपाशोऽस्य भागार्धविस्तृतो भागिकोदयः ॥
v1.c67.28
गर्भवेश्म चतुःस्तम्भमलिन्दो भागिको बहिः।
तस्य स्युर्द्वादश स्तम्भा भागिकोऽलिन्दकोऽपरः ॥
विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः ।
चयावृतश्च पुरतो भागो वाष्टधरान्वितः ॥
भागमेकैकमुत्सृज्य कर्णाभ्यां भागविस्तृतौ ।
भागिकोच्छ्रायनिष्कासौ कार्यों प्राग्ग्रीवकौ पुनः ॥
बाह्यतो भित्तिसंश्लिष्टौ त्रिदिशं सगवाक्षकौ ।
स्वस्तिकोऽयं समाख्यातः प्रासादश्चित्रलक्षणः ॥
v1.c67.29
शिखरोत्तमाः
v1.c67.30
प्रथमो रुचकस्तेषु द्वितीयो वर्धमानकः ।
अवतंसस्तृतीयस्तु चतुर्थों भद्र उच्यते ॥
पञ्चमः सर्वतोभद्रः षष्ठः स्यान्मुक्तकोणकः ।
मेरुमन्दर इत्यष्टौ विज्ञेयाः शिखरोत्तमाः ॥
v1.c67.31
भूमिकायुकाः
v1.c67.32
तत्र द्राविडप्रासादेषु विलोकनीयाः
v1.c67.33
प्रासादरचनायां शिखरादिविरचनाः
v1.c67.34
अतिस्थूला सुविस्तीर्णा प्रासादाधारिणी शिला ।
अतीव सुदृढा कार्या इष्टकाचूर्णवारिभिः ॥
शिलोपरि भवेद्विट्टमेकहस्ते युगाङ्गुलम् ।
अर्द्धाङ्गुला भवेद् वृद्धियावद्वस्तशतार्द्धकम् ॥
अङ्गुलेनांशहीनेन अर्द्धनार्धेन च क्रमात् ।
पञ्च-दिक्-विंशतिर्यावच्छतार्धं च विवर्धयेत् ॥
एक-द्वि-त्रीणि भिट्टानि हीनहीनाति (नि ?) कारयेत् ।
स्व-स्वोदयप्रमाणस्य चतुर्थांशेन निर्गमः ॥
v1.c67.35
[श्रीः] पीठमर्धं त्रिपादांशैरेकद्वित्रिकरे गृहे ।
चतुर्हस्ते त्रिभार्थांशं पादांशं पञ्चहस्तके ॥
दश-विशंति-षट्त्रिंशत्-शतार्धं हस्तकावधिः ।
वृद्धिवेंदत्रियुग्मैक्संख्या स्यादङ्गुलैः क्रमात् ॥
पञ्चाशहीन (?) माधिक्यमेकैकं तु त्रिधा पुनः ।
त्रिपञ्चाशत् समुत्सेधे द्वाविंशत्यंशनिर्गमे ॥
नवांशो याव्यकुम्भश्च सप्तांशं कणकं भवेत् ।
सान्तरं सकपोतालिः सप्तांशा ग्रासपट्टिकाः ॥
सूर्य-दिग्-वसुभागैश्च गजवाजिनराः क्रमात् ।
वाजिस्थानेऽथवा कार्यं स्वं स्वं देवस्य वाहनम् ॥
v1.c67.36
पञ्चांशा कर्णिकाग्रे तु निर्गमो जाड्यकुम्भकम् ।
त्रिसाद्धै कर्णकं सार्धं चतुर्भिर्ग्रासपट्टिका ॥
कुञ्जराश्च नरा वेदा रामयुग्मं च निर्गमः ।
अन्तरालमधस्तेषामूर्ध्वाधः कर्णयुग्मकम् ॥
गजपीठं विना स्वल्पद्रव्ये पुण्यं महत्तरम् ।
जाड्यकुम्भः कर्णाली च ग्रासपट्टी तदा भवेत् ॥
कामदं कर्णपीठं च जाड्यकुम्भः कर्णालिका ।
ललिने निर्गमे हीने साधारे निर्गमाधिकम् ॥
सर्वेषां पीठमाधारः पीठहीनं निराश्रयम् ।
पीठहीनं विनाशाय प्रासादभुवनादिकम् ॥
हस्तादिपञ्चपर्यन्तं विस्तरेणोदयः समः ।
स क्रमान्नव सत्येपुरामचन्द्रोऽङ्गुलाधिकः ॥
पञ्चादिदशपर्यन्तं त्रिंशद्यावच्छूतार्धकम् ।
हस्ते हस्ते क्रमाद्वृद्धिः मनुसूर्यनवाङ्गुला ॥
एकहस्तादिपञ्चान्तं पृथुत्वेनोदयः समाः (मः ?) ।
हस्ते सूर्याङ्गुला वृद्धियार्वत् त्रिंशतकरावधि ॥
नवाङ्गुला करे वृद्धियार्वद्धस्तशतार्धकम् ।
पीठोर्द्धे उदयश्चैवं च्छाद्य (१?)न्ते नागरादिकम् ॥
एकविंशत् (?) पञ्चशते प्रासादस्य समुच्छूयः ।
पञ्चादिनवभागान्तं पीठस्य पञ्चधोदयः ॥
वेदवेदेन्दुभक्ते तु च्छाद्यान्ते (?) पीठमस्तकात् ।
खुरकः पञ्चभागं स्याद्विशती कुम्भकस्तथा ॥
कलशोऽष्टौ द्विसार्धं तु कर्त्तव्यं मन्तरालकम् ।
कपोतिकाष्टौ मञ्ची स्यात् कर्त्तव्या नवभागिका ॥
पञ्चत्रिंशतपदा जङ्घा तिध्यंशैरूद्गमो भवेत् ।
वसुभिर्भरणी कार्या शिरापट्टी दशांशिका ॥
अष्टांशार्धा कपोतालि (:?) द्विसार्धं मन्तरालकम् ।
च्छाद्यं त्रयोदशांशोच्चं दशभागैर्विनिर्गमः ॥
सपादं शिखरं कार्यं सकर्णं शिखरोदयम् ।
सपादकर्णयोर्मध्ये रेखाःस्युः पञ्चविंशतिः ॥
प्रोक्ता रेखा (:?) कलाभेदैर्वलनैः पञ्चविंशतिः ।
पञ्चादिनवयुग्मान्तं खण्डानि तेष्वनुक्रमात् ॥
अंशवृद्धया कलाः कार्या दैर्ये स्कन्धेऽपि तत्समा (:?) ।
अष्टादावसुपञ्चान्तं चतुर्वृद्धया तु पोडशम् ।
दैर्घ्यतुल्याः कलाः स्कन्धे एकहीनास्तु षोड़श ॥
v1.c67.37
ऊर्ध्वा अष्टादशांशा (!?) स्युस्तिर्यक् षोडश एव च ।
चक्रेऽस्मिन् सम्भवत्येव रेखाणां षट् शतद्वयम् ॥
त्रिखण्डात् खण्डवृद्धिश्च यावदष्टादशैव हि।
एकैकांशे कलाष्टौ च समाार्चायस्य षोड़श ॥
द्वितीयप्रथमे खण्डे कलाष्टौ द्वितये नव।
तृतीये दशखण्डेषु शेषेषूर्ध्वंन्वयं क्रमात् ॥
अष्टदिक् सूर्यभागैश्च त्रिखण्डात्रि (तृ?)तीया भवेत् ।
अनेन क्रमयोगेन कोष्ठानङ्कैः प्रपूरयेत् ॥
रेखाणां जायते संख्या षट्पञ्चाशच्छतद्वयम् ॥
दैर्घ्यं भवति यावत्यः कला (:?) स्कन्धेऽपि तत्समा ।
सव्यासं शिखरं कार्यं सकर्णं शिखि(ख?)रोदयम् ॥
व्यासस्य कर्णयोर्मध्ये रेखाः स्युः पञ्चविंशतिः ।
विंशद्भिर्विभजेद् भागैः शिलान्तः फलाशान्तकम् ॥
मण्डोवरोऽष्टसार्धाष्टनवांशै (:?) शिखरोदयम् ।
रेखामूलस्य विस्तारे पद्मकोशं समालिखेत ॥
चतुर्गुणेन सूत्रेण सपादः शिखरोदयः ॥
स्कन्धकोशान्तरे सप्त भक्ते ग्रीवा तु भारतः।
सार्धमामलसारञ्च पद्मपत्रन्तु सार्धकम् ॥
v1.c67.38
त्रिभाग उच्चकलशो द्विभागं तस्य विसरम (?) ।
प्रासादस्याष्टमांशेन पृथुत्वं कलशान्तकम् ॥
च्छाद्यंतः स्कन्धपर्यन्तं एकविंशतिभाजिते ।
अङ्ग-दिक्-रुद्र-सूर्य्यांशैर्विंशांशैस्तस्य चोच्छ्रयः ॥
शुकनासस्य संस्थानं च्छाद्योर्ध्वे पञ्चधा मतम् ।
एक-त्रि-पञ्च-सप्ताङ्गसिंहस्थानानि कल्पयेत् ॥
द्वारस्य दक्षिणे वामे कपिलि(:?) षड्विधा मता ।
तदूर्ध्वे शुकनासा स्यात् सैव प्रासादनासिका ॥
प्रासादो दशभागश्च द्वित्रिवेशांशसम्मितः।
प्रासादेनार्धपादेन त्रिभागेनाथ निर्मिता ॥
शृङ्गोरुशृङ्गप्रत्यङ्गैः खण्डकान् गणयेत् सुधीः।
तवङ्गं तिलकं कर्णं कुर्यात् प्रासादभूषणम् ॥
दशांशे शिखरे मूले अग्र (?) तन्न नवांशकैः।
सार्धांशकौ रथौ कोणौ द्वौ शेषं भद्रमिष्यते ॥
रथयोरुभयोर्मध्ये वृत्तमामलंसारकम् ।
उत्सेधो विस्तरार्धेन चतुर्भागैर्विभाजयेत् ॥
ग्रीवा चामलंसारंश्च पादोनञ्च सपादकम्।
v1.c67.39
@H स० सू०
v1.c67.40
अलिन्दे मण्डपे वापि चतुष्के वलभीषु वा ।
वितानानि विचित्राणि समुत्क्षिप्ततलानि च ॥
लक्षणेन च युक्तानि विदधीत यथोचितम् ।
लुमाः फलकवर्तीभिः कृताः समभिदध्महे ॥
उत्क्षिप्तानां च ये भेदा जायन्ते सर्ववास्तुषु ।
तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥
आध्माता चेति सप्तैता नामतः कथिता लुमाः ॥
v1.c67.41
@H वितानानि
@H स० सू०
@H ५४. ४३-४९
एताभिः कारयेत् कोलं वितानं नयनोत्सवम् ।
कोलाविलं हस्तित्तालु चाष्टपत्रं शरावकम् ॥
नागवीथीवितानं च पुष्पकं भ्रमरावली ॥
हंसपक्षं करालं च विकटं शंखकुट्टिमम् ।
शंखनाभिः सपुष्पं च शुक्ति (वृ?वृं) चक्रमैव च ॥
मन्दारं कुमुदं पद्मं विकासं गरुडप्रभम् ।
पुराहतं पुरारोहं विद्युन्मन्दारकं तथा ॥
एतान्येवं वितानानि सङ्ख्यया पञ्चविंशतिः ॥
v1.c67.42
@H छाद्योदयाः
@H ५४. ७४-५
आतपत्रोऽथ कौवेरः शमनाख्यस्तथावली ।
हंसपृष्ठो महाभोगी नारदः शम्बुकस्तथा ॥
वामनः प्रथमस्तेषामावन्त्येन दशोत्यमी ॥
v1.c67.43
@H वृत्ताश्च
@H ५४. ७७
कुवेशेखरीचन्द्री नागश्चाथ गणाधिपः ।
मुख्यश्छाद्यः सुभद्रश्च वृत्ते सहोदयाः स्मृताः ॥
v1.c67.44
@H सिंहकर्णम्
@H स० सू०
इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम् ॥
त्रिवलीवलितो नाम सिंहकर्णोऽथमीरितः ॥
चतुर्दशांशविस्तीर्णौ कर्णौ सार्धै वलिर्भवेत् ॥
क्षेत्र एकत्रलिर्नाम सिंहकर्णस्तथाऽपरः ॥
v1.c67.45
@H पत्रजातयः
@H ५५. १५७-६०
कूटाकारैर्विचित्रैश्च शोभनै रूपकर्मभिः ॥
पत्रजातैरनेकेश्च कण्ठं कुर्याद् यथेप्सितम् ।
पाचकः कटुतीक्ष्णाद्यैरनुसाररसैर्यथा ॥
अन्वीच्यः विपचेत् तद्वत् स्थपतिः सर्वमाचरेत् ।
यदुक्तं यदनुक्तं च तत् समग्रमपि स्फुटम् ॥
(युक्ता) युक्त समालोच्य यथाशोभं समाचरेत् ॥
v1.c67.46
@H स्तम्भचित्राणि
@H ५७. ४२६-३६
स्तम्भैर्विविधविन्यासैर्बहुभङ्गविनिर्मितैः ॥
भूपितैः कर्मभिश्चित्रैः सर्वत्र शुभलक्षणैः ।
चन्द्रशालादिसंयुक्तैस्तोरणैश्चारुचामरैः ॥
तथाक्षत्तमुखग्रासैर्वनरूपतया स्थितैः ।
व्यालैर्व्यालोलजिह्वैश्च मकरग्राससंयुतैः ॥
v1.c67.47
मदाम्धालिकुलाकीर्णगजवक्त्रविभूषितैः ।
विद्याधरवधूवृन्दैः क्रीडारम्भविभूषितैः ॥
सुराणां सुन्दरीभिश्च वीणाहस्तैश्च किन्नरैः ।
सिद्धगन्धर्वयक्षाणां वृन्दैश्च परितः स्थितैः ॥
अप्सरोभिश्च दिव्याभिर्विमानावल्भिस्तथा ।
चारुचामीकरान्दोला क्रीडासक्तैश्च (निःसराम?) ॥
नागकन्याकदम्बैश्च सर्वतः समलङ्कृतम् ।
एवंविधाभिः सर्वत्र भूमिरभिरन्तरम् ॥
अलङ्कृतो विधातव्यो मेरुः प्रासादनायकः ॥
v1.c67.48
प्रासाद-संस्तवनायाम्—
v1.c67.49
प्रासादानां चतुःषष्टिरीदानीमभिधीयते ।
या पूर्वं ब्रह्मणा दत्ता (प्र?प्रा) सादा विश्वकर्मणे ॥
मर्मवेधस्थिता वास्तुदेवाः पूज्या यथोचितम् ।
पूज्यता च स्मृतां तेषा प्रासादे मण्डपे ध्वजे ॥
आसने वाहने तद्वत् सर्वोपकरणेष्वपि ।
प्रासादे यादृश (श्छन्दस्तादृङ्मन्दपीठयोः?) ॥
तथा वास्तुविरुद्धं स्यात् प्रासादाङ्गे हिते (?) विदुः ।
अष्टावष्टौ स्मृतास्तेषु त्रिदशानां पृथक् पृथक् ॥
शम्भो (र्हरे) विरिञ्चस्य ग्रहाणाम (धिपस्य च) ।
चण्डिकाया गणेशस्य श्रियाः सर्वदिवौकसाम् ॥
विमानः सर्वतोभद्रो गजपृष्ठोऽथ ऋमकः ।
वृषभो मुक्तकोणश्च नलिनो द्राविडस्तथा ॥
इत्येतेऽष्टौ समुद्दिष्टाः प्रासादास्त्रिपुरद्रुहः ।
गरुडो वर्धमानश्च शंखावर्तोऽथ पुष्पकः ॥
गृह (र?राट्) स्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः
कार्या जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः
मेरुमन्दरकैलासा हंसाख्यो भद्र एव च ।
उत्तुङ्गो मिश्रकरश्चैव तथा मालाधरोऽष्टमः
इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः
गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः
श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च ।
एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ॥
(नन्द्यावर्तश्चैव चलभरचर्रादिख्यः?) सिंह एव च ।
विचित्रो योगपीठश्च घण्टानादपताकिनौ ॥
v1.c67.50
अष्टावेते विधातव्याश्चण्डिकायाः सुरालयाः ।
(गुहारसलोकश्च ?) वेणुभद्रोऽथ कुञ्जरः ॥
तथाच हर्षविजयावुदकुम्भऽथ मोदकः ।
एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् ॥
महापद्म (हर्म्यननल) सुजयन्तस्तथा परः ।
गन्दमादनसं (ज्ञं? ज्ञश्च) शतश्रृंगा (नवप्ककौ?नवद्यकौ) ॥
सु(म?) विश्रान्तो (मनो) हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः ।
वृत्तौ वृत्तायतरचैत्यः किंकिणी लयनाभिधः ॥
पट्टिशो विभवाख्यश्च तत (श्चा?स्ता) राग(शा?णो) ष्टसः ।
कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥
v1.c67.51
कर्तृ कारक-व्यवस्थायाम्—
v1.c67.52
@H मेरोः यथा
@H स० सू०
@H ५६. ३६-४३
मेरोः प्रासादराजस्य देवानामालयस्य च ।
कर्ता क्षत्रिय एवास्य वै(श्य?श्यो)स्य स्थपतिर्भवेत् ॥
एवं विधीयमानेऽस्मिन् मेरो द्वावपि नन्दतः ।
वास्तुशास्त्रविधिज्ञोऽपि क्षत्रियः स्थपतिर्यदि ॥
तदास्य सत्यं शौचं च विक्रमश्च विनश्यति ।
ईश्वरोऽपि यदा विप्रो मेरुप्रासादकृद् भवेत् ॥
कर्तुः कारयितुः पीडा पूजा चास्य न तादृशी ।
ब्राह्मणः स्थपतिश्चास्य वास्तुशास्त्रे विशारदः ॥
वणिक्कर्मणि वर्तेत धनवानपि यद्यसौ ।
सर्वविप्रेषु निर्दिष्टः कर्ता स्थपतिरेव सः ॥
तत्रस्था देवताः सर्वास्तस्य वृद्धिः कथञ्चन ।
वास्तुशास्त्रविधिज्ञोऽपि तत्तत् कारयिता यदि ॥
राजापि क्षत्रियः कर्त्ता यदा मे(रु?रो)र्भवेत् तदा ।
राष्ट्रभङ्गो भवेत् तस्य प्रजा यान्ति दिशो दश ॥
क्षत्रियेण नरेन्द्रेण कर्त्ता स्थपतिना यदि (?) ।
मेरोः पूजा भवेत् तत्र क्षत्रियोप्यक्षयं पदम् ॥
v1.c67.53
प्रासाद-रचना-शैलीपु—
v1.c67.54
@H नागरादयः
@H मान०
@H १८. ४२-५१
मूलादिस्तूपिपर्यन्तं वेदाश्रं चायताश्रकम् ॥
द्वयश्रं वृत्ताकृतिं वाथ ग्रीवादिशिखराकृतिः ।
स्तूपिकात्रयसंयुक्तं द्वयं वा चैकमेव वा ॥
चतुरश्राकृति यत्तु नागरं तत्प्रकीर्तितम् ।
मूलाग्रं वृत्तमाकारं तद्वृत्तायतमेव वा ॥
v1.c67.55
ग्रीवादिस्तूपिपर्यन्तं युक्त्याथ तद्युगाश्रमकम् ।
वृत्तस्याग्रे द्वयश्रकं तद्वेसरनामकं भवेत् ॥
मूलाग्रात्स्तूपिपर्यन्तं चाष्टाश्रकं वा षडश्रकम् ।
तदग्रं चायतं वापि ग्रीवस्याधो युगाश्रकम् ॥
पूर्ववच्चोर्ध्वदेशं स्याद् द्राविडं परिकीर्तितम् ।
समाश्रकशिखायुक्तं चायामे तच्छिखात्रयम् ॥
द्वयश्रवृत्तोपरि स्तूपि वृत्तं वा चतुरश्रकम् ।
पद्मादिकुड्मलान्तं स्यादुक्तवद्द्वाकृतिं न्यसेत् ॥
v1.c67.56
नागरं चतुरश्रम् अष्टाश्रं द्राविडन्तथा ।
वृत्तञ्च वेसरं प्रोक्तम् . . . . . ॥
v1.c67.57
मूलादाशिखरं युगाश्ररचितं गेहं स्मृतं नागरम्
मूलादिशिखरक्रियं षडुरगाश्रोद्भेदितं द्राविड़म् ।
मूलाद् वा गलतोऽथवा परिलसद्वृत्तात्मकं वेसरः
तेष्वेकं पृथगात्तलक्ष्म सुविदध्यादात्मनः सम्मतम् ॥
जन्मादिस्तूपिपर्यन्तं युगाश्रं नागरं भवेत् ।
वस्वश्रं शीर्षकं कर्णं द्राविडं भवनं विदुः ॥
वृत्तकर्णशिरोपेतं वेसरं हर्म्यमीरितम् ।
कूटकोष्ठादिहीनानां हर्म्याणां कथितं त्विदम् ॥
v1.c67.58
प्रत्येकं त्रिविधं प्रोक्तं सञ्चितं चाप्यसञ्चितम् ।
उपसञ्चित मेत्येवं नागरं द्राविडं तथा ॥
वेसरं च तथा जातिश्छन्दो वैकल्पमेव च ।
स्वविस्तारवशाच्छन्नहस्तपूर्णायतन्वितम् ॥
युष्मायुग्मविभागेन नागरं स्यात् समीकृतम् ।
अन्तरप्रस्तरोपेतमूहप्रत्यूहसंयुतम् ॥
नित्रसन्धारसंस्तम्भमत्राते परिद्देशेशुभैः ।
द्राविडं वक्ष्यतेऽथातः विस्तारद्वयोरर्धकन् ?
रक्ताछन्नप्रतीचेपात् युग्मायुग्मविशेषतः ।
हित्वा तत्र समीभूतं भद्रालङ्कारसंयुतम् ॥
अनेकद्वारसंयुक्तं षड्वर्गं द्राविडं स्मृतम् ।
लब्धव्यासोयतं यत्तु नातिरिक्तं न हीनकम् ॥
बहुवर्गयुतं वापि -दण्डिकावारशोभितम् ।
मंह्रावारं विमानोर्ध्वे निर्व्यूहाननसंयुतम् ॥
सनेत्रोपेतमध्याङ्घ्रयुक्तं तद् वेसरं मतम् ।
यतीनां गणिकानाञ्च जीविनां क्रूरकर्मणः ॥
प्रशस्तं वेसरं तेषामन्येषामिते . शुभे ॥
v1.c67.59
द्वारभेदमिदं प्रोक्तं जातिभेदं तथा शृणु ।
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ॥
कण्ठादारभ्य वृत्तं यद् वेसरमिति स्मृतम् ।
ग्रीवामारभ्य चाष्टांशं विमानं द्राविडाख्यकम् ॥
सर्वं वै चतुरश्रं यद् प्रासादं नागरं त्विदम् ।
v1.c67.60
प्रासादस्य विभिन्नाः वर्गाः
v1.c67.61
मेर्वादिर्विशिकानागरप्रासाद-लक्षणम् (२० नागर-प्रासादाः)
v1.c67.62
अधुना नागराम् ब्रूमः प्रासादान् नामलक्षणैः ।
मेरुमन्दरकैलासाः कुम्भोऽथ मृगराज् गजः ॥
विमानच्छन्दसंज्ञश्च चतुरश्रस्तथापरः ।
अष्टाश्रिः षोडशाश्रिश्च वर्तुलः सर्व(तोद्?भद्र)कः ॥
सिंहास्यो नन्दनो नन्दिवर्ध (मा?) नो हंसको वृषः ।
(गुरूत्सा?गरुडः) पद्माख्यश्च समुद्र इति विंशतिः ॥
नागराणिमिति प्रोक्ता प्रासादानां समासतः ।
v1.c67.63
शत (मुद्र?) श्चतुर्द्वारः षोडशक्षितिरूर्ध्व (तः) ॥
विचित्रशिखराकीर्णो मेरुः प्रासाद उच्यते ।
मन्दरो द्वादशत्लः कैलासो नवभूमिकः ॥
अनेकशिखरश्चित्रश्चतुर्द्वारो महोच्छ्रितिः ।
विमानच्छन्दकस्त्वष्टभूमिकः परिकीर्तितः ॥
विशत्यएडकसंयुक्तः सप्तभूर्नन्दिवर्धनः ।
षड्भूमिर्नन्दनः कार्यः प्रासादः षोडशाएडकः ॥
पञ्चभूः सर्वतोभद्रो भद्रशालाविभूषितः ।
अनेकशिखराकीर्णः कर्तव्यः प्रचुराएडकः ॥
वलभिच्छन्दकः कार्यों देवतानां (ए?) वृषः सदा ।
वृषस्तु स्वोच्छ्रितेस्तुल्यः सर्वतः स्वस्ति वर्तितः ॥
मएडलं(?) स तु विज्ञेय एकाएडकविभूषितः ।
सिंहः सिंहाकृतिर्ज्ञेयो गजो गजसमाकृतिः ॥
कुम्भः कुम्भाकृतिस्तद्वद् भूमिकानवकोच्छ्रितः ।
अञ्जलीपुटसंस्थानः पञ्चाएडकविभूषितः ॥
षोडशाश्रिः समन्ताच्च विज्ञेयः स समुद्रकः ।
पार्श्वयोश्चन्द्रशाला च उच्छ्रायात् स द्विभूमिकः ॥
तथाष्टाश्रिः पद्भनिभो भूमिकात्रयमुच्छ्रितः ।
षोडशाश्रिः स विज्ञेयो विचित्रशिखरः शुभः ॥
मृगराजस्तु विख्यातश्चन्द्रशाखाविभूषितः ।
v1.c67.64
प्राग्ग्रीवेण विशालेनं भूमिका(स यदु?सु य उ)च्छ्रितः ॥
अनेकचन्द्रशालस्तु गजः प्रासाद उच्यते ।
पर्यस्तो मृगरास्तु गरुडो नाम नामतः ॥
सप्तभूम्युच्छ्रितस्तद्वच्चन्द्रशालात्रयान्वितः ।
अश्रिभि(विहरं तस्य?) षड्भिर्युक्तः समन्ततः ॥
स्यादन्यो गरुडस्तद्वदुच्छ्राये दशभूमिकः ।
पद्म्रकः षोडशाश्रिः स्याद् भूमिकाद्वितयाधिकः ॥
पद्मतुल्यप्रमाण(?)वावृत्तैश्चतुरश्रकः ।
पञ्चाण्ड(से?ए)कभूमिस्तुं गं(र्भ?भौ)हस्तचतुष्टयम् ॥
वृषो भवति ना(त्रार्य?)प्रासादः सर्वकामिकः ।
सप्तकापञ्चकाभूमिप्रासादो(?) य इहोदिताः ॥
(हिंस्य?) ते समा ज्ञेया ये चान्ये तत्प्रमाणकाः ।
विचित्रशिखराः कार्याश्चन्द्रशालाविभूषिताः ॥
सर्वे प्राग्ग्रीवसंयुक्ताः कर्तव्यास्तोरणान्विताः ।
ऐष्टिका दारवा यद्वा शैलजा वाजनाकुलाः ॥
v1.c67.65
शिखरोत्तमाः रुचकादि-चतुष्षष्टिप्रासादा:--
v1.c67.66
रुचको भद्रकश्चैव हंसो हंसोद्भवस्तथा ।
प्रतिहंसंस्तथा नन्दो नन्द्यावर्तो धराधरः ॥
वर्धमानोऽद्रिकूटश्च श्रीवत्सोऽथ त्रिकूटकः ।
मुक्तकोणो गजश्चैव गरुडः सिंह एव च ॥
भवश्च विभवश्चैव पद्मो मालाधरस्तथा ।
वज्रकः स्वस्तिकः शङ्कुर्मलयो मकरध्वजः ॥
इत्येते नामतः प्रोक्ताः प्रासादाः पञ्चविंशतिः ।
एतेषां रूपनिर्माणं कथयामो यथाविधि ॥
रुचको (द्य) ष्टादशेषां चतुरश्राः प्रकीर्तिताः ।
भवश्च विभवश्चैव चतुरश्रायतौऽथवा ॥
पद्मो मालाधरश्चैव वृत्तावेतावुदाहृतौ ।
मलयो मकराख्योऽथ द्वौ तु वृत्तायताविमौ ॥
वज्रकः स्वस्तिकः शङ्कुरित्थष्टाश्रयश्चयः ।
ललिताः कथिता ह्येते ब्रूमोऽन्यान् मिश्रकाँनथ ॥
v1.c67.67
सुभद्रो योंकिटिश्च(?) सर्वतोभद्र एवं च ।
सिहकेसरिसंज्ञोऽन्यंश्चित्रकूटों धराधरः ॥
तिलकाख्यः स्वतिलकस्तथा सर्वाङ्गसुन्दरः ।
नवामी विश्रकाः प्रोक्ताः कथ्यन्ते (साधकारिका:?) ॥
v1.c67.68
@H २५ सान्धार-
@H प्रासादाः
@H ५६. १८-२०॥
केसरी सर्वतोभद्रो नन्दनो नन्दिशालकः।
नन्दीशो मन्दिरारूयश्च श्रीवृक्षश्चामृतोद्भवः॥
हिमवान् हेमकूटश्च कैलासः पृथिवीजयः।
इन्द्रनीलो महानीलो भूधरो रत्नकूटकः॥
वैडूर्यः पद्मरागश्च वज्रको मुकुटोत्कटः।
ऐरावतो राजहंसो गरुडो वृषभस्तथा॥
मेरुः प्रासादराजश्च देवानामालयो हि सः।
v1.c67.69
@H तेषु अण्डकवर्तना
@H ५६. २३-३४
आद्यः पञ्चाण्डकः कार्यः प्रासादः केसरीति यः॥
सर्वतोभद्रको यस्तु विधेयः स नवाण्डकः।
त्रयोदशाण्डकस्तू स्यान्नन्दनो नाम यो भवेत्।
नन्दिशालस्तु यः प्रोक्तः स स्यात् सप्तदशाण्डकः॥
अण्डकैरेकविंशत्या नन्दीशः परिवारितः।
पञ्चविंशाण्डकोपेतं मन्दरं कारयेद् बुधः॥
श्रीवृक्षः शस्यते चैतेष्वेकोनत्रिंशताण्डकैः।
स्यात् त्रयस्त्रिंशताण्डैस्तु प्रासादो ह्यमृतोद्भवः॥
अण्डकैः क्रियते सप्तत्रिंशता हिमवानपि।
सैकया हेमकूटस्तु स्याच्चत्वारिंशताण्डकैः।
पञ्चचत्वारिंशताण्डैः कैलासो नाम नामतः।
भवत्येकोनपञ्चाशदण्डकः पृथिवीजयः॥
इन्द्रनीलश्च यःप्रो(कारः ?क्तः स त्रि ) पञ्चाशताण्डकैः।
सप्तपञ्चाशता युक्तो महानीलस्तथाण्डकैः॥
एकषष्ट्यण्डकोपेतः प्रासादो भूधरो भवेत्।
पञ्चषष्ट्यण्डकैर्युक्तो रत्नकूटः प्रशस्यते॥
नवषष्ट्यण्डकः कार्यो वैडूर्यः शुभलक्षणः।
त्रिसप्तत्यण्डकयुतः पद्मरागो विधीयते॥
अण्डकैः सप्तसप्तत्या प्रासादो विजयाभिधः।
नवाशीत्यण्डकोपेतो विधेयो मुकुटोत्कटः॥
ऐरावतस्तु पञ्चाशीत्यण्डकः परिकीर्तितः।
नवाशीत्यण्डकैर्युक्तो राजहंसः प्रशस्यते॥
नवत्या सप्तयुतया प्रासादो वृषभोऽण्डकैः।
शतेनैकोत्तरेणाण्डैर्मेरुः प्रासादराट् स्मृतः॥
v1.c67.70
@H ५ निगूढ-प्रासादाः
@H ५६. २२
लतातृपिष्कराख्यो च पञ्चवक्त्रश्चतुर्मुखः।
नवात्मकश्च निर्गूढः प्रासादा पञ्च संज्ञिताः॥
v1.c67.71
द्राविड-प्रासाद-लक्षणम्
v1.c67.72
@H १२ द्राविड-प्रासादाः
@H ६१. १
इदानीं द्राविडान् ब्रूमः प्रासादा शुभलक्षणान्।
एकभूम्यादयस्ते स्युर्यावद्द्वादशभूमिकाः॥
v1.c67.73
तेषां पीठपञ्चकलक्षणम् पीठमाद्यं भवेत् तेषु पादबन्धनमुत्तमम् ।
v1.c67.74
(स्त्री ? श्री) बन्धह्वयं द्वितीयं च तृतीयं वेदिबन्धनम् ॥
प्रतिक्रममिति प्रोक्तं चतुर्थं पीठमुत्तमम् ।
पञ्चमं पीठमुद्दिष्टं नाम्ना खुरकबन्धनम् ॥
एतानि पञ्च पीठानि प्रोक्तनीह समासतः ।
v1.c67.75
पञ्चतलच्छन्दाश्च प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् ।
@H ६१. ३२-३३॥
तत्र पद्मो महापद्मो वर्धमानस्तथापरः ॥
स्वस्तिकः सर्वतोभद्रः प्रासादाः प कीर्तिताः ।
v1.c67.76
टि० द्राविड-प्रासाद-सन्निवेशे एकादिद्वादशभूमिकान्यास एव मुख्यं वास्तु । तदधिकृत्य समराङ्गणे एकभूमिक-द्विभूमिक-त्रिभूमिकादि-द्वादशभूमिकान्तानां द्राविड-प्रासादानां लक्षणं तत्र द्विषष्टितमे ऽ ध्याये प्रदत्तमस्ति तन्नात्र विस्तार्यते ।
v1.c67.77
वावाट्-प्रासाद-लक्षणम्
v1.c67.78
@H स० सू०
@H ६४. १-१२
प्रासादमथ (वावाटं ?) वक्ष्यामो नामलक्षणैः ।
लक्षणै (?) स्तेषु दिग्भद्र श्रीवत्सो वर्धमानकः ॥
नन्द्यावर्तश्चतुर्थः स्यात् पञ्चमो नन्दिवर्धनः ।
विमानश्च तथा पद्मो महाभद्राख्य एव च ॥
श्रीवर्धमानकाख्यश्च महा (पद्म तोपि वा ? ) ।
एकादशः पञ्चशालो द्वादशः पृथिवीजयः ॥
तत्र प्रागेव (दिग्भद्रः श्रावणं ?) प्रतिपाद्यते ।
चतुरश्रीकृते क्षेत्रे नवभागविभाजिते ॥
कोणौ द्विभागविस्तारौः प्रत्यङ्गौ भागिकौ स्मृतौ ।
शाला भागत्रया कार्या नासिकात्रयशोभिता ॥
परस्परं विनिष्कासमर्धभागेन कारयेत् ।
कोणप्रत्यंगयोरन्तः शांलाप्रत्यंगयोस्तथा ॥
षोडशांशेन कुर्वीत +++ सलिलान्तरम् ।
सीमा (स्याद्?स्य ) दशभिर्भागैः प्रविभज्य विधीयते ॥
++का गर्भपादैः षड् भित्तयः स्युर्द्विभागिकाः ।
(वर्धमानेनमथ ब्रूमो ?) विस्ताराद् द्विगुणं हि तत् ॥
द्वौ भागौ वेदिकाबन्धो जङ्घा ज्ञेया चतुष्पदा ।
(शान्तापत्रा ? ) कपोताली सार्धभागं समुच्छ्रिता ॥
सार्धभागसमुच्छ्राया कार्या प्रथमभूमिका ।
द्वितीया भूकिका ज्ञेया सार्धभागत्रयोदया ॥
तृतीया च विधेया स्यात् सार्ध भागद्वयोच्छ्रिता ।
v1.c67.79
उच्छ्रालकं च जङ्घा च भूमिकार्थं विधीयते ॥
कूटं ( ते ? ) चार्धतो देयं कर्मशोभासमन्वितम् ।
घण्टा भागत्रयोत्सेधा बहुभिश्चाश्रिभिर्युता ॥
v1.c67.80
भूमिज-प्रासाद-लक्षणम्
v1.c67.81
@H प्रास्ताविकम्
@H स० सू०
@H ६५. १-२
भूमिजानां विमानानां ब्रूमो लक्ष्म क्रमागतम् ।
चतुरश्रीकृतानां च वृत्तानां ( वृत्त पूर्वश:? ) ॥
केषाञ्चिन्निर्गमस्तत्र जायते भागसंख्यया ।
केषाञ्चित् पुनरेष स्याद् वृत्तमध्यमधिष्ठितः ॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
चतुर्भूमियुतस्याथ लक्ष्म (त्संशस्य?च्छन्दस्य)कथ्यते ॥
v1.c67.82
@H तेषु निषधादयः
@H ४ चतुरश्राः
@H ६५. ४
चत्वारश्चतुरश्राः स्युर्निषधो मलयाचलः ।
माल्यवान् नवमाली च निषधस्तेषु कथ्यते ॥
v1.c67.83
@H कुमुदादयः ७
@H वृत्तजातयः
@H ६५. ५६-६३
इदानीमभिधीयन्ते प्रासादा वृत्तजातयः ॥
वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम् ।
आश्रयः श्रेयसामोको यशसामंपि राशयः ॥
भुक्तिमुक्तिप्रदातारः (समांगते कृता?) नृणाम् ।
तत्राद्यः कुमुदो नाम कमलः कमलोद्भवः ॥
(कि)रणः शतशृङ्गश्च निरवद्यस्तथापरः ।
सर्वाङ्गसुन्दरश्चेति प्रासादा वृ(त्त?क्ष) जातयः ॥
नविस्तरान्नसंक्षेपाल्लक्ष्मैषामथ कीर्त्यते ।
तत्राद्यः कुमुदो नाम सर्वानन्दकृदुच्यते ॥
v1.c67.84
@H ५ स्वस्तिकादयाः
@H ५ अष्टशालाः
@H ६५. १४०-१४१।।
अथाष्टशालान् वक्ष्यामो + + + भूमिजातिषु ॥
तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वस्तिकसंज्ञितः ।
तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥
गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः ।
v1.c67.85
प्रासाद-मण्डपं-लक्षणंम्
v1.c67.86
@H प्रासादे मण्डपा-
@H वश्यकता
@H ७४. १-४
निर्माणं मण्डपानान्तु बहुरूपं स्थलार्हकम् ।
कारयेन्मानविच्छिल्पी देवागारे विशेषतः ॥
अभिषेकाय देवानामलङ्काराय च क्वचित् ।
जननार्थं क्वचिद्देव्या विवाहाय क्वचिन्मतम् ॥
भट्टारकनृपानुज्ञाचोदितो मानभेदवित् ।
देवानार्माप देवीनां नित्यनैमित्तिकोत्सवाः ॥
v1.c67.87
यथा सुलभसाध्यास्स्युस्तथा मण्डपकल्पनम्।
कारयेन्मतिमान्युक्त्या सर्वं तत्स्थलयोग्यकम्॥
चतुःपादयुतं वापि क्वचिदष्टपदान्वितम्।
दशपादयुतं वापि द्वादशांघ्रिसमन्वितम्॥
षोडशस्तम्भयुक्तं वा स्तम्भविंशतिसंयुतम्।
चतुर्विंशतिपादाढ्यमष्टाविंशतिपादकम् ॥
द्वात्रिंशत्स्तम्भयुक्तं वा चत्वारिंशत्पदं तथा।
पञ्चाशत्स्तम्भसंयुक्तं द्विपञ्चाशत्पदं क्वचित्॥
चतुष्षष्टिपदोपेतमशीतिस्तम्भासुरम् ।
शतस्तम्भयुतं वापि मण्डपं बहुरूपकम्॥
स्तम्भस्थापनकार्यार्हंपूर्वाङ्गणसमन्वितम् ।
शिलाभिरेव देवानां यतीनाञ्च सत्रक्रिया॥
लौहैर्द्रव्यान्तरैर्वापूमण्डपं स्थापयेत्क्रमात्।
जपमण्डपकं वाऽपि वेदाध्ययनमण्डपम्॥
अधिष्ठानयुतं प्रायश्चिरकालाय कल्पते।
सोपपीठस्तम्भपांलि चित्रालङ्करणान्वितम्॥
मुखाङ्गणसमोपेतं पार्श्वाङ्गणसमन्वितम् ।
चतुरङ्गयुक्तं वा सवारं वा विवारकम्॥
समरेखाद्विहीनं समोत्तुङ्गविशालकम्।
वाजिवक्त्रेण संयुक्तं गजवक्त्रान्वितं क्वचित्॥
यालीमुखसमोपेतं पार्श्वचक्रसमन्वितम्।
सोपानसंयुतं वापि कल्पयेत्सुमनोहरम्॥
मुखप्रस्तरयुक्तं वा ऊर्ध्वप्रस्तरणान्वितम्।
वलभीकल्पनं चोध्र्वं वरणञ्च यथाक्रमम्।
एकद्रव्यसमायुक्तं विमानशिखरोज्ज्वलम्।
भित्तिकोष्ठसमायुक्तं कर्णनासादिमण्डितम्॥
युक्त्या कल्पान्तरयुतं स्थापयेन्मण्डपं दृढम्।
शङ्करस्य हरेर्वापि धातुर्देवीगणस्य च।
क्वचिन्मण्डपकल्पस्तु शतस्तम्भसमन्वितः॥
स्थाप्यः पञ्चविधो युक्त्या पूर्वाङ्गणयुतोऽपि वा॥
आद्यस्तु सूर्यकान्तस्स्यात्सूर्यसंख्याप्रदावलिः।
रेखाद्वयं पूर्वभागे तथा पश्चिमभागिके॥
तन्मध्ये षोडशपदं सव्ये सव्येतरेऽपि च।
तन्मध्यस्थानभागे च षोडशस्तम्भकल्पनम्॥
वदन्वस्तु चतुष्पादस्थानं तद्वैवतं सतम्।
v1.c67.88
सर्वत्र देवभागस्तु तुङ्गो वाऽधिष्ठितोऽपि वा ॥
अयुग्मपङ्क्तिसंयुक्तो नानाचित्रमनोहरः ।
द्वितीयश्चन्द्रकान्तस्स्यात्सव्यसव्येतरात्मकम् ॥
भागं विभज्य वेदेन षण्णवत्यंघ्रिकल्पनम् ।
मध्ये - वेदपदस्थानं तद्दैवतमुदीरितम् ॥
तृतीयश्चेन्द्रकान्तस्स्यात्पार्श्वयोष्षट्प्रमाणकम् ।
स्तम्भकल्पनमत्रोक्तं वसुपङ्क्तीः प्रकल्पयेत् ॥
मध्ये वेदपदस्थानं तद्दैवतमुदीरतम् ।
चतुर्थो गन्धर्वकान्तश्चतुष्कोणो चतुःक्रमम् ॥
स्तम्भषोडशकं स्थाप्यं तदन्तश्च यथामतम् ।
पूर्वपृष्ठपदोपेतन्नागपादमकल्पनम् ॥
तत्संख्याकं तदन्तश्च चतुःपङ्क्तिकमात्पदम् ।
तदन्तर्वेदपादन्तु दैवस्थानमुदाहृतम् ॥
पञ्चमो ब्रह्मकान्तस्स्यान्मुखपादेऽष्टपादकम् ।
पृष्ठे च तन्क्रमात्स्तम्भस्थापनं चात्र गण्यते ॥
तदङ्गणस्थानमाहुशिल्पशास्त्रविशारदाः ।
ततष्षट्स्तम्भविन्यासद्वयं स्थाप्यन्तु पार्श्वयोः ॥
पृष्ठे चैवं स्थापनीयं मध्ये द्वात्रिंशदङ्घ्रिकम् ।
तन्मध्ये वेदपान्तु तद्दैवतमुदाहृतम् ॥
अन्त्यकल्पनमेतत्तु विषमस्थानकं मतम् ।
आद्यं समं कल्पमाहुश्शास्त्रज्ञा वेदपारगाः ॥
समरेखां दृष्टिहीनं मनोहारिप्रकल्पनम् ।
स्तम्भानां मुखभागेषु पूर्वोत्तरपदस्थली ॥
यथाविभवतः स्थाप्या नानालङ्कारमण्डिताः ।
स्थापनीया विशेषेण देवानां प्रीतिदायिनी ॥
v1.c67.89
प्रासाद-मण्डपानां द्वौ वर्गौ
v1.c67.90
संवृत्तो वा भवेदेष व्यतिरिक्तोऽथवा क्वचित् ॥
शोभां भद्रेषु कर्णेषु यथायोगं प्रकल्पयेत् ।
वीथीभिश्चन्द्रशालाभिः सिंहकर्णैश्च शोभनैः ॥
रथिकाभिर्वरालेश्च तिलकैश्चारुदर्शनैः ।
शुकनासैरुपैजैः सिंहैरन्यैरित्येवमादिभिः ।
कर्मप्रकारैः कर्तव्या मण्डपे भूषणक्रिया ॥
देवालयेषु सर्वेषु संमुखे बहुमण्डपम् ।
पुण्यक्षेत्रे तथारामे ग्रामादौ वास्तु-मध्यमे ॥
v1.c67.91
चतुर्दिंषु विदिक्षु वापि बाह्याभ्यन्तरतोऽथवा ।
नारीणां गृहमध्ये च संमुखे मण्डपं तु वा ॥
सर्वेषां वालञ्चोन्मार्थं (न्यं च) मण्डपं याग-मण्डपम् ।
नृपाणामभिषेकार्थं मण्डपं नृत्तमण्डपम् ॥
पाणिपीडन-सिद्ध्यर्थं तथा मैत्रं च मण्डपम् ।
उपनयनमण्डपं चैव तथा च लपनमण्डपम् ॥
अर्भकानां सुखालोकं (क) मण्डपं स्तोत्रमण्डपम् ।
चौरार्थं मण्डपं चैव चामिकादार्थिमण्डपम् ॥
सुखान्वितार्थं कल्पेत मण्डपं विधिवत्क्रमात् ।
मण्डपानां च सर्वेषा स्थानमुक्तं पुरातनैः ॥
प्रासादाभिमुखे सप्तमण्डपं कल्पयेत्क्रमात् ।
आदौ [च] लपनार्थं च द्वितीया (यन) ध्ययनमण्डपम् ॥
विशेषं लपनार्थं च मण्डपं च तृतीयकम् ।
चतुर्थं प्रतिमागारं पञ्चमं स्थापन-मण्डपम् ॥
षष्ठं चापि ततः कुर्यात्तत्तीर्थमण्डपम् ।
सप्तमं नृत्तगीतार्थमागारं तत्साधकार्थकम् ॥
अथवा तन्मुखे कुर्यादेकद्वित्रि च मण्डपम् ।
न्हपनं प्रतिमाज्ञानां गीतनृत्तार्थमण्डपम् ॥
मण्डपं द्वितीयं चैतत अ(द) भ्रमण्डप (पं) तन्मुखे (च) ।
आदौ चाध्ययनार्थं स्यात्प्रतिमा-मण्डपं तथा ।
तत्रैव मण्डपं कुर्यात्प्रतिमामण्डपं बुधः ।
v1.c67.92
प्रासाद-जगती लक्षणम्
v1.c67.93
@H जगती-माहात्म्यम् त्रिदशागारभूत्यर्थं भूषाहेतोः पुरस्य तु ।
@H स० सू० ६८. १-४ भुक्तये मुक्तये पुंसां सर्वकालं च शान्तये ॥
निवासहेतोर्देवानां चतुर्वर्गस्य (हे ?) सिद्धये ।
मनस्विनां च कीर्त्यायुर्यशस्सम्प्राप्तये नृणाम् ॥
जगतीनामथ ब्रूमो लक्षणं विस्तरादिह ।
प्रासादं लिङ्गमृत्याहु (लिङ्ग ?) ङ्कयनाद् यतः ॥
ततस्तदाधारतया जगती पीठिका मता ।
v1.c67.94
@H आकाराः चतुरश्रा समा शस्ता मनोज्ञा सर्वतःप्लवा
@H ६८, १०-१२ अंशप्रगूढदिग्भागा प्रासादानुगता शुभा ॥
निरूप्य त्रिदशागारं संस्थानोन्मानलक्षणैः ।
तदाकारतीं पार्श्वे जगतीं तस्य योजयेत् ॥
v1.c67.95
@H प्रासाद-शोभा जग० कुर्यात् पीठेषु शोभार्थं प्रासादानां विचक्षणः ।
@H ६८, ४८ यथा सिंहासनं राज्ञां शोभते मणिदीप्तिभिः ॥
v1.c67.96
तथा प्रासादराजस्य पीठं कर्मभिरुत्तमैः ।
वसुधा वसुधारा (च) वहन्ती च तथाप (रे?रा) ।
श्रीधरा भद्रिका चैव एकभद्रा द्विभद्रिका ॥
त्रिभद्रिका भद्रमाला वैमानी अमरावली ।
स्वस्तिका हरमाला च कुलशीला महीधरी ॥
मन्दारमालिकानाङ्गलेखाथोत्सवमालिका ।
नागारामा सारभन्द्या तथाच मकरध्वजा ॥
नन्द्यावर्तो .(नं?) च भूपाला पारिजातमञ्जरी ।
चूडामणिप्रभा चैव तथा श्रवणमञ्जरी ॥
विश्वरूपादिकमला तथा त्रैलोक्यसुन्दरी ।
गन्धर्वालिका चान्या विद्याधरकुमारिका ॥
सुभद्रा च समाख्याता तथान्या सिंहपञ्जरी ।
(वज्रपङ्कुरुवाद्याः ?) गन्धर्वनगरी तथा ॥
तथामरावती ज्ञेया रत्नधूमा च नामतः ।
त्रिदशेन्द्रसभा चैव तथान्या देवयन्त्रिका ॥
चत्वारिंश (द्वि?दि) तीर्यं स्यादेकोना नाम सङ्ख्यया ।
(यमलाम्वुरधरा नेत्रा दोदण्डाः खण्डला सिता ?) ॥
v1.c67.97
प्रासाद-निवेशः-तथाहि-विश्वकर्म-वास्तु-शास्त्रे
v1.c67.98
देव-प्रासाद-लक्षणम्
v1.c67.99
तैतलायतनं प्रायश्शुभदं सर्वदिङ्मुखम् ।
वैष्णवं सर्वतोवक्त्वं शैवं गेहं तु दक्षिणम् ॥
वैधात्रमन्यदेवानां गेहं सर्वमुखं शुभम् ।
महीधरादिस्थानेषु न पृष्ठस्थापनं शुभम् ॥
v1.c67.100
वास्तुमानवशात्सर्वं स्थापयेद्दीक्षितो नृपः ।
गोपुरद्वारसंयुक्तं प्राकारावृत्तवास्तुकम् ॥
बहिरन्वस्तु वा स्थाप्यस्तटाकस्स्राङ्गणो मतः ।
जलमण्डपयुक्तो विमानशिखरोज्वलः ॥
v1.c67.101
वलिपीठसमायुक्त मष्टदेवपदान्वितम् ।
ध्वजपीठपुरोभागे पार्श्वयोर्मण्टपा मताः ॥
देवीनां भवनैर्युक्तं भक्तानां च गृहैर्युतम् ।
पूर्वमण्टपसंयुक्तगर्भगृहेन भासुरम् ॥
सर्वत्र समसूत्राणां द्वाराणां स्थापनं मतम् ।
कवाटयुग्मकलनं शुभदं चात्र कीर्तितम् ॥
आग्नेयां पाकशाला स्यात्कूपचत्वरसंयुता ।
v1.c67.102
नैऋत्यां वाहनस्थानं वायव्यां वस्त्रगेहकम् ॥
ऐशान्यां धान्यभवनं मध्यस्थाने महागृहम् ।
कल्पनं मण्डपानां वा तत्तद्देशालकक्रमात् ॥
हस्तिशालावाजिशालागोशालानिस्तमन्वितम् ।
स्नानालङ्कारस्थानं विहारस्थानकानि च ॥
आस्थानमण्डपो वापि चतुःस्कन्धादिभूषितः ।
डोलाशयनशाला च गर्भगृहान्तरे मता ॥
प्रदक्षिणतलस्थानं सेवाप्राप्तिस्थलानि च ।
सव्ये वा पुरतो भागे वाहनारोहमण्डपः ॥
दक्षिणे मित्रभागे वा भूधरे वा पुरःस्थले ।
मुखवीथ्यां माठवीथ्यां वाहनारोहणस्थलम् ॥
नानाशालासमायुक्तं नानाकल्पनभूषितम् ।
नानागोपानसीयुक्तं नानागोपुरकल्पनम् ॥
सचित्रशिखरै रम्यं दृढकल्पं प्रकल्पयेत् ।
न मण्डलस्थानयुतं न न्यूनं नापि चाधिकम् ॥
दोषहीनं गुणोपेतं कल्पयेच्छिल्पवित्तमः ॥
v1.c67.103
प्रासादे गर्भगृहनिवेश-लक्षणम्
v1.c67.104
हरेर्हरस्य धातुर्वा तद्देवीनामनैकधा ।
आधारासनसंयुक्तं स्थानं गर्भगृहं मतम् ॥
ससनेत्रं समद्वारं द्वारपञ्चकमानुरम् ।
द्वारत्रयसमायुक्तं अन्यमाहुर्मनीषिणः ॥
v1.c67.105
द्वारपालान्वितं तस्य पार्श्वस्थानं प्रकल्पयेत् ।
दण्डद्वयव्यासमानमथवा हीनमानकम् ॥
तन्मानद्विगुणं वापि तन्मानत्रिगुणं तु वा ।
गर्भगृहस्य दैर्घ्यन्तु कल्पयेच्छिल्पवित्तमः ॥
अन्तःप्रदक्षिणोपेतमथवा तेन हीनकम् ।
पार्श्वयोर्वा पृष्ठभागे गोमुखस्थानकं मतम् ॥
द्विदण्डं वा त्रिदण्डं वा कुड्योत्सेधमथाधिकम् ।
द्वारान्तरे वेदिका वा क्षुद्रदेहल्यथापि वा ॥
v1.c67.106
नानावौगणसमायुक्ता मुखतोरणमण्डिता ।
देवस्थानं वेदिकाख्यं तद्विम्बस्थानकं मतम् ॥
तस्मान्निन्नक्रमेणात्र पूर्वभागतकीर्तितः ।
प्रतिद्वारतलं द्वारपालस्थानमथापि वा ॥
अन्तर्निम्नं बहिःपृष्ठे कूर्माकारमथापि वा ।
v1.c67.107
नानाधिष्ठानोपपीठसंयुक्तं मूलभूमिकम् ॥
गर्भन्यासेन संयुक्तं यन्त्रपट्टेन चान्वितम् ।
सर्वेषामपि देवानां देवीनामेवमाचरेत् ॥
नानाऽङ्गणविभक्ताङ्गबहिरङ्गेणकल्पितम् ।
तत्र स्थाप्यं शुभे काले देवानां बेरजातकम् ॥
नयनोन्मीलनं प्रायश्चात्र कार्यमुदाहृतम् ।
कर्पूरचन्दनरसैः सेचयेद्वासयेदपि ॥
v1.c67.108
दैवब्राह्मविभेदेन तत्स्थानं द्विविधं मतम् ।
तत्र पूर्वस्थले भद्रमण्डपं कारयेन्नृपः ।
तत्पूर्वमण्डपं वापि प्रभाष्टमुखकेलिकम् ।
चतुःस्तम्भसमेतं वा स्तम्भाष्टकसमुज्ज्वलम् ॥
षोडशस्तम्भयुक्तं वा महती शालका मता ।
चित्रस्तम्भसमोपेता वलभीतोरणोज्ज्वला ॥
गर्भगेहमुखद्वारयुक्तकल्पनमुत्तमम् ।
जङ्गमास्थानवाहादिमण्डपादीन्प्रकल्पयेत् ॥
संयुक्ता वा वियुक्ता वा द्वारान्ते स्तम्भपार्श्वका ।
दीपदेव्यस्स्थापनीया नानालङ्कारभूषिताः ॥
अथवा दीपकीलादींस्तोरणे विन्यसेत्क्रमात् ।
स्तम्भपञ्जरयुक्तं वा क्षुद्रद्वारयुतं क्वचित् ॥
दण्डं यवनिकाक्रान्तं डोलास्थानं च कल्पयेत् ।
मुखवेदीसमायुक्तं नैवेद्यासनसंयुतम् ॥
युक्त्या प्रकल्पयेद् गर्भगेहमेवं प्रमाणवित् ।
v1.c67.109
विमान-वास्तु
v1.c67.110
विमान-लक्षणम्
v1.c67.111
सर्वेषामपि देवानां देवीनामपि सेविनाम्
गर्भगेहस्य मौलौ यत्कल्पनं रक्षणार्थकम् ॥
तद्विमानमिति प्राहुश्शिल्पशास्त्रविशारदाः ।
प्रतिलोमक्रियां तत्र स्थापयेच्छिल्पकोविदः ॥
तत्कल्पनकलं(समं) कृत्स्नं विमानाधिष्ठतं मतम् ।
मण्डलञ्चतुरश्रं वा व्यासाधिक्यं क्वचिन्मतम् ॥
गजपृष्ठाकारञ्चद्वा चापाकारं क्वचिन्मतम् ।
आधारमानद्विगुणं त्रिगुणं वा चतुर्गुणम् ॥
औन्नत्यं कल्पयेत्तस्य मुखवर्धनसंयुतम् ।
अधिष्ठानस्तम्भकर्णप्रस्तराख्यविभागभाक् ॥
चतुर्भागौन्नत्यकल्प्यं पूरयेत्खण्डनक्रमात् ।
शैलं सौधं लौहमयं विमानं दृढसन्धिकम् ॥
तक्षयेद्वर्धयेन्मानक्रमतष्टङ्गभेदैः ।
चतुर्भागं नयेद् भूमौ पादुका तत्प्रमाणका ॥
एकेन कम्पनिर्माणमेकहस्तद्विहस्तकम् ।
ऊर्ध्वस्तम्भप्रमाणन्तु कल्पमान्तरभेदतः ॥
उपपीठं कल्पयेद्वा प्रान्तपट्टिकया युतम् ।
द्वाभ्यामेकेन वा तत्र उपानत्स्थानमीरितम् ॥
चतुर्भागेन पद्मन्तु मुखपत्रसमन्वितम् ।
कम्पमेकेन कर्तव्यं पार्श्वनेत्रं द्विभागिकम् ॥
पञ्चभागेन कुमुदमेकेनोर्ध्वतलं मतम् ॥
द्विभागेन महापट्टमग्रपट्टं त्रिभागतः ॥
वेदिका नागबन्धश्च पादश्च कमलं घटः ।
पञ्चभागश्च षड्भास्सप्तभागोऽथवा भवेत् ॥
फलकाबोधिकाभागो द्विभागश्च कपोतकः ।
प्रस्तरश्चाष्टभागेन कथितो बहुवक्त्रकः ॥
ग्रीवा तु दशभागेन चतुरश्राकृतिर्भवेत् ।
मण्डलाकृतिरग्रा तु पट्टिका च द्विभागिका ॥
v1.c67.112
नानामुखसमोपेतं मौलिभागयुतन्तु वा ।
स्तूपिप्रकल्पनं तत्र लोहजं दृढसन्धिकम् ॥
प्रस्तरान्ते मध्यभागे त्रिमूर्तिस्थानकैर्युतम् ।
पृथग्वेश्मस्थलं वापि पौषस्थानमथापि वा ॥
देवानामापि देवीनां दासानां गर्भगेहके ।
कलिङ्गं द्राविडं शौरसेनिकं कौसलन्तथा ॥
विमानकल्पनं कार्यं कुम्भपञ्जरसंयुतम् ।
बोधिकाजालकैर्युक्तं द्वारपालाश्चितन्तु वा ॥
रन्ध्रहीनं मध्यकल्पमवाग्वक्त्रादिवर्जितम् ।
देवरूपसमोपेतं कल्पयेच्चित्रभूषितम् ॥
कर्णकूटक्रियोपेतं कीलकुम्भयुतं क्वचित् ।
सौवर्णं राजतं ताम्रं कवचञ्च क्वचिन्मतम् ॥
v1.c67.113
विमान-प्रासाद-निवेशः
v1.c67.114
कीर्तितानि विमानानि यान्येव सुरवर्त्मनि ।
तान्येव स्थावरस्वेत् प्रासादा इति विश्रुताः ।
महेश्वरस्य कैलासो विष्णोस्तु गरुडाभिधः ॥
कार्यः प्रजापतेः पद्मो गणनायस्य च द्विपः ।
न खल्वेते चान्यदेवानां विधातुमुचिताः स्मृताः ॥
यस्तु त्रिविष्टपः स स्यात् सर्वदेवनिकेतनः ।
अस्मात् तु येऽन्ये प्रासादाः स्मृतास्तेऽनेकरूपिणः ॥
सर्वेषामेव देवानासभेदेन भवन्ति ते ।
v1.c67.115
जगत्यां विस्तरः कार्यः प्रासादोच्छ्रयसंमितः ॥
गर्भार्धेनोच्छ्रयस्तस्याः शुभदः परिकीर्तितः ।
मण्डपस्य पञ्चांशार्धौ(?) पञ्चमांशादथ स्मृतः ॥
कर्णप्रासादकाः कार्याः प्रासादस्य त्रिभागतः ।
पूर्वापरमुखाः कार्यो एते याम्योत्तराननाः ॥
ऐन्द्रे याम्ये वारुणे च कौबेरे च यथाक्रमम् ।
दिग्भागेषु चतुर्ष्वेपु वलभीं विनिवेशयेत् ॥
गर्भविस्तारविस्तीर्णां द्वौ त्रिभागौ सुखायतम् ।
इति बाह्यपरीवारे जङ्घा प्रासादमानतः ॥
तिर्यंगायतमारोप्य सूत्रं गर्भेण मण्डपे ।
(गुरुकक्षोऽथ?) कर्तव्या गवाक्षस्तम्भसंयुताः ॥
प्रासादविस्तरात् कार्यो द्विगुणो मण्डपः सदा ।
मण्डपस्य(स?स्व) विस्तारा(द्)जगती द्विगुणा बहिः ॥
v1.c67.116
कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपिवा ।
तेषामध्यर्धतः कुर्याद् वलभीनां निवेशनम् ॥
अनेन क्रमयोगेन बाह्याद् बाह्यं सुसंवृतम् ।
य(दा?था)हि शोभते राजा केयूराङ्गदकुण्डलैः ॥
तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः ।
ध्वास्यार्हास्यातिसौम्य(?)श्रीकीर्तिविजयावहः ॥
अनेन विधिना न्यस्तः प्रासादः स्यात् सदा नृणाम्।
आदित्यं पूर्वतो न्यस्येत् कुमारं पूर्वदक्षिणे ॥
दक्षिणे मातृदेव(नै?वां)स्तु गजास्यं दक्षिणोपरि ।
विन्यसेद् वारुणे गौरीं वायव्येऽपि च चण्डिकाम् ॥
विष्णुं कुबेरदिग्भागे तथैशान्यं महेश्वरम्।
अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥
तत्रैशान्यं दिशि न्यस्येदीशानं लोकनायकम् ।
दानवानां निहन्तारं पूर्वस्यामपि वासवम् ॥
वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे ।
नैर्ऋत्यां निर्ऋतिं न्यस्येत् प्रतीच्यां तु प्रचेतसम् ॥
वायुं वायव्यदिग्भागे कुबेरमपि चोत्तरे ।
अष्टौ ह्येते महात्मानो लोकपालाः प्रकीर्तिताः ॥
पालयन्ति जगत् सर्वं स्वस्वस्थाने प्रतिष्ठिताः ।
पुर(कर्कट?कर्वट)दुर्गेषु ग्रामेषु नगरेषु च ॥
क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः ।
विमानलक्षणं चैव संक्षेपादुच्यतेऽधुना ।
तैत्तिलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥
एकभूमिविमानादिरविभूष्यवसानकम् ।
भक्तिसंख्या (ख्यां) तदाकारं स्थू(स्तू) पिकाद्यैश् (दि) च लक्षणम् ॥
लुप्तमानक्रियं सर्वं स्तूपिकास्थानकं क्रमात् ।
खानयेद्भुतलं श्रेष्ठं पुरुषाञ्जलिमात्रकम् ॥
जलान्तं वा शिलान्तं वा पूरयेद्वालुकैर्जलैः ।
हस्तिपादाकृतिं (ति) दारुस्तम्भेन (च) प्रहारयेत् ॥
एवं दृढकरं (कृतं) चोर्ध्वं यथाशास्त्रं (हर्म्यं) तु कारयेत् ।
एकभूमिविमाने तु चोक्तवस्करसंग्रहम् ॥
एकभक्त्या विभक्त्या वा त्रिचतुष्पञ्चभागिकम् ।
षड्भागं षड्विधं प्रोक्तं क्षुद्रमेकतलं भवेत् ॥
पञ्चषट्सप्तभागं स्यान्मध्यममेकतलं भवेत् ।
षट्सप्ताष्टविभागं स्यात् श्रेष्ठमेकतलं भवेत् ॥
v1.c67.117
पञ्चषट्सप्तभक्त्या च क्षुद्रं च द्वितलं भवेत्।
षट्सप्ताष्टभक्त्या च मध्यमं द्वितलेन (लमेव) च॥
सप्ताष्टनवभागं स्यादुत्तमं द्वितलं न्यसेत्।
सप्ताष्टभक्तिकं कुर्यात्क्षुद्रं च त्रितलं भवेत्॥
नन्दपङ्क्त्यंश (शं) तेनैव मध्यमं त्रितलं भवेत्।
एकपङ्क्त्यर्कभागेन चोत्तमं त्रितलं भवेत्॥
अष्टनन्ददशांशं स्यात्क्षुद्रमाने चतुस्तले॥
नन्दपंक्तिकरुद्रभागं स्यान्मध्यमे च चतुस्तले॥
पंक्तिरे (क्त्ये) कादशार्कं भागं श्रेष्ठे चतुस्तले।
नन्दपङ्क्त्येकादशार्कं भागं सप्तविशालकम्॥
कुर्यात्तु शिल्पविद्भिद्भिः क्षुद्रपञ्चतले न्यसेत्।
पङ्क्त्येकपङ्क्तिर (ङ्क्त्यै) कांशः(श)द्वा (त्रयोदशांशे विशालके॥
एतत्तु मध्यमं पञ्चतलं हर्म्ये (ए) व कारयेत्॥
ईशद्वादशकैकार्कं मनुभागं तथैव च।
एतद्भागविशाले तु श्रेष्ठं पञ्चतलं भवेत्।
अर्कंसैकार्क-भागं तु मनुपञ्चा (ञ्च) दशांशकम्॥
एतद्वै पूषके कुर्यात्क्षुद्रषट्तलहर्म्यकम्।
सैकार्कांशं मुनि चांशं तिथिपोडशभागिकम्॥
षट्तलं मध्यमं प्रोक्तं कुर्याद्धर्म्यविशालकम्।
त्रिचतुः(तुष्) पञ्चषट्सैकाधिकं दशभागिकम्॥
श्रेष्ठं षट्तलमित्युक्तं यथा कुर्याद्विचक्षणः।
चतुर्दशांशंकपञ्चदशांशं षोडशांशकम्॥
सप्तदशाष्टपङ्क्त्यंशं क्षुद्रसप्ततलं तु वा।
पञ्चा (ञ्च) दशांशकं चैव षोडशांशकमेव वा॥
सप्ता (प्त) दशांशकं भागं चाष्ट पङ्क्त्यंश भागिकम्।
एतन्मध्यममाने तु कुर्यात् सप्तभूमिके॥
विस्ताराष्टद्विभागं च तत्सप्तदशभागिकम्।
तदष्टादशभागं स्यान्नन्दपङ्क्त्यंशमेव वा॥
श्रेष्ठं सप्ततलं प्रोक्तं कुर्यात्तत्र विचक्षणः।
सप्ता(प्त) दशांशकं चैव विस्तारा(रम) ष्टादशांशकम्॥
नवपङ्क्त्यशकं चैव विशाले द्विद्शांशकम्।
क्षुद्रमष्टतलं ह्येवं रम्यं कुर्यात्तु भागतः॥
नवमेव द्विभागं स्यान्नन्दपङ्क्त्यंशकं तथा।
विंशत्यां(त्यं)शक शसेक)माधिक्यं भागं हर्म्याविशालके॥
मध्यमाष्टतलं कुर्याद्भागमानविमानके।
v1.c67.118
नवाधिकदशांशं स्याद्विंशतिश्चैकविंशतिः ॥
द्वाविंशतिश्च भागं च श्रेष्ठमब्दतलं तथा ।
विंशत्यंशं विशाले तु चैक (सैकं) हस्तं तथैव च ॥
द्वाविंशतिं च भागं च त्रयोविंशतिभागिकम् ।
क्षुद्रं नवतलं ह्येवं कुर्याद्भागं विमानके ॥
एकविंशतिभागं च तद् द्वाविंशतिभागिकम् ।
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ॥
मध्यमं (र्ध्यं) नवतलं कुर्यान्मध्यमे तद्विशालके ।
द्वाविंशति(तिश)च भागं स्यात्तन्नयोविंशतिभागिकम् ॥
चतुर्विंशतिकं चे (चापि) पञ्चविंशतिकांशकम् ।
श्रेष्ठं नवतलं प्रोक्तं कुर्यात्तु शिल्पवित्तमः॥
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ।
पञ्चविंशतिभागं च षड्विंशतिभागिकम् ॥
क्षुद्रं दशतलं कुर्याद्भागं समय (मध्य) विशालके ।
चतुर्विंशतिकं चैव पञ्चविंशतिकं तथा ॥
षड्विंशतिञ्च भागं च सप्तविंशतिभागिकम् ।
मध्यमं(र्ध्यं) दशतलं कुर्याद्विमानस्य विशालकम् (के) ॥
पञ्चविंशतिभागं स्यात्षड्विंशतिभागिकम् ।
सप्तविंशतिभागं स्यादष्टाविंशतिभागिकम् ॥
श्रेष्ठं पङ्कित्तलं कुर्याद्भागं हर्म्यविशालके ।
षड्विंशतिश्च भागं स्यात्सप्तविंशतिभागिकम् ॥
अष्टाविशतिभागं स्यान्नवविंशतिभागिकम् ।
क्षुद्रमेकादशतलं भागमानविशालके ॥
सप्तविंशतिभागं च अ(तु चा) ष्टाविंशतिभागिकम्।
नवविंशतिकं चैव त्रिंशद्भागविशालकम् ॥
एकादशतलं प्रोक्तं मध्यमं तद्विमानके ।
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ॥
ततृत्रिंशतिकं चैव चैकत्रिंशांशकं तथा ।
एकादशतलं श्रेष्ठं हर्म्यं मूलविशालके ॥
नवविंशतिभागं स्यात् त्रिंशदंशविशालके (कम्) ।
एकत्रिंशद्विभागं स्याद् द्वात्रिंशां (शदं) शकं भवेत् ॥
क्षुद्रद्वादशभूमिः स्याद्भागमेवं प्रकल्पयेत् ।
विशाले त्रिंशदंशं स्यादेकत्रिंशं च भागिकम् ॥
द्वात्रिंशद्विभागं चैव त्रयस्त्रिंशं द्विभागिकम् ।
मध्यमं द्वादशभूमिं(स्या)[च]भागमानं विशालके ॥
v1.c67.119
द्वात्रिंशतिभागं स्यात्त्रयस्त्रिंशच्च भागिकम्।
चतुस्त्रिंशतिभागं च पञ्चत्रिंशद्विशालके ॥
श्रेष्ठद्वादशभूम्याश्च भागं कुर्याद्विचक्षणः।
कर्णपादस्य बाह्ये तु मध्यपादस्य मध्यमे ॥
v1.c67.120
विमानेषु भूमिलम्ब-विधानं यथा
v1.c67.121
भूमिलम्बविधानं तु वक्ष्ये संक्षेपतः क्रमात्।
चतुरश्रम्रायताश्रं वर्तुलं च तदायतम्॥
अष्टाश्रं च षडश्रं च द्व्यश्रवृत्तं तथैव च।
एतद् विन्यासमेदं स्यात् क्षयवृद्धिविधानतः॥
भूमिलम्भमिति प्रोक्तं त्रिचतुर्हस्तमानतः।
द्विद्विहस्तविवृद्ध्यैकं भूमेर्मानं चतुष्टयम् ॥
पञ्चषड् हस्तमारम्य द्विद्विहस्तविवर्धनात्।
द्वितले तु चतुर्मानं रुद्रभानुकरान्तकम्॥
सप्ताष्ट हस्तमारभ्य द्विद्विहस्तविवर्धनात्।
पञ्चदशरविकरान्तं त्रितले पञ्चमानकम्॥
नवपङ्क्तिकराद् यावत् पक्षशोडशहस्तकम्।
चतुष्पञ्चतलं प्रोक्तं चतुर्मानं सनातनम्॥
एकहस्तं द्विहस्तं वा क्षुद्रमेकतलं स्मृतम्।
युग्मायुग्मकरैर्मानैर्हस्तार्धोनसमन्वितैः ॥
केचिद् वदन्ति देवानां मानुषाणां विमानके।
विस्तारे सप्त षट पञ्च चतुर्र्थ्यंशेऽधिकं त्रिभिः॥
शान्तिकं पौष्टिकं जयदमद्भुतं सार्वकामिकम्।
उच्छ्रायं द्विगुणं पादार्धाधिकं चापि सम्मतम्॥
पञ्चदशकरव्यासाद्धीनं क्षुद्रविमानकम्।
सप्ताष्टाधिकपङ्क्त्यादि द्विद्विहस्तविवर्धनात् ॥
आसप्ततेश्रुतुभूम्यादीनि त्रीणि मतानि च।
सप्तविंशतिभेदानि द्वादशान्तान्यनुक्रमात्॥
त्रिचतुर्विंशतिरत्नेर्यावच्छतकरान्तकम् ।
त्रित्रिहस्तविवृद्ध्या तु त्रिनवोत्सेधमिष्यते॥
एवमुक्तप्रमानेषु श्रेष्ठमध्याधमं भवेत्।
त्रिचतुष्पङ्क्तिहस्तादि द्विद्विहस्तविवर्धनात्॥
पञ्चषष्टिहस्तान्तं सङ्ख्यया पूर्वसंस्कृतिः।
चतुस्तलविमानादि द्वादशान्तं विधीयते॥
सप्ताष्टपङ्क्तेरारभ्य त्रित्रिहस्तविवर्धनात्।
v1.c67.122
पञ्चषष्ट्णवतियावदुच्चं प्रागिव सङ्ख्यया ॥
श्रेष्ठमध्यकनिष्ठं स्यादेवं मध्यक्रमेषु च ।
नवपङ्क्तिकरात् पञ्चषट्पञ्चाशत्करान्तकम् ॥
द्विद्विहस्तविवृद्ध्या तु चतुर्विंशतिसंख्यया ।
पञ्चादिद्वादशान्तानां हर्म्याणां विपुलं क्रमात् ॥
सप्ताष्टनवभूमानां धाम्नामुक्तप्रमाणतः ।
युञ्ज्याद् द्वादशभूम्यन्तं विमानं मानविद्वरः ॥
द्विः षट् त्रयोदश दमन्तषोडशद्मं यथाक्रमम् ।
षट् षट् षट् सप्तपञ्चाशद्धस्तन्यासैः शिवोदितम् ॥
विस्तारं स्तम्भतो बाह्ये जन्मात् स्तूप्यन्तमुन्नतम् ।
के चदाशिखरान्तं तु प्रवदन्ति तदुन्नतम् ॥
महतामुच्छ्रयो हस्तैरुद्देशः समुदाहृतः ।
तत्तद्व्यासे तु सप्तांशे निर्देशोद्यं त्रियंशकैः ॥
विस्तारद्विगुणोत्सेधं युक्त्याल्पेषु प्रयोजयेत् ।
देवानां सार्वभौमानामाद्वादश तलं मतम् ॥
रक्षोगन्धर्वयक्षाणामेकादशशतलं मतम्
विप्राणां नवभौमं स्याद् दशभौममथापि वा ।
युवराजस्य राज्ञश्च पञ्चमस्यैव सप्तभूः ॥
तदाद्येकादशतलं षण्णां वै चक्रवर्तिनाम् ।
त्रिभूमं चतुर्भूमिं वणिजां शूद्रजन्मनाम् ॥
राज्ञां पञ्चतलं वापि मतं पहभृतां तु तत् ।
शतहस्तसमुत्सेधात् सप्तत्या रत्निविस्तरात् ॥
नेष्यतेऽधिकं मानं तु सर्वथा तद्विचक्षणैः ॥
क्षुद्रल्पमध्यमवराद्विविमानकानां .
व्यामिश्रहस्तकयुजां . विपुलोच्चभेदम् ।
युक्त्यायथोदितमजाद्यमरेश्वराणां .
नृणां तथैव कथितं हि मया पुराणैः ॥
v1.c67.123
गोपुर-लक्षणम्
v1.c67.124
एकादिनवभौम-गोपुर-विधानम्—
v1.c67.125
देवालयानां भूनेतुर्भवनानां पुरमपि ।
ग्रामाणामपि दुर्गाणां शालानामपि सद्मनाम् ॥
मुखद्वारेषु कर्तव्यं गोपुरं शिल्पिभिः क्रमात् ।
शैलीमानं तु संयोज्यमिह स्थपतिभिर्मतम् ॥
अनुलोमादिमानं वा मार्गविस्तारमानकम् ।
कल्पनाबर्गमानं वा गोपुरारम्भकर्मणि ॥
v1.c67.126
निश्चित्य मतिमाञ्छिल्पी भूमिलम्बनमाचरेत् ।
त्रिभागसादिमध्यान्तं विभज्यायाममानितम् ॥
भूतलं भूमिलम्बञ्च भूनिर्माणं समाचरेत् ।
मुखे सध्ये पृष्ठतले तल्लक्षण वाऽधितक्षणम् ॥
रेखादिभिः समायुक्तमथवा बहुचित्रकम् ।
मध्यालिन्दसमोपेतमथवाऽङ्गलहीनकम् ।
एकभौमयुतं कार्यं क्वचिद् ग्रामादिषु स्थिरम् ॥
साधिष्ठानस्तम्भयुतं तदेवोन्नतकायकम् ।
वेदिकोपरिजालारूढ्यं शिखरत्रयभासुरम् ।
त्रितलेन समायुक्तं कर्णनासादिमण्डितम् ॥
त्रितलं गोपुरं प्रोक्तं शिल्पविद्भिः पुरातनैः ।
ग्रामे देवालये स्थाप्यं ग्रामद्वारे विशेषतः ॥
मठमण्डपमुख्यस्य कल्पनस्य पुरःस्थले ।
ससोपानं चतुर्थादिभौमकल्पनशोभितम् ॥
बृहत्तलमुखोपेतं पञ्चाभि शेशखरैर्युतम् ।
मध्याधिष्ठानसंयुक्तमग्रपट्टादिभूषितम् ॥
अलिन्दद्वयभाग्यान्तं सपादं वा विपादकम् ।
देवीनां भवनद्वारे देवानां च पुरामपि ॥
भूपालभवनद्वारे दुर्गाणां च मुखस्थले ।
ग्रामाणां च सुखद्वारे कल्पनीयं विशेषतः ॥
बहुतोरणसंयुक्तं तलदेवादिभूषितम् ।
तलस्तम्भयुतं वापि कल्पयेत्पञ्चभूमिकम् ॥
गोपुरं शिल्पविद्याज्ञो यथाशोभं यथाबलम् ।
तदेवात्युन्नततलं वैशाल्यादिसमन्वितम् ॥
अलिन्दस्तम्भसंयुक्तं तलस्तम्भैश्च धारितम् ।
द्वारद्वयं द्वारपट्टद्वयेन परिशोभितम् ॥
मध्याङ्गणद्वययुतं देहलीवेदिकायुतम् ।
तत्र सोपानपङ्क्तिर्वा चित्रं वा बहुरूपकम् ॥
अधोभागे द्वारयुग्मं किन्नरोयुग्मभासुरम् ।
मध्यभागे लतारूपं सगुच्छं सममेदुरम् ॥
मौलिभागे कुम्भगुच्छसरोजमुकुलान्वितम् ।
तिर्यक्पट्टिकयुग्मेषु मध्ये वा पार्श्वयोस्तथा ॥
शतपत्रं पङ्कजं वा हंसाकृतिस्तथापि वा ।
युक्त्या मनोहरं स्थाप्यं सौवर्णं राजतं तु वा ॥
द्वारपट्टिकभागेषु किङ्किणीरेखिका मता ।
v1.c67.127
द्विद्विभागविभक्तेषु तलेषु बहुचित्रकम् ॥
देवरूपं स्थापनीयं नानाजङ्गमहाप्रपे ।
कूटै . वा क्षुद्रवलभीभागे वा पुण्यदर्शकम् ॥
तत्रोपरि विमानादिशिखराणि च कल्पयेत् ।
कल्पनं चित्रकं वापि स्थानकं शालकं तु वा ॥
समञ्च विषमैर्हीनं युक्त्या मानेन तद्बुधः ।
योजयेदिष्टिकाभिश्च सुधाभिरपि सिद्धये ॥
पीतादिवर्णकलनं योजयेद्वा विचक्षणः ।
द्वादशाङ्गुल्कं वापि चतुर्विंशतिकं तु वा ॥
पक्षयोरुभयोः पङ्क्ति कल्पयेत्सुधयापि वा ।
मध्यद्वारतलं युक्त्या कारयेत्तलमानकम् ॥
प्रतिभौममिदं कार्यं कल्पनद्वयपङ्क्तिकम् ।
अश्वपादसमायुक्तं गजपादयुतं तु वा ॥
सक्रवाटं जलस्रावयोग्यं सर्वतलं मतम् ।
प्रकल्पयेद् दृढं शिल्पी यथाशोभं यथाबलम् ॥
सप्तभौमं गोपुरं वा नवभौमयुतं तु वा ।
देवालये पुरद्वारे क्वचिदन्यत्र वा बुधः ।
विशालमार्गमिलितं स्थापयेत्क्षेमसिद्धये ॥
v1.c67.128
प्राकार-लक्षणम्
v1.c67.129
प्राकारकल्पनं कल्पपञ्चकं प्रथमं मतम् ।
सैन्यवेशो द्वितीयन्तु तृतीयन्त्वर्गलादिकम् ॥
पृथक्कल्पक्रियोपेतं कार्याय परिकल्पते ।
दुर्गेषु राजधान्याञ्च नगरेषु विशेषतः ॥
दैवं भौपमिति प्रोक्तं द्विविधं तत्प्रकल्पयेत् ।
स्थलकल्पनयोग्यं तत्कल्पयेद् दृढसन्धिकम् ॥
प्रतिलोमानुलोमाभ्यां मानं तस्य द्विधा भवेत् ।
पादपादप्रमाणेन वर्धयेन्नृपमन्दिरे ॥
दैवेऽधिकं प्रमाणं वा तत्समं वा क्वचित्सतम् ।
दुर्गेषु कूपसंयुक्तं त्रुटनस्थानकान्वितम् ॥
क्षुद्रमण्डलयुक्तं वा स्थलमानवशान्नयेत् ।
मध्याङ्गुलिसमायुक्तं पिण्ड्यवर्धनसंयुतम् ॥
मस्तकेष्वपि वेष्टार्क पौषं नलिकसंयुतम् ॥
एवं भूपालभवनमन्दिरावरणस्थलम् ॥
आदौ वृद्धियुतं प्रायः क्रमाद्धीनं प्रकल्पयेत् ।
v1.c67.130
प्राकारकपनेष्वेवं दैविकेषु तथा मतम् ॥
चतुरश्रं न्यासहीनं दैविकं संप्रकल्पयेत् ।
मण्डलं वरणस्थानं शुभदं नृपमन्दिरे ॥
पर्वते वा भूमिभागे कल्पने विविधे मतम् ॥
समद्वारयुतं वापि विषमस्थानवेशकम् ॥
समसूत्रप्रमाणेन पादहीनादिभेदतः ।
हरेर्हरस्य धातुर्वा तत्तच्चिह्नं प्रयोजयेत् ॥
कोणेषु मध्यतालेषु पार्श्वे प्राकारकल्पने ।
सुधालेपितकैर्नञ्जयोजनैस्तक्षकैरपि ॥
मिथोबन्धनसंयुक्तं शैलसैष्टिककल्पनम् ।
भूमिलम्बनसंयुक्तपार्श्वोपान्ततलक्रियम् ।
स्थापयेन्मतिमान्युक्त्या रक्षाप्राकारकल्पनम् ॥
v1.c67.131
बल्यर्थं परिवारार्थं शोभार्थं रक्षणार्थकम् ॥
पञ्चप्राकारहर्म्याणामधुना वक्ष्यते क्रमात् ।
जात्यादिभेदहर्म्याणां तन्मानेन तु विन्यसेत् ॥
जातिप्राकारसर्वेषां हस्तमानेन योजयेत् ।
छन्दा सर्वशालानां प्रासादांशेन मानयेत् ॥
जातीनां जातिसालानां हर्म्यतारं विभाजिते ।
तदूर्ध्वे वेदिकादीनां ग्रीवमूर्ध्नि शिखान्तकम् ॥
समकन्धरवृद्धिः स्यात्पञ्चसालावसानकम् ।
छन्दादिपञ्चसालां च छन्दाद्यंशेन मानयेत् ॥
जीर्णप्रसादविस्तारे विन्यसेत्सकलं पदम् ।
आदिशालां ततः कुर्यादन्तर्मण्डलमीरितम् ॥
द्वितीयमन्तर्हारा च मध्यहारा तृतीयकम् ।
प्राकारं तच्चतुर्थं च कथितं तन्मयादिकम् ॥
ततः पञ्चमशालां च महामर्यादामीरितम् ।
पञ्चशालमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ॥
तत्पीठपदविन्यासश्चादिशालविशालके ।
तथा द्वितीयशाले तु स्थण्डिलपदं विन्यसेत् ॥
तन्तत्कुर्यात्तु शालायां तृतीये चोभयण्डितम् ।
सुसंहितपदं मध्ये मर्यादाया विशालके ॥
महामर्यादाविस्तारे पदमीश्वरकान्तकम् ।
एवं तु जातिशालां च कुर्याद्धर्म्यवलात्सुधीः ॥
पेचकं मूलहर्म्ये तु छन्दादीनां प्रवक्ष्यते ।
प्रथमं तु महापीठं द्वितीयं चण्डितं पदम् ॥
v1.c67.132
तृतीयं भद्रसंयुक्तं ततः शालाबहिस्तथा।
चतुर्थं सुप्रतीकान्तं पञ्चमं चन्द्रकान्तकम्॥
एतच्छन्दं प्रकर्तव्यं विकल्पं तदिहोच्यते।
छन्दप्राकारविस्तारे सार्धार्धेन कराधिकम्॥
प्रथमात्पञ्चमानं स्यात्सार्धं युग्मकरान्तकम्।
एवं विकल्पमानं स्यात्पञ्चशाला प्रकीर्तिताः॥
v1.c67.133
विमान-वैशिष्ट्ये—
v1.c67.134
स्तूपिकाश्चापि देवानानयुग्माश्चैव शोभनाः।
युग्मा एव मनुष्याणां प्रशस्ताःसर्वधामसु॥
शिखरे स्तूपिकास्थाने कार्या मूर्ध्नष्टका तथा।
तत आच्छाद्य शिखरं द्रव्यैः कार्तस्वरादिभिः॥
स्तूपीदण्डं समाच्छाद्य कलशं चैव विन्यसेत्।
पञ्चतारात् सपादां स्यात् स्तूपीकुम्भविशालकम्॥
विस्तारेण सपादां वा सार्धं वा स्तूपिकोच्छ्रयम्।
पङ्कजं तोरणस्तक् च क्षेपणं पत्रक्षेपणम्॥
धृक् च कम्पं च पद्मं च वेत्रत्रितयकुङ्मलौ।
एवं तस्यैवावयवं यथाशोभं समाचरेत्॥
चतुरष्टाद्विरष्टाश्रं सधारं वर्तुलं तु वा।
स्यादाकृतिः सुरोर्वीशविप्राणां च विशां मतम्॥
v1.c67.135
स्तूपीकीलायतं तारं लक्षणं वक्ष्यतेऽधुना।
ऊर्ध्वभूम्या यथा पादं तस्या याम (मं) समं तु वा॥
गलश्राध्यकं तुङ्गं वा स्तूपीकीलायतं तथा।
तद्विष्कम्भ सम(मं) व्यासं स्तूपीकीलस्य मूलके॥
अथवाऽङ्गुलभागेन कीलमूलं विशालकम्।
त्रिचतुर्विंशाङ्गुलं लोहे दारुकीलं तु (व) पूर्ववत्॥
कीलायामं त्रिभागैकं मूले वेदाश्रमीरितम्।
मध्ये चाष्टाश्रसंयुक्तं चाग्र(ग्रे) वृत्तावृत्तिस्तथा॥
पञ्चाङ्गुलाग्रविस्तारं मूलाग्रान्तं क्षयं(य) क्रमात्।
अथवा शिखराकारं कीलं मध्याकृतिस्तथा॥
स्तूपीकीलविधृता(स्तुतिः) त्रिगुणा स्याद् वहिश्चरणा हैर्ध्वमुक्तम्।
कीलाधार विस्तृतार्ध(र्धं) तद्धनं तत्कीलमूलमथ तत्र योज्यम्॥
ताम्रजं चायसं दारु(जं) लभेत् कीलं प्रकल्पयेत्।
खदिरं खदिरं चैव तिन्त्रिणी क्षारमेव च॥
उक्तवदारु संगृह्य स्थपतिः स्थापकैः सह।
v1.c67.136
तत्काले स्थापयेद्विद्वान् स्तूपीकीलस्य चक्रकम् ॥
ऋज्वङ्गं च न भिन्नानि (नं च) तक्षणात्तक्षकेण तु ।
स्तूपीकीलमिदं प्रोक्तं तदूर्ध्व्राष्टकलक्षणम् ॥
मानं प्रागुक्तवत्कुर्यात् पुंस्त्री चेष्टाकां विदुः ।
मूलाग्रं च समतारं तु चेष्टाका (कं) पुरुष (षं) स्मृतम् ॥
आनुपूर्व्यं कृशं तारं वनिता चेष्टका तथा ।
शिलाहर्म्ये शिलायुक्तं चेष्टकं चेष्टका तथा ॥
पुंविमानङ्ग (नेच) पुरुषं वनिता (यां) वनितां क्षिपेत् ।
शिलासंग्रहकाले तु ज्ञापयेत्पुंस्त्रियं तथा ॥
स्तूपितुङ्गद्वयं वाथ विमानं च (नस्य) वशो (शाद) दयम् ।
एतत्तु शिखरोत्तुङ्गं तदर्धं गलतुङ्गकम् ॥
लुपारूपं शिखरं स्याञ्जीवान्तं तत्पवासनम् ।
तत्तारादिमृणालान्तं प्रस्तत्योक्तवङ्गले (लम्) ? ॥
तदूर्ध्वे दण्डकं कुर्याल्लुपमानं यथाक्रमम् ।
अम्बरं च व्ययं (वियज्) ज्योतिर्गगनं च विहायसि (यश्च) ॥
अनन्तं चान्तरिक्षं च पुष्कलं चाष्टधा लुपाः ।
देवानां हर्म्यके कुर्यादुक्तमेनं पुरातनैः ॥
मही ज्या कश्यपी क्षौणी चोर्वी गोमावसुन्धरा ।
वसुधा चाष्टधा प्रोक्ता कारयेत् मानुषालये ॥
सर्वेषां देवतायोग्यं नराणां चोक्तयोग्यकम् ।
सुराणां मुक्तमानं यन्मर्त्यै र्तमेष्य (प्यं) यत्नतः ॥
v1.c67.137
प्रासाद-निर्माणे इष्टापूर्तसिद्धिः
v1.c67.138
एवमेष चतुःशृङ्गश्चतुर्द्वारोपशोभितः ।
मेरुर्मेरुषमः कार्यो वाञ्छता शुभमात्मनः ॥
सर्वस्वर्णमयं मेरु यद् दत्वा पुण्यमाप्नुयात् ।
तमिष्टकाशैलमयं कृत्वा तदधिकं भजेत् ॥
जयं लक्ष्मीं यशःकीर्ति सर्वाणीष्टफलानि च ।
करोति सर्वतोभद्रं सर्वतोभद्रकः कृतः ॥
विधाय सर्वतोभद्रं देवानामालयं शुभम् ।
लभते परमं लोकं दिवि स्वच्छन्द-भाषितम् ॥
पुराणां भूषणार्थाय भुक्तिमुक्तिप्रदाः नृणाम् ।
श्रीधरं कारयेद् यस्तु कीर्त्यर्थमपि मानवः ।
इहैव लभते सौख्यममुत्रेन्द्रत्वमाप्नुयात् ॥
भोगान भुक्त्वा पुमान् स्वर्ग नीयते चपरे पदे ।
v1.c67.139
सर्वैःपापविनिर्मुक्तः शान्तश्च स्यात्र संशयः॥
प्रासादं ये सुभद्राख्यं कारयन्ति सुलक्षणम्।
कल्पकोटिसहस्राणि भद्रं तेषां शिवाग्रतः॥
कुर्याद् य एनं प्रासादमीदृशं सुरसुन्दरम्।
स नौरिन्द्रं युगशतं सूर्यलोके महीयते॥
भक्त्या ये कारयन्त्येनं नन्द्यावर्त्तमनुत्तमम्।
विमानं शुभमारूह्य शक्रलोकं व्रजन्ति ते॥
यः कुर्यात् कारयेद् यस्तु सिद्धार्थं सर्वकामदम्।
स भवेत् सर्वकामाप्तिः शिवलोके च शाश्वतः॥
यः शङ्कवर्धनं कुर्यात् स भुनक्ति चिरं महीम्।
वशगा चास्य सततं भवेल्लक्ष्मी कृताञ्जलिः॥
त्रैलोक्यभूषणं ब्रूमो वन्दितः त्रिदशैरपि।
आश्रयं सर्वदेवानां पापस्य च विनाशकम्॥
त्रैलोक्य-भूषणं कृत्वा त्रिदशानन्दकारकम्।
कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम्॥
पद्माख्यः कारितो येन प्रासादो रतिवल्लभः।
आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः॥
पञ्चबाहुः कृतो येन त्रिगर्भः कर्मभूषितः।
स त्रिनेत्रप्रतापः स्यात् तुरङ्गव्रातनायकः॥
अथ लक्ष्मीधरं ब्रूमो यं कृत्वा विजयं नरः।
राज्यमायुष्यपूजाञ्च गुणानाप्नोति वैश्वरान्॥
लक्ष्मीधराख्यं प्रासादं यः कुर्याद् वसुधातले।
अच्युते स पदे तत्त्वे लीयते नात्र संशयः॥
रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम्।
अप्सरोगण-संकीर्णं कामदेवस्य मन्दिरम्॥
एवं विधं यः कुरुते प्रासादं रतिवल्लभम्।
सन्तोषयति कन्दर्पं स्याज्जनेषु स पुण्यभाक्॥
सिद्धिकाममथ ब्रूमो प्रमथैरुपशोभितम्।
धन-पुत्र-कलत्राणि कृते यत्राप्नुयान्नरः॥
नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम्।
य एनं भक्तितः कुर्यात् स भवेदजरामरः॥
यः करोति सुरानन्दं वरदास्तस्य मातरः।
सुरास्तस्य ह्यनिस्तार्यमपमृत्युं हरन्ति च॥
हर्षणः क्रियते यत्र स देशः सुखमेधते।
क्षेमं गोब्राह्मणानां स्यात् पूर्णकामश्च पार्थिवः॥
v1.c67.140
दुर्जयः क्रियते यत्र पुरे नगरेऽथवा॑ ।
न भवेत् तत्र दुर्भिक्षं न च व्याधिकृतं भयम् ॥
ब्रूमोस्त्रिकूटं ब्रह्माद्यैः सेविंतं त्रिदशैस्त्रिभिः ।
फलं क्रतुसहस्रस्य येन मोक्षं च विन्दति ॥
प्रासादस्यास्य कर्ता च यावच्चन्द्रार्कतारकम् ।
तावदिन्द्र इव स्वर्गे क्रीडंत्यपसरसां गणैः ॥
भुक्त्वा भोगांश्च कैलासे कल्पान्ते यावदीप्तिंतम् ।
शार्वं पदमंवाप्नोति शान्तं ध्रुवमनामयम् ॥
कृत्वा त्रिविष्टपं दिव्यं प्रासादं पुरभूषणम्
वसेत् त्रिविष्टपे तावद् यावदाभूतसंप्लवम् ।
तस्यान्ते तु परे तत्त्वे लयमाप्नोति मानवः
गुणवान् नृपतिर्यद्वद् भूषयत्यखिलां महीम् ।
क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः
द्रव्येषु रेणुसंख्या या सुधायामपि यावती ।
तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ।
तदेकेन विमानेन फलमाप्नोति मानवः
निर्मापयन् नरः कश्चिन्मुक्तकोशं महायशाः
संप्राप्नोति महासौख्यं विमुक्तः सर्वपातकैः ।
सर्वद्वन्द्वविनिर्मुक्तः सर्वकिल्बिषवर्जितः ।
सर्वपापविनिमुक्तो भोगं मोक्षं च विन्दति ॥
इमं दिग्भद्रसंज्ञं यः प्रासादं कारयेत् पुमान् ।
शतक्रतुफलं सोऽपि लभते नात्र संशयः ॥
महाभद्रमिमं योऽत्र कारयेद् भक्तिमान् नरः ।
स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया ॥
मलयाद्रिरयं प्रोक्तः प्रासादः शुभलक्षणः ।
य एनं कारयेत् तस्य तुष्यन्ति संकलाः सुराः ॥
वर्षकोटिसहस्राणि स्वर्गलोके महीयते ।
भुक्ति-मुक्ति-प्रदातारं…………… मण्डनम् ॥
Linked texts (6)
- Samarāṅgaṇasūtradhāra — Bhoja, Sanskrit
- Mānasāra — Sanskrit
- Īśānaśivagurudevapaddhati — Īśānaśivagurudeva, Sanskrit
- Bṛhatsaṃhitā — Varāhamihira, Sanskrit
- Durjaya
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit