Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36: Appendix B. प्रतिमालक्षणानि

Elements of Hindu Iconography v4.c36

Language
English

Contents

Appendix B. प्रतिमालक्षणानि

लिङ्गलक्षणम् ।

v4.c36.s1.1

लिङ्गं स्थावरजङ्गमाख्यभिदया द्वेधा तु पूर्वं पुनः षड्भेदं क्षणिकादिभेदवशतः तत्रापि चार्काश्विनौ । अष्टाष्टापि च सप्तधा च नवधा भेदाः क्रमात्स्युः पुनः प्रोक्तं मानुषके पुनर्द्विविधं धारामुखाद्यैर्भवेत् ॥

v4.c36.s1.2

व्या—लिङ्गं भूतानि लयमास्मिन् गच्छन्तीति लिङ्गम् ।

v4.c36.s1.3

तदुक्तं सुप्रभेदे—

v4.c36.s1.4

लयं गच्छन्ति भूतानि संहारे निखिलं यतः ।
सृष्टिकाले पुनस्सृष्टि तस्माल्लिङ्गमुदाहृतम् ॥ इति ॥

v4.c36.s1.5

एतलिङ्गं स्थावरजङ्गमाख्यभिदया स्थावरं जङ्गमं चेत्याख्या यस्याः, भिदया भेदः तया, द्वेधा स्थावरं जङ्गममिति द्विविधार्थः ।

v4.c36.s1.6

तदुक्तं कारणे—

v4.c36.s1.7

अतः परं प्रवक्ष्यामि लिङ्गलक्षणमुत्तमम् ।
स्थावरं जङ्गमं चैव द्विविधं लिङ्गमुच्यते ॥
शिलामयं तु यद्रूपमजविष्णुहरैर्युतम् ।
त्रिसूत्रं मुकुलैर्युक्तं स्थावरं लिङ्गमुच्यते ॥
शेषान्यन्यानि सर्वाणि जङ्गमं लिङ्गमुच्यते । इति ॥

v4.c36.s1.8

तत्पुनः द्विविधमपि पुनः क्षणिकादिभेदवतः क्षणिकमृन्मय रत्नलोहजदारुजशैलजभेदात् षड्भेदम् ।

क्षणिकलिङ्गम् ।

v4.c36.s1.t1.1

तथोक्तं सुप्रभेदे—

v4.c36.s1.t1.2

क्षणिकं चैव मृल्लोहरत्नजं दारुजं तथा ।
शैलजं चैव विघ्नेश ! षड्भेदं लिङ्गमुच्यते ॥
शिलामयं तु यद्रूपमविष्णुहरैर्युतम् ।
त्रिसूत्रं पुष्करैर्युक्तं स्थावरं लिङ्गमुच्यते ॥
शेषाण्यन्यानि सर्वाणि जङ्गमं लिङ्गमुच्यते । इति ॥

v4.c36.s1.t1.3

तेषामपि भेदानाह ‘तत्रापि चेति’। अर्क-द्वादशभेदतः, अश्विनौ द्वौ भेदौ, वसु१ अष्टभेदाः, पुनरप्यष्टभेदाः, सप्तधा सप्तभेदाः, नवधा नवभेदाः, एवं क्रमात्स्युः । तथा चोक्तं सुप्रभेदे—

v4.c36.s1.t1.4

क्षणिकं द्वादशं प्रोक्तं मृन्मयं द्विविधं पुनः ।
दारुजं चाष्टधा प्रोक्तमष्टधा लोहजं स्मृतम् ॥
सप्तधा रत्नजं चैव शैलजं तु चतुर्विधम् ।
रत्नजं लोहजं चैव बाणलिङ्गं चलं स्मृतम् ॥
शैलजं चाचलं प्रोक्तं मृन्मयं दारुजं तथा ।

v4.c36.s1.t1.5

एतेषां लक्षणं फलं चापि सुप्रभेदे—

v4.c36.s1.t1.6

क्षणिकानां फलं वक्ष्ये सैकतं मोक्षकाङ्क्षिणाम् ।
तण्डुलं विभवार्थिनामन्नमन्नप्रदं स्मृतम् ॥

v4.c36.s1.t1.7

१. मूले अष्टेति पदं दृश्यते ।

v4.c36.s1.t1.8

नदीमृद्भूमिलाभं स्याद्‌भूमयं रोगनाशनम् । नवनीतं मनोह्रादं रुद्राक्षं ज्ञानवर्धनम् ॥ गन्धं सौभाग्यकांक्षीणां कूर्चं मुक्त्यर्थिनां स्मृतम् । आयुष्यवर्धनं पुष्पं गुलामिष्टार्थसिद्धिदम् ॥ पैष्टं पुष्टिप्रदं प्रोक्तं क्षणिकानां फलं भवेत् । एतेषां चैव लिङ्गानां न प्रमाणं न च स्थितिः ॥

v4.c36.s1.t1.9

[मृन्मयलिङ्गलक्षणम् *॥]

v4.c36.s1.t1.10

मृन्मयं राज्यफलदं पकापकभेदकम् । शुद्धदेशे मृदं ग्राह्यं पूजाभागं सयो निकम् ॥ कृत्वा दग्धमिदं प्रोक्तं पकापकमित्युच्यते १ ।

v4.c36.s1.t1.11

कामिके—

v4.c36.s1.t1.12

श्वतां च मृदमादाय पयस्तैलदधिघृतम् । यवगोधूमचूर्णं च पयोवृक्षत्वचान्वितम् ॥ विमलेन सुगन्धेन चूर्न्यालोड्य संमृदा । श्रीवेष्टकं सर्जरसं तथा गुग्गुलशर्कराः ॥ पञ्चनिर्याससंयुक्तमथ लोकप्रसिद्धिदम् । एतेषां सङ्ख्यया तुल्यं मृदं गृह्णीत देशिकः ॥

v4.c36.s1.t1.13

सुप्रभेदे—

v4.c36.s1.t1.14

चूर्णैरालोड्य सुमुदा मासपोषितं तथा । रत्नबीजसमायुक्तं पकं लिङ्गं समाचरेत् ॥

v4.c36.s1.t1.15

¹ ‘तत्रापक’मिति सुप्रभेदपाठः ।

v4.c36.s1.t1.16

[लोहजलिङ्गम् *१]

v4.c36.s1.t1.17

लोहजाष्टभेदा यथा— सौवर्णं रजतं ताम्रं कांस्यमारकूटं तथा । आयसं सीसकं चैव त्रपुकं चेति लोहजम् ॥

v4.c36.s1.t1.18

[ लोहजलिङ्गफलम् *१]

v4.c36.s1.t1.19

सौवर्णं श्रीप्रदं प्रोक्तं रजतं राज्यसिद्धिदम् । ताम्रं पुत्रप्रदं चैव विद्वेषं कांस्यमेव च ॥ आरकूटं तथोचाटे क्षयकारकमायसम् । सीसजं रोगहरणं त्रपुरायुष्यवर्धनम् ॥ एवं तु लोहजं प्रोक्तं ततो रत्नजमुच्यते ।

v4.c36.s1.t1.20

[रत्नजलिङ्गम् *१]

v4.c36.s1.t1.21

मौक्तिकं च प्रवालं च वैडूर्य स्फटिकं तथा ॥ पुष्यं मरतकं नीलं रत्नजं संप्रकीर्तितम् । लोहरत्नादिके लिङ्गे पूजाभागं सपीठकम् ॥ यथालाभप्रमाणेन स्फटिकादीनि कारयेत् । स्फटिकादिषु कर्तव्या त्रिभागैरेव पीठिका ॥ तथायामसुविस्तारपिण्डिका शुभदा स्मृता । एकाङ्गुलं समारभ्य आ चतुर्विंशदङ्गुलान् ॥ लोहजं लिङ्गमित्याहुर्लक्षणोद्धारणं विना ।

v4.c36.s1.t1.22

[दारुलिङ्गम् ॥*]

v4.c36.s1.t1.23

दारुजाष्टकं यथा—

v4.c36.s1.t1.24

शमीमधूकमाण्डूककर्णिकारं तथैव च ।
तिन्दुकाजुनकौ चैव पिप्पलोदुम्बरं तथा ॥

v4.c36.s1.t1.25

कामिके बहव उक्ताः यथा—

v4.c36.s1.t1.26

खदिरश्चन्दनस्सालो मधूकस्सरलो मतः ।
बिल्वः कदम्बबदरौ देवदारुश्च शिंशपा ॥
पनसाजुर्नावशोकश्च क्षीरिणो रक्तचन्दनः ।
स्निग्धसाराश्च ये वृक्षाः पयसान्ये तु मध्यमाः ॥ इति ॥

v4.c36.s1.t1.27

[शैलजलिङ्गम् ।]

v4.c36.s1.t1.28

शैलजं च ब्राह्मणादिचतुर्वर्णानुसारेण चतुर्विधम् ।

v4.c36.s1.t1.29

सुप्रभेदे—

v4.c36.s1.t1.30

शिलापि च सुविज्ञेया जातिभेदात्परीक्षयेत्१ ।
श्वेता रक्ता तथा पीता कृष्णा चेति चतुर्विधा ॥
गोक्षीरशङ्खवर्णाभा ब्राह्मणानां प्रशस्यते ।
जपाबन्धूकपुष्पाभा नृपाणां प्रोच्यते क्रमात् ॥
रजनीस्वर्णसदृशा वैश्यानां तु प्रशस्यते ।
माषगुग्गुलुसङ्काशा शूद्राणां तु समृद्धिदा ॥
सर्वेषां तु शिला कृष्णा सर्वसंपत्करी स्मृता ।
सा चोषररजःक्विन्ना तप्ता चार्क्स्य रश्मिभिः ॥

v4.c36.s1.t1.31

१ ‘जातिभेदपरिक्षणैः’ इति भवितव्यम् ।

v4.c36.s1.t1.32

अग्निदग्धान्ययुक्ता या वर्जयेत्तां प्रयत्नतः । इति ॥

v4.c36.s1.t1.33

एतदारुशिलाश्च दारुशिलासंग्रहप्रकरणोक्तप्रकारेण ग्रहीतव्याः ।

v4.c36.s1.t1.34

शैलजे नवभेदा यथा ।

v4.c36.s1.t1.35

सुप्रभेदे—

v4.c36.s1.t1.36

दिव्यं स्वायम्भुवं पूर्वं दैवतं गाणपं तथा ।
आसुरं सुरलिङ्गं च आर्ष राक्षसकं तथा ॥
मानुषं बाणलिङ्गं च लिङ्गं नवविधं भवेत् ।

v4.c36.s1.t1.37

एतेषां लक्षणं यथा—

v4.c36.s1.t1.38

पताका झर्झराकारा रुद्राक्षाकृतिरेव च ।
आज्यं वा मधुगन्धं वा पातालात्पर्वताकृतिः ॥
इत्येतल्लक्षणं प्रोक्तं लिङ्गं स्वायम्भुवस्य तु ।
दिव्यं स्वायम्भुवं पूर्वमुत्तमोत्तममेव च ॥
दैवतं गाणपं प्रोक्तं मध्यमोत्तममेव च ।
आसुरं सुरलिङ्गं च आर्ष चैवाधमोत्तमम् ॥
मानुषं लिङ्गमेवोक्तं मध्यमं त्वधमं भवेत् ।
बाणलिङ्गस्य नैवोक्तं लक्षणं तु विसर्जयेत् ॥

v4.c36.s1.t1.39

मकुटे—

v4.c36.s1.t1.40

दैविकं चार्षकं चैव गाणपं मानुषं तथा ।
एवं चतुर्विधं लिङ्गं दैविके लक्षणं शृणु ॥
दीपाकारं भवेलिङ्गं निम्नोनतसमन्वितम् ।
रेखाकोटरसंयुक्तं टङ्कशूलसमन्वितम् ॥

v4.c36.s1.t1.41

यवोन्नतमुखे धारा कराञ्जलिपुटाकृति । ब्रह्मसूत्रविहीनं च दैविकं तदिहोच्यते ॥ कूष्माण्डस्य फलाकारं मातुलुङ्गफलाकृति । उर्वारुकफलाकारं कापित्यस्य फलाकृति ॥ तालीफलवदाकारं गाणपं लिङ्गमुच्यते । मूलस्थूलं भवेल्लिङ्गं नालिकेरफलाकृति ॥ लिङ्गमाषमख्यातं ब्रह्मसूत्रविवर्जितम् । द्वारं वा गर्भमानं वा हस्तमानमथापि वा ॥ शिवशास्त्रोक्तमार्गेण शिरोवर्तनया युतम् । ब्रह्मसूत्रसमायुक्तमेतन्मानुषमुच्यते ॥

v4.c36.s1.t1.42

कामिके— स्वायम्भुवं बाणलिङ्गं दैविकं चार्षकं त्विति । गाणपं मानुषं लिङ्गं षट्प्रकारं प्रकीर्तितम् ॥ यत्स्वेनैवोत्थितं लिङ्गं स्वायम्भुवमुदाहृतम् । शिवेन संस्कृतं यत्तु बाणलिङ्गमुदाहृतम् ॥ दैवेन स्थापितं दैवमार्षकमुषिपूजितम् । गणैस्संस्थापितं लिङ्गं गाणपं तदुदाहृतम् ॥ मानुषं मनुजैश्शिष्ठैः स्थापितं तदुदाहृतम् । इति ॥

v4.c36.s1.t1.43

मानुषलिङ्गे (द्वा) दशभेदा यथा—

v4.c36.s1.t1.44

लिङ्गनिर्णये— समलिङ्गं वर्धमानं शैवाधिकं च स्वस्तिकम् । सार्वदेशिकलिङ्गं च त्रैराशिकसहस्रकम् ॥

v4.c36.s1.t1.45

धारालिङ्गं च शैवेष्ट्यं मुखलिङ्गमुदाहृतम् । लिङ्गं च दशभेदं स्यान्मानुषे तत्प्रकीर्तितम् ॥

v4.c36.s1.t1.46

किरणे—

v4.c36.s1.t1.47

स्वयमुद्भूतलिङ्गस्य स्थापितस्य महर्षिभिः । दैर्वैर्वा स्थापितस्यापि रूपमानं न विद्यते ॥ तल्लिङ्गकृतिरूपेण नामभेदः पृथक् पृथक् । ज्ञातव्यः फलदश्चायं साधकेन यथार्थकः ॥

v4.c36.s1.t1.48

सार्वदेशिकलिङ्गलक्षणं यथा कारणे—

v4.c36.s1.t1.49

सार्वदेशिकलिङ्गानि कथ्यन्ते गर्भमानतः । प्रासादगर्भमाने तु पञ्चांशे त्रिभिरुत्तमम् ॥ नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् । तदवान्तरभेदेन भवन्त्यन्यानि षट् पुनः ॥ तत्तन्मन्दिरमानेन त्रयस्त्रिंशत्प्रमाणकम् । विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् ॥ एकादशांशर्मध्यं स्याद्गर्वैर्वा दशभिर्वरः । मध्यमे षड्भागेन नवलिङ्गोदयस्तु वा ॥ गर्भं तु नवधा कृत्वा नवलिङ्गोच्छ्रयस्तु वा । अधमं गर्भपातं वा त्रिभागं चोत्तमं भवेत् ॥ मध्यमेऽष्टविभागे तु तत्तदन्तरभेदतः । त्रयस्त्रिंशत्प्रमाणानि लिङ्गानि कथितानि च ॥

v4.c36.s1.t1.50

अथवा गर्भगेहस्य त्र्यंशैकमधमं भवेत् । गर्भाधं मध्यमं ज्ञेयं पञ्चत्रिंशत्परं १ मतम् ॥ पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशद्रवन्ति हि । एकहस्तं समारभ्य चैकांशेन विवर्धनात् ॥ नवहस्तप्रमाणान्तं मानं स्याल्लिङ्गदैर्ध्यकैः । एकाविंशतिभागेन गर्भगेहे विभाजिते ॥ त्रयोदशांशकं श्रेष्ठं दशांशमधमं भवेत् । पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ॥ लिङ्गायामे विकारंशे चतुर्द्विकरसंहितः । सत्रिभागशरैर्लिङ्गविस्तारं परिकीर्तितम् ॥ गायत्र्यंशे तु लिङ्गोच्चे पञ्चभिर्वा तु विस्तरः । अथवाष्टादशांशे तु लिङ्गोच्चे पञ्चभागकम् ॥ चतुर्भागोऽथवा लिङ्गविस्तारः परिकीर्तितः । दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धिभागतः ॥ विस्तारः कथितश्शास्त्रे लिङ्गानां मुनिपुङ्गवाः ! । द्वारस्तम्भाधिकश्चैव मानं लिङ्गे समूह्यताम् ॥

v4.c36.s1.t1.51

(जीर्णोद्धारदशके ।)

v4.c36.s1.t1.52

लिङ्गमानाद्विमानं वा लिङ्गं वा हर्म्यमानतः ॥ ३६ ॥ गर्भमध्ये च सूत्रात्तु वामेऽर्चालिङ्गमेव वा । स्थापयेत्किञ्चिदंशं तु आश्रयित्वा विचक्षणः ॥ ३७ ॥

v4.c36.s1.t1.53

¹ ‘पञ्चत्रिंशं पर’ मिति भवितव्यम् ।

v4.c36.s1.t1.54

त्रिसप्तांश कृते द्वारे महांश मध्यमे भवेत् । कृत्वा षडंशकं तच्च वामे द्व्यंशं व्यपोह्य च ॥ ३८ ॥ तदंशमग्रे नीत्वा तु प्रागुदग्गतसूत्रकम् । तद्ब्रह्मसूत्रमित्युक्तं तत्सूत्रं शिवमध्यमम् ॥ ३९ ॥ गर्भाधमधमं श्रेष्ठं पञ्चत्र्यंशं शिवायतम् । भवन्ति नव मानानि तयोर्मध्येऽष्टभाजिते ॥ ४० ॥ श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि । नागरे नागरस्योक्तं मानं लिङ्गस्य मन्दिरे ॥ ४१ ॥ विकारांशे तदायामे भूतगङ्गाग्निविस्तरम् । जयदं पौष्टिकं सार्वकामिकं नागरे विदुः ॥ ४२ ॥ गर्भे त्रिसप्तभागे तु दशांशं द्राविडेऽधमम् । त्रयोदशांशकं श्रेष्ठं गर्भेऽष्टान्शे तु पूर्ववत् ॥ ४३ ॥ त्रिसप्तांशे निजायामे षट्पञ्चचतुरंशकम् । जयदादिविशालं तत्पूर्ववद्द्राविडे मतम् ॥ ४४ ॥ वेसरे पञ्चपञ्चांशे गर्भागारे विमानके । त्रयोदशांशके हीनं श्रेष्ठं स्यात् षोडशांशकम् ॥ ४५ ॥ तयोर्मध्येऽष्टभागे तु नवलिङ्गानि पूर्ववत् । पञ्चपञ्चांशके दैर्ये वसुधातुरसांशके ॥ ४६ ॥ वेसरस्योदितं व्यासं पूर्ववज्जयदादिकम् । विकारपरितो भूतव्यासः सर्वत्र कीर्तितः ॥ ४७ ॥ गर्भमानमिदं प्रोक्तं हस्तमानं तु वक्ष्यहम् । आरभ्यैककरं नन्दहस्तान्तं षष्ठषडङ्गुलैः ॥ ४८ ॥

v4.c36.s1.t1.55

वृद्ध्यायतास्त्रयस्त्रिंशत्सङ्ख्या लिङ्गस्य कीर्तिताः । पञ्चारत्नविमानाद्या द्वादशक्षमाद्यसङ्घनः ॥ ४९ ॥

v4.c36.s1.t1.56

क्रमेणैव त्रयस्त्रिंशत्सङ्ख्या तासां विधीयते । केचित् त्र्यङ्गुलवृद्ध्या तु वदन्त्येकादिहस्ततः ॥ ५० ॥

v4.c36.s1.t1.57

आयादिसम्पदामर्थं मानादेकाङ्गुलक्षयात् । प्रवृद्ध्योत्तुङ्गमातव्यं तत्र दोषो न विद्यते ॥ ५१ ॥ . . . . . ञ्चाङ्गुलमूलान् द्व्यर्धाष्टककलाङ्गुलैः । वृद्ध्या लिङ्गायतं शस्तं प्रत्येकं नवमानकम् ॥ ५२ ॥

v4.c36.s1.t1.58

क्षुद्राल्पमध्यमोत्कृष्टहर्म्याणामुदितं क्रमात् । द्वारोदयसमं श्रेष्ठं त्रिभागोनं कनिष्ठकम् ॥ ५३ ॥

v4.c36.s1.t1.59

स्तम्भोत्सेधनवांशे तु मुनिभूतांश्कोदयम् । तत्तद्गर्भेष्वष्टा भक्ते नवलिङ्गोदयाः स्मृताः ॥ ५४ ॥

v4.c36.s1.t1.60

नागरादिषु सौधेषु प्रोक्तन्यासानि पूर्ववत् । प्रासादशिखरग्रीवस्तूप्यधिष्ठानमानकैः ॥ ५५ ॥

v4.c36.s1.t1.61

केचिद्वदन्ति मुनयः कुम्भयोन्यादयो वराः ।

v4.c36.s1.t1.62

लिங்கப்பிரமாணத்தாலே விமானம் கொள்ளுதல், அன் றிக்கே விமானம் முற்படச்சமையில் விமானப்பிரமாணத் தாலே லிங்கப்பிரமாணம் கொள்வான். (36)

v4.c36.s1.t1.63

கர்ப்பகிருஹத்தில் மய்யத்தில் இடத்தே சிறிது அம்சத்தை அடுத்த லிங்கத்தையாதல் ஸ்தாபிப்பான். அந்த அம்சம் கொள்ளும்படி. (37)

v4.c36.s1.t1.64

விமானத்தில் துவார விஸ்தாரத்தை இருபத்தியொரு அம்சம் செய்து இதில் நடுவில் அம்சத்தை ஆறம்சம் செய்து இதில் மய்யத்திலேநின்றும் இவ்விடத்தை இரண்டம்சத்தை விட்டு அந்தம்சத்தில் முடிவில் நூலை கீழ்மேலான நூலாகவும் தென் வடலான நூலாகவும் அறிவான். இந்த நூலை பிரம்மசூத்திர மென்றறிக. இந்த நூல்தானே சிவ ஸூத்ரமாம் என்றறிக. சிவசூத்ரமென்றது லிங்கத்தில் மய்யமென்றபடி; லிங்கப் பிரமாணம் கொள்ளும்படி. (39)

v4.c36.s1.t1.65

கர்ப்ப கிருஹ விஸ்தாரத்தில் செம்பாதி பிரமாணம் கொண்டலிங்கத்தின் நீளம் அதமப்பிரமாணம். கர்ப்ப கிருஹ விஸ்தாரத்தை அஞ்ச அம்சம் செய்து இதில் மூன்றம்சம் கொண்டலிங்கப் பிரமாணத்தை உத்தமமென்றறிவான். உத்தமப்பிரமாணத்துக்கும் அதமப்பிரமாணத்துக்கும் இடை நீளத்தை எட்டு செய்து ஒன்பது லிங்கமாம். (40)

v4.c36.s1.t1.66

இந்த ஒன்பது லிங்கப்பிரமாணம் கொள்ளும்படி உத்தமோத்தமம், உத்தமமத்தியமம், உத்தமாதமம் என்ற மூன்றும், மத்தியமோத்தமம், மத்தியமமத்தியமம், மத்தியமாதமம், என்ற மூன்றும் அதமோத்தமம், அதமமத்தியமம், அதமாதமம் என்றும் மூன்றும் ஆக பிரமாணம் ஒன்பதாக அறிவான். (40½)

v4.c36.s1.t1.67

நாகரமான பிரஸாதத்தில் நாகரலிங்கத்துக்கு பிரமாணம் சொல்லப்பட்டது. (41)

v4.c36.s1.t1.68

அந்த லிங்கத்தினுடைய நீளத்தை பதினாறு அம்சம் செய்து இதில் அஞ்சம்சமான விஸ்தாரத்தை ஜயமென்றறிவான். நாலம்சம் கொண்ட விஸ்தாரத்தை பௌஷ்டிகமென்றறிவான். மூன்றம்சங்கொண்ட விஸ்தாரத்தை ஸார்வகாமிகமென்றறிவான். (42)

v4.c36.s1.t1.69

பிரதிமாலக்ஷணானி ।

v4.c36.s1.t1.70

திராவிடப்ராஸத்திலே கர்ப்பகிருஹ விஸ்தாரத்தை இருபத்தொரு அம்சம் செய்து பத்தமசம் கொண்டது அதமம், பதின்மூன்றம்சம் கொண்டது உத்தமம். உத்தமப் பிரமாணத்துக்கும் அதமப்பிரமாணத்துக்கும் நடுவில் நீளத்தை எட்டமசம் செய்து ஒன்பது பிரமாணம் லிங்காயாமம் கொள்ளுக. இந்தப்பிரமாணம் ஒன்பதையும் முன்பு போலே உத்தமத்யமாதமமாகக் கொள்ளுவான். (44)

v4.c36.s1.t1.71

இப்படிக்குச்சொன்ன லிங்காயாமத்தை இருபத்தொரு அம்சம் செய்து இதில் அறம்சமான விஸ்தாரத்தை ஐயதமென்றும் அஞ்சம்சங்கொண்ட விஸ்தாரத்தை பௌஷ்டிகமென்றும் நாலம்சங்கொண்ட விஸ்தாரத்தை ஸர்வகாமிகமென்றும் அறிவான். திராவிட லிங்கப்பிரமாணம் சொல்லப்பட்டது. (44)

v4.c36.s1.t1.72

வேஸரமான விமானத்தில் கர்ப்பகிருஹவிஸ்தாரத்தை இருபதம்சம் செய்து இதில் பதின் மூன்றம்சங்கொண்ட லிங்காயாமம் அதமம். பதினாறம்சங்கொண்ட லிங்காயாமம் உத்தமம். உத்தமப்பிரமாணத்திற்கும் அதமப்பிரமாணத்திற்கும் இடையிலம்சத்தை எட்டமசம் செய்து ஒன்பது பிரமாணம். இதில் உத்தமாதமத்தியமங்களை முன்போலே அறிக. (45½)

v4.c36.s1.t1.73

இந்த வேஸரலிங்கத்தினுடைய நீளத்தை இருபத்தி அஞ்சு அம்சம் செய்து எட்டமசம் ஏழம்சம் லிங்க விஸ்தாரம் கொள்ளுக. (46½)

v4.c36.s1.t1.74

சுற்றளவெ பதினறு (பதினறு ?) செய்து இதில் அஞ்சம்சஞ்செய்து அகலமாக எல்லாவிடத்திலும் அறிக. (47)

v4.c36.s1.t1.75

இப்படி கர்ப்பகிருஹ பிரமாணம் சொல்லப்பட்டது. இதுக்கு மேல் ஹஸ்தபிரமாணம் சொல்லப்படுகிறது. (47½)

v4.c36.s1.t1.76

ஒரு முழம் தொடங்கி ஒன்பது முழம் அறுதியாக ஆறறு விரலேற்ற முப்பத்துமூன்று பிரமாணம். இந்த

v4.c36.s1.t1.77

முப்பத்துமூன்று பிரமாணமும் லிங்கப்பிரமாணம் சொல்லப்பட்டது. (48½)

v4.c36.s1.t1.78

அஞ்சு முழம் பிரமாணமான பிராஸாதம் தொடங்கி பன்னிரண்டு நிலமறுதியான பிராஸாதத்திற்கு சொல்லப்பட்டது; ஹஸ்தப்பிரமாண மறுதியாக இந்தப் பிரமாணம் முப்பத்துமூன்றும் கொள்ளும்படி. அஞ்சு முழமான பிராஸாதத்திற்கு ஒரு முழமான லிங்கம் பிரதிஷ்டிப்பான். ஏழு முழமான பிராஸாதத்திற்கு ஒன்றேமுக்கால் முழம் பிரமாணமான லிங்கத்தைப் பிரதிஷ்டிப்பான். ஒன்பது முழமான பிராஸாதத்திற்கு ஒன்றரை முழம்பிரமாணமான லிங்கத்தை ஸ்தாபிப்பான். பதினொரு முழம் பிரமாணமான பிராஸாதத்திற்கு ஒரு முழம் பிரமாணமான லிங்கத்தை பிரதிஷ்டிப்பான். ஏழு முழமான பிராஸாதத்திற்கு ஒன்றேக்கால் முழப்பிரமாண லிங்கத்தை ஸ்தாபிப்பான். பதினொரு முழம் பிரமாணமான பிராஸாதத்திற்கு ஒன்றே முக்கால் முழம் கொண்ட லிங்கத்தை ஸ்தாபிப்பான். பதின்மூன்று முழம் பிரமாணமான பிராஸாதத்திற்கு இரண்டு முழம் பிரமாணமான லிங்கத்தை ஸ்தாபிப்பான் இப்படி ஒன்பது முழப்பிரமாணமறுதியாக லிங்கத்தை ஸ்தாபிப்பான். (49½)

v4.c36.s1.t1.79

ஒரு முழம் தொடங்கி ஒன்பது பிரமாணமறுதியாக மும்மூன்று விராலென்று சிலர் சொல்லா நின்றார்கள். மும்மூன்று விராலும் ஏற்றலாம். (50)

v4.c36.s1.t1.80

இப்படிக்குக்கொண்ட பிரமாணத்துக்கு ஆயாதி சுத்தி செய்கைக்கு ஒரு விரல் குறைந்து கொள்ளுதல் ஒரு விரல் ஏற்றம் கொள்ளுதல் செய்வான். இதில் தோஷமில்லை யென்க. (51)

v4.c36.s1.t1.81

இருபத்திஅஞ்சு விரல் தொடங்கி ஒன்பது பிரமாணமறுதியாக எட்டு விரலேற்றிக்கொள்ளுக. உத்தமப் பிரா

v4.c36.s1.t1.82

பிரதிமாலக்ஷணானி ।

v4.c36.s1.t1.83

ஸாதத்திற்கு லிங்கப்பிரமாணம் இருபத்தைந்து விரல் தொடங்கி ஒன்பது பிரமாணறுதியாக பதினாறு விரலா லேற்றிக்கொள்ளுக. (52½)

v4.c36.s1.t1.84

துவாரத்தினுடைய உத்ஸேத்தத்தோடுக்கங்கொண்ட லிங்கப்பிரமாணத்தை உத்தமமென்றறிக. துவாரோத்ஸேத்தில் மூன்றிலொன்று குறையக்கொண்ட லிங்கப்பிரமாணத்தை அதமமென்றறிக. (53)

v4.c36.s1.t1.85

கால் நீளத்தை ஒன்பது செய்து ஏழம்சம் கொண்ட லிங்கப்பிரமாணத்தை உத்தமமென்றறிவான். அஞ்சம்சம் கொண்ட பிரமாணத்தை அதமமென்றறிவான். (53½)

v4.c36.s1.t1.86

கர்ப்பகிருஹப்பிரமாணத்தில் சொன்னப்போலே துவாரப்பிரமாணத்திலும் சொன்ன உத்தமப்பிரமாணத்திற்கும் அதமப்பிரமாணத்திற்கும் நடுவு நீளத்தை எட்டு செய்ய ஒன்பது பிரமாணமாம். உத்தமத்திமாதமங்களை கர்ப்பகிருஹ பிரமாணத்தில் சொன்னப்போலே துவாரப்பிரமாணத்திலும் ஸ்தம்ப பிரமாணத்திலும் சொன்னப்போலே அறிக.

v4.c36.s1.t1.87

துவாரப்பிரமாணத்தாலும் லிங்கப்பிரமாணத்தாலும் கொண்ட லிங்காயாமத்துக்குக்கொண்ட விஸ்தாரத்தை நாகரப்பிரஸாதம் முதலானவற்றில் கொண்டலிங்காயாமத்தால்கொண்ட விஸ்தாரம்போலே கொள்க. (54½)

v4.c36.s1.t1.88

பிரஸாதங்களுடைய அதிஷ்டானம் சிகரம் கழுத்து ஸ்தூபி இவற்றிலும் கர்ப்பகிருஹப்பிரமாணப்போலே லிங்கப்பிரமாணம் கொள்ளுவான் என்று அகஸ்தியபகவான் முதலான சில ரிஷிகள் சொல்லுவார்கள். ஆதலால் அதிஷ்டான பிரமாணத்தாலும் கழுத்தினுடைய பிரமாணத்தாலும் லிங்கத்துக்கு பிரமாணம் கொள்க. (55½)

v4.c36.s1.t1.89

(மயமதே த்ரயக்ரிம்சாத்யாயே ॥)

आध्यादिलिङ्गभेदाः ।

v4.c36.s1.t2.1

सार्धाशावसुसार्धसिन्धुचरणोनागाद्रिसाङ्घ्यष्टको-
दन्वन्मङ्गल नन्ददिक्फणिनगैस्त्र्यंशोन्नतिस्त्र्यष्टके ।
दैर्ध्ये चेद्विकृतौ रसाक्षजलधित्र्यंशान्वितेष्वंशकै-
राढ्यानाद्यसुरेभ्यसर्वसमके लिङ्गे विदुर्वैस्तृतिम् ॥
(सिद्धान्तसारावल्यां चर्यापादे ॥)

v4.c36.s1.t2.2

लिङ्गायामे विकारાંशे चतुर्भूतरसैः क्रमात् ।
सत्रिभागस्त्रिरंशैस्तु सुरेध्यानाद्यके द्विजाः ! ॥
आद्यं सर्वसमं लिङ्गं विशिष्टं परिकीर्तितम् ।
तेषां तन्मध्यमेऽष्टांशे प्रत्येकं नवधा भजेत् ॥
(कामिकागमे द्विषाष्टमपटले ॥)

v4.c36.s1.t2.3

समलिङ्गम् ।

v4.c36.s1.t2.4

लिङ्गायामे त्रिभागे तु एकांशं चतुरश्रकम् ।
मध्ये व्योमं तु वस्वश्रं [वृत्तं चाप्येक*] मंशकम् ॥
समलिङ्गमिति ख्यातं विप्रादीनां तु ऋद्धिदम् ।
(अंशुमद्भेदागमे एकपञ्चाशत्पटले ॥)

v4.c36.s1.t2.5

आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ।
शिवाधिकं तृतीयं स्याच्चतुर्थं स्वस्तिकं भवेत् ॥

v4.c36.s1.t2.6

अथ जगदमराणां सर्वतोभद्रमिष्टं सुखदमवनिपानां वृद्धिदं वर्धमानम् । धनदमिह विशां वै शम्भुभागाधिकं य- च्छुभदमथ परेषां स्वस्तिकं तच्चतुर्णाम् ॥

v4.c36.s1.t2.7

त्रिंशद्भागे सर्वतोभद्रलिङ्गे मूले मध्ये ..... दशांशं क्रमेण । वृत्तं तुल्यं सर्वतः शम्भुभागं विप्राणां तद्रूपतीनां प्रशस्तम् ॥

v4.c36.s1.t2.8

முதல் ஸர்வதோபத்ரலிங்கமாம். இரண்டாவது வர்த்தமானலிங்கம். மூன்றாவது சிவாதிகலிங்கம். நாலாவது ஸ்வஸ்திகலிங்கமென்றறிக. (70½)

v4.c36.s1.t2.9

பிராம்மணருக்கு ஸர்வதோபத்ரலிங்கமாம்; அவர்களுக்கு சுகத்தை கொடுக்கும் ராஜாக்களுக்கு வர்த்தமான லிங்கமாம்; அவர்களுக்கு விருத்தியைக்கொடுக்கும். வைசியர்களுக்கு சிவாதிக லிங்கமாம்; அவர்களுக்கு தனத்தைக் கொடுக்கும். சூத்திரர்களுக்கு ஸ்வஸ்திக லிங்கமாம்; அவர்களுக்கு விருத்தியைக் கொடுக்கும் என்றறிக. (71½)

v4.c36.s1.t2.10

ஸர்வதோபத்ரமான லிங்கத்தினுடைய நீளத்தை முப்பது செய்து அடியிலே பத்தும் நடுவிலே பத்தும் தலையிலே பத்தும் அம்சமுமாகக் கொள்வான். அந்த லிங்கமானது அடியிலே நின்று தலையளவு விருத்தமாயிருப்பது. இந்த லிங்கம் பிராமணர்களுக்கும் ராஜாக்களுக்கும் சொல்லப் பட்டது. (72½)

v4.c36.s1.t2.11

(மயமதே த்ரயவிம்ஶாத்யாயே ॥)

v4.c36.s1.t2.12

चतुरश्रमधोभागमष्टाश्रं मध्यं तथा । तदूर्ध्वं वृत्तमेव स्यात्त्रिभागं सर्वतस्समम् ॥ समलिङ्गमिति प्रोक्तं वर्धमानमतः शृणु । (सुप्रभेदागमे त्रयस्त्रिंशाध्याये ॥)

v4.c36.s1.t2.13

वर्धमानालिङ्गम् ।

v4.c36.s1.t2.14

भानुद्वयंशे तथायामे सप्तांशं चतुरश्रकम् । अष्टाश्रम्अष्टाभागेन नवांशं वृत्तमुच्यते ॥ षट्सप्तसुभागं वा पञ्चषट्सप्त [भागम्*] । चतुष्पञ्चदशं वा वर्धमानं चतुर्विधम् ॥ (अंशुमद्भेदागमे एकपञ्चाशत्पटले ॥)

v4.c36.s1.t2.15

वेदभूतरसभागिकैरथो भूतषण्मुनिपदैरत:परम् । षट्कसप्तवसुभागया ततः सप्तनागनव भागया पुनः ॥(७३½) वर्धमानमुदितं चतुर्विधं ब्रह्मविष्णुशिव ...... क्रमात् । सर्वसंपदुपवर्धनप्रदं पुत्रवृद्धिमिदं महीभृताम् ॥

v4.c36.s1.t2.16

वार्त्तमान लिंगத்தினுடைய நீளத்தை பதினைஞ்சு செய்து பிரம்மபாகம் நாலம்சமும் விஷ்ணுபாகம் அஞ்சம்சமும் ருத்திரபாகம் ஆறு அம்சமுமாக கொள்ளுக. அன்றியே லிங்கத்தினுடைய நீளத்தை பதினெட்டுக்கூறு செய்து பிரம்மபாகம் அஞ்சம்சமும் விஷ்ணுபாகம் ஆறம்சமும் ருத்திரபாகம் ஏழம்சமும் கொள்ளுவான். [அன்றியே லிங்கத்தினுடைய நீளத்தை இருபத்தியொரு கூறு செய்து பிரம்மபாகம் ஆறம்சமும் விஷ்ணுபாகம்

v4.c36.s1.t2.17

ஏழம்சமும் ருத்திரபாகம் எட்டம்சமும் கொள்ளுவான் *] அன்றியே லிங்கத்தினுடைய நீளத்தை இருபத்திநாலம்சம செய்து பிரம்மபாகம் ஏழம்சமும் விஷ்ணுபாகம் எட்டம்சமும் ருத்ர பாகம் ஒன்பதம்சமும் கொள்ளுவான். ஆக வர்த்தமானத்துக்கு நாலுபடி சொல்லப்பட்டது. இந்த லிங்கமானது ராஜாக்களுக்கு வெற்றியையும் முடிவில்லாத ஸர்வஸம்பத்தையும் கொடுக்குமென்றறிக. (74½)

v4.c36.s1.t2.18

(மயமதே த்ரயவிம்ஸாத்யாயே ||)

v4.c36.s1.t2.19

चतु:पञ्चदशं तु पञ्चषट्सप्तभागिकम् । [षट्सप्तांशकं सप्तभागानवभागिकम् ||*] वर्धमानमिति प्रोक्तं विप्रादीनामनुक्रमात् ।

v4.c36.s1.t2.20

(पूर्वकारणागमे नवमपटले ||)

v4.c36.s1.t2.21

चतुर्विंशति चायामे सप्तांशं चतुरश्रकम् । अष्टाश्रमेष्टभागेन नवांशेनैव वृत्तकम् || वर्धमानमिदं लिङ्गं शिवाधिकमत: परम् ।

v4.c36.s1.t2.22

(सुप्रभेदागमे त्रयविंशाध्याये ||)

v4.c36.s1.t2.23

शैवाधिक्यलिङ्गम् ।

v4.c36.s1.t2.24

लिङ्गायामे दशांशे तु गुणांशं चतुरश्रकम् । वस्वश्रं चैव तत्तुत्यं युगांशं स्याच्छिवांशकम् || शैवाधिक्यमिदं ख्यातमतवान्यप्रकारत: । वेदवेददशांशं वा पञ्चपञ्चदंशकम् || षट्षट्सप्तांशकैर्वाथ शैवाधिक्यं चतुर्विधम् ।

v4.c36.s1.t2.25

(अंशुमद्भेदागमे एकपञ्चाशत्पटले ||)

v4.c36.s1.t2.26

सप्तसप्तसुभागया ततः पञ्चपञ्चषडंशकैरपि । वेदवेदशरभागया ततो बन्ध[*] युगभागया पुरः ॥ उक्तमत्र हि मया चतुर्विधं तच्छिवाधिकमजाधिभागिकैः । सर्ववस्तुमिदं विशामलं सर्ववर्ण्यमिनामुदीरितम् ॥

v4.c36.s1.t2.27

சிவாதிகலிங்கத்தினுடைய நீளத்தை இருபத்திரண்டம்சம் செய்து பிரம்மபாகம் ஏழம்சம் (செய்து) விஷ்ணுபாகம் ஏழம்சமும் ருத்திரபாகம் எட்டம்சமும் கொள்வான். அன்றியே லிங்கத்தினுடைய நீளத்தை பத்தமசம் செய்து பிரம்மபாகம் மூன்றம்சமும் விஷ்ணுபாகம் மூன்றம்சமும் ருத்திரபாகம் நாலம்சமுமாகக் கொள்வான். சிவாதிகலிங்கம் இப்படிச் சொல்லப்பட்டது. இந்த லிங்கம் வைசியருக்கும் அந்த வம்சத்தில் தபஸ்விகளுக்கும் சொல்லப்பட்டது. இது இவர்களுக்கு ஸர்வ வஸ்துக்களையும் கொடுக்குமென்றறிக.

v4.c36.s1.t2.28

(மயமதே லயத்ரி்ஷாத்யாயே ॥)

v4.c36.s1.t2.29

सप्तसप्ताष्टभागंतु पञ्चपञ्चषडंशकम् । वेदवेदशरांशं तु गुणानलयुगांशकम् ॥ एवं शिवाधिकं प्रोक्तं द्विजादीनां क्रमाद्गृहे ।

v4.c36.s1.t2.30

(पूर्वकारणागमे नवमपटले ॥)

v4.c36.s1.t2.31

आयामं दशधा कृत्वा चतुरश्रं विभागंतः । अष्टाश्रं च त्रिभागेन चतुरंशेन वृत्तकम् ॥ शिवाधिकमिदं शस्तं भुक्तिमुक्तिफलप्रदम् ।

v4.c36.s1.t2.32

(सुप्रभेदागमे त्रयस्त्रिंशाध्याये ॥)

v4.c36.s1.t2.33

स्वस्तिकलिङ्गम्

v4.c36.s1.t2.34

लिङ्गायामे नवांशे तु चतुरश्रं द्विभागया । वस्वश्रं तु गुणांशेन वेदांशं वृत्तमुच्यते ॥ (अंशुमद्भेदागमे एकपञ्चाशपटले ॥)

v4.c36.s1.t2.35

उक्तायामे स्वस्तिके ...... भागे मूले व्यंशं मध्यभागे गुणांशम् । पूजाभागे चातुरंशं क्रमेण चोक्तं शूद्रे सर्वकामप्रदं तत् ॥

v4.c36.s1.t2.36

स्वஸ்திகலிங்கத்தினுடைய நீளத்தை ஒன்பதமசம் செய்து பிரம்மபாகம் அடியிலே இரண்டம்சமும் விஷ்ணு பாகம் நடுவே மூன்றம்சமும் பூஜாலிங்கம் நாலம்சமும் கொள்வான். இந்த லிங்கம் சூத்திரருக்கும் எல்லாருக்கும் நன்மையைக் கொடுக்கும். (मयमत त्रयस्त्रिंशाध्याये ॥)

v4.c36.s1.t2.37

नवधा लिङ्गमानेन द्व्यंशं मध्ये गुणांशकम् । वृत्ते युगांशकं दैर्ध्यं शूद्रेऽप्येतच्च शस्यते ॥ (कामिकागमे द्विषष्टिमपटले ॥)

v4.c36.s1.t2.38

धारालिङ्गम् ।

v4.c36.s1.t2.39

धारालिङ्गे ....... सर्वलिङ्गे मतं तलाश्रं वा कलाश्रं युगाश्रम् । तस्मादूर्ध्वं द्वैगुणसधारं धारालिङ्गं सर्ववर्णे प्रशस्तम् ॥

v4.c36.s1.t2.40

முன்பு சொல்லப்பட்ட லிங்கங்களிலும் தாராலிங்கம் செய்யலாம். அந்த தாராலிங்கம் இருக்கும்படி: பிரம்ம பாகம் அஷ்டாச்ரம் ஆதல் பதினாறு அம்சத்தால் சதுரச் ரமாயிருப்பது. பிரும்ம பாகத்தில் அச்ரத்தில் இரட்டி அச்ரமாயிருப்பது விஷ்ணுபாகம். விஷ்ணுபாகத்தில் அச்ரத்தில் இரட்டி அச்ரமாயிருப்பது ருத்திரபாகம். அந்த அச்ரங்கள் தாரையாயிருப்பது அந்த லிங்கத்தை தாராலிங்க மென்றறிவான். அந்த லிங்கம் எல்லா ஜாதி களுக்குமாம் என்று சொல்லப்பட்டது. (80½)

v4.c36.s1.t2.41

(மயமதே த்ரயத்ரிம்ஶாத்யாயே ||)

v4.c36.s1.t2.42

தாரா லிங்கமதோ வக்ஷ்யே ஸ்ரூயதாம் து ப்ரஜாபதே |
பாதா தூர்த்வபர்யந்தம் தாராலிங்கம் ப்ரஶஸ்தகம் ||
அதோ வேதாச்ரம் குர்யாத்தூர்த்வே த்வஷ்டதாரயா |
ஊர்த்வே ஷோடதாரச்ச போகார்தீ லபதே ஸுகம் ||
ஏதத்விஜ மஹாப்ராஜ்ஞ ! ஸர்வகாமப்ரஸாதனம் |

v4.c36.s1.t2.43

(பூர்வகாணாகமே நவமபடலே ||)

v4.c36.s1.t2.44

பஞ்சதாராம்ததார நவ(தாரா) த்வாததாரகா: |
தாராஷோடஶவிம்ஶச்ச திரஷ்டாவாவிம்ஶதி: ||

v4.c36.s1.t2.45

(ஸுப்ரபேதாகமே த்ரயத்ரிம்ஶாத்யாயே ||)

v4.c36.s1.t2.46

பூர்வோக்தஸமலிங்கே ச தாராலிங்கம் விகல்பிதம் |
சதுரச்ரம் த்விரஷ்டாச்ரம் தன்மூலே பரிகல்பயேத் ||
வைஷ்ணவாம்ஶே (து) ச ஶைவாஶே தாராத்வித்விகுணீக்ருதே |
ஸர்வேஷாமபி லிங்கானாம் தாராலிங்கம் த்ரிதா மதம் ||

v4.c36.s1.t2.47

मूलेऽष्टाश्रं वा कलाश्रं तस्मादूर्ध्वं तद्युगास्त्युश्च धाराः। एवं पूर्वाचार्यकै (स) रीश्वरस्य प्रोक्तं धारालिङ्गमेतत्तथैव ॥

v4.c36.s1.t2.48

(शिल्परत्ने एकोनत्रिंशाध्याये ॥)

v4.c36.s1.t2.49

सहस्रलिङ्गम् ।

v4.c36.s1.t2.50

पूजाभागे सर्वतोभद्रलिङ्गे धारालिङ्गं पञ्चपञ्चक्रमेण । एकैकस्यामष्टमं चोपरित्साहस्रं तद्रेखया लिङ्गमुक्तम् ॥

v4.c36.s1.t2.51

ஸஹஸ்ரலிங்கம் இருக்குமபடி முன்பு சொல்லப்பட்ட ஸர்வதோபத்ரலிங்கத்தில் பூஜாபாகத்தில் இருபத்தியஞ்சு தாரையாய் கீறி ஒரு தாரைக்கு நாற்பது ரேகையாக மேலே மேலே கீறி ஆயிரலிங்கமாம். இந்த லிங்கம் ஸர்வ காமியங்களையும் கொடுக்கு மென்றறிவான். (81½)

v4.c36.s1.t2.52

(मयমতে त्रयस्त्रिंशाध्याये ॥)

v4.c36.s1.t2.53

सर्वतोभद्रलिङ्गेषु धाराः स्युः पञ्चविंशतिः । सप्तपर्णदलाकारस्समास्सर्वास्समन्तराः ॥

v4.c36.s1.t2.54

एकैकस्यां तु धारायां चत्वारिंशत्प्रसंख्यया । कुर्यात्समनि लिङ्गानि स्यात्तल्लिङ्गसहस्रकम् ॥

v4.c36.s1.t2.55

(शिल्परत्ने एकोनत्रिंशाध्याये ॥)

v4.c36.s1.t2.56

समखण्डे शिवायामे रुद्रभागविनिर्मिते । एकाधिकनवयंशे विषमंशनिवेशितम् ॥

v4.c36.s1.t2.57

अर्चनं नवधा कृत्वा ब्रह्माद्यास्त्रिविभागतः । षट्सप्ताष्टभागैस्तु नाहो रुद्रादिषु क्रमात् ॥ त्रैराशिकमिदं लिङ्गं शूद्राणां तत्प्रशस्यते ।

v4.c36.s1.t2.58

(जीर्णोद्धारदशके कामिकवचनम् ॥)

v4.c36.s1.t2.59

लिङ्गोत्सेधे तु नन्दांशे षट्सप्तवसुभागकैः । ब्रह्मविष्ण्वीशभागानां क्रमान्नाहाः प्रकीर्तिताः ॥ लिङ्गं त्रैराशिकं नाम भवेत् सर्वसमे तु तत् ।

v4.c36.s1.t2.60

(शिल्परत्ने एकोनत्रिंशाध्याये ॥)

v4.c36.s1.t2.61

कृत्वा नवांशं लिङ्गोच्चं बन्धबन्धगुणांशकम् । षट्सप्ताष्टनाहं तु वृत्तेऽष्टाश्रे युगाश्रके ॥ त्रैराशिकमिदं शास्त्रे स्वस्तिकमधुनोच्यते ।

v4.c36.s1.t2.62

(कामिकागमे द्विपष्टिमपटले ॥)

v4.c36.s1.t2.63

मुखलिङ्गम् ।

v4.c36.s1.t2.64

मुखलिङ्ग त्रिवक्त्रं स्यादेकवक्त्रं चतुर्मुखम् । सन्मुखं चैकवक्त्रं स्यात् त्रिवक्त्रे पृष्ठके न हि ॥ पश्चिमास्यं स्थितं शुभ्रं कुङ्कुमाभं तथोत्तरे । याम्यं कृष्णकरालं स्यात्प्राच्यां दीप्ताग्निसन्निभम् ॥

v4.c36.s1.t2.65

सद्यो वामं तथाघोरं तत्पुरुषं चतुर्थकम् । पञ्चमं च तथेशानं योगिनामप्यगोचरम् ॥

v4.c36.s1.t2.66

(रूपमण्डने ॥)

v4.c36.s1.t2.67

मुखलिङ्गं ततो वक्ष्ये सर्वकामार्थसाधनम् । पूजाभागं समस्तं तु द्विषष्ट्यंशं भजेत्क्रमात् ॥

v4.c36.s1.t2.68

त्रयोदशाङ्गुलार्धं तु मुखमेकं प्रकीर्तितम् । शराननं चतुर्वक्त्रं त्रिवक्त्रं चैकवक्त्रकम् ॥

v4.c36.s1.t2.69

चतुर्दिक्षु चतुर्वक्त्रं त्रिवक्त्रं पृष्ठहीनकम् । कुर्वैकवक्त्रमूर्ध्वे तु मुखमानेन बुद्धिमन् ! ॥

v4.c36.s1.t2.70

मकुटेनोर्ध्ववक्त्रं तु त्रयोदशाङ्गलेन तु । ग्रीवामूलात् स्तनान्तं स्यादर्धाधिकं त्रयोदश ॥

v4.c36.s1.t2.71

स्तनसूत्रावधर्यावत् कारयेद् द्विभुजान्वितम् । प्रतिमालक्षणोक्तेन मार्गेणैव समाचरेत् ॥

v4.c36.s1.t2.72

शेषं लिङ्गवदाकारं कारयेल्लक्षणान्वितम् । वक्त्रलिङ्गप्रमाणं तु प्रोक्तं पीठमथो शृणु ॥

v4.c36.s1.t2.73

(कारणागमे नवमपटले ॥)

v4.c36.s1.t2.74

लिङ्गशिरोवर्तनम् ।

v4.c36.s1.t2.75

शिरसो वर्तनमधुना लिङ्गानां वक्ष्यते क्रमशः । छत्राभा त्रपुषाभा कुक्कुटाण्डार्धचन्द्रसदृशाभाः ॥ ९०१ ॥

v4.c36.s1.t2.76

बुद्धुदसदृशाः पञ्चैवोद्दिष्टा वर्तना मुनिभिः । व्यासे षोडशभागे लिङ्गस्यैकं द्विगुणयुगां शेषु ॥ ९१ ॥

v4.c36.s1.t2.77

सालम्ब्याधोभागानुभयोरपि पार्श्वयोः क्रमशः । छत्राभानि शिरांसि च चत्वारीह प्रवर्तन्ते विधिना ॥ ९२ ॥

v4.c36.s1.t2.78

समलिङ्गे प्रथमे द्वे शैवाधिकलिङ्गके तृतीयं स्यात् । चतुरं शेषु यदुक्तं तत्प्रोक्तं वर्धमानासु ॥ ९३ ॥

v4.c36.s1.t2.79

सङ्करमन्योन्यं वा शुभहं स्याद्वर्तनानां च । उच्चार्धं कुक्कुटजं त्र्यंशैकशेंन्दुखण्डनिभा ॥

v4.c36.s1.t2.80

बुद्धुदसदृशा सार्धं त्र्यंशं व्यासेऽष्टभागे तु । सर्वेषामपि वैतास्सामान्या वर्तनास्तु लिङ्गानाम् ॥ ९५ ॥

v4.c36.s1.t2.81

शिरोवर्तभागत्र्यंशकं चाधिरोप्य निजतुङ्गे । लिङ्गायामयुते तेषां भागयुते तेन सार्धमतः ॥

v4.c36.s1.t2.82

इन्द्रधिनिगुणभागाः प्रोक्तास्सर्वेष्वपि क्रमशः । अपरे मध्यमलिङ्गे श्रेष्ठे लिङ्गे ततः शिरोमानम् ॥

v4.c36.s1.t2.83

लिङ्गानां शिरसीप्सितांशुभयोः संलम्ब्य पार्श्वयोः । कृत्वा मत्स्ययुतं तदास्यजघनान्निष्क्रान्तसूत्रद्वयोः । तस्माद्यत्र [च*] संयुतिर्मतिमना बिन्दुत्रयाढ्यं तथा कर्तव्यं बहुवर्तनास्वभिमतं सोपायमीशोदितम् ॥

v4.c36.s1.t2.84

லிங்கங்களுக்கு சிரோவர்த்தனம் சொல்லப்படுகிறது. (90)

v4.c36.s1.t2.85

குடைப்புரம்போலேயாதல் திரபுஷம்போலேயிருக்குதல் கோழிமுட்டைபோலே இருக்குதல் அர்த்தசந்திரனைப்போலே இருக்குதல் நீரில் குமிழிபோலே இருக்குதல் ஆக சிரோ வர்த்தனம் அஞ்சுபடி சொல்லப்பட்டது. (91)

v4.c36.s1.t2.86

லிங்கங்களினுடைய விஸ்தாரத்தை பதினாறம்சம் செய்து ஓரஞ்சம் இரண்டாம்சம் மூன்றம்சம் நாலம்சம் சிரஸ்ஸின் கீழே இரண்டு பார்சுவத்திலும் நாற்றிச் சாய்ப்பான். ஆக சத்ராகாரமான சிரோ வர்த்தனம் நாலு படி சொல்லப்பட்டது. (92½)

v4.c36.s1.t2.87

ஸர்வதோபத்ரலிங்கத்துக்கு ஓரம்சமும் இரண்டாம் சமும் கொள்வான். சிவாதிகலிங்கத்துக்கு மூன்றம்சம் கொள்ளுவான். வர்த்தமானலிங்கத்துக்கு நாலம்சம் கொள்ளுவான் என்று சொல்லப்பட்டது. (93½)

v4.c36.s1.t2.88

இந்தக்கிரமம் அன்றிக்கே இந்த அம்சங்கள் ஒன்றுக் கொன்று கலசுமாகில் அந்த சிரோவர்த்தனம் கர்த்தா வுக்குப் பொல்லாங்கைக் கொடுக்குமென்று சொல்லப்பட் டது. (94)

v4.c36.s1.t2.89

குக்குடாண்டமான சிரோவர்த்தனத்தை உயரத்தில் பார்த்துக் கொள்ளுவானென்று அர்த்த சந்திரமான சிரோ வர்த்தனத்தை மூன்றத்தொன்று கொள்ளுவானென்று சொல்லப்பட்டது. (94½)

v4.c36.s1.t2.90

நீர்க் குமிழிபோலே இருக்கும் சிரோவர்த்தனத்து க்கு லிங்கவிஸ்தாரத்தை எட்டமசம் செய்து மூன்றரை அம்சம் கொள்ளுவானென்று சொல்லப்பட்டது. (95)

v4.c36.s1.t2.91

प्रतिमाலக்ஷணानि ।

v4.c36.s1.t2.92

இந்த சிரோவர்த்தனத்தை மூன்று லிங்கங்களுக்கும் ஸாமாண்யமென்று சொல்லப்பட்டது. (95½)

v4.c36.s1.t2.93

சிரோவர்த்தனத்தில் மூன்றிலொன்று லிங்கோத்ஸேதத்தில் ஏற்றிக்கொள்ளுவான். லிங்காயாமத்தில் கூடினதிலும் ஆறுபாகம் கூடினதிலும் ஏறட்டுக் கட்டுவான். ஓரம்சம் இரண்டாம்சம் மூன்றம்சம் எல்லா லிங்கத்துக்கும் கிரமத்தாலே சொல்லப்பட்டது. அதமலலிங்கங்களுக்கும் மத்யமலிங்கத்துக்கும் உத்தமலிங்கத்துக்கும் சிரோமானமேற்றிக்கொள்ளும்படி அடவே சொல்லப்பட்டது. (97½)

v4.c36.s1.t2.94

லிங்கங்களுடைய சிரோவர்த்தனமாகச் சொன்ன அம்சத்தை பார்ச்வங்கள் இரண்டிலும் கீழே நாத்தி அவிடமிரண்டும் மீனாக வீசி மீனங்களுடைய முகத்திலும் வாலிலும் புறப்பட்ட நூல் இரண்டுகளிலே கூட்டி மூன்று பிந்துவாம். அவ்வளவிலே சிரோவர்த்தனத்தை சயிப்பானென்று சிவனாலே சொல்லப்பட்டது. (98½)

v4.c36.s1.t2.95

(மயமதே த்ரயவிம்சாத்யாயே ||)

v4.c36.s1.t2.96

कुर्वीत त्रुपषीफलाग्रसदृशं छत्रोपमं मस्तकं
बालेन्द्राकृतिकुकुताण्डसदृशं विप्रादिवर्णक्रमात् ।
भेदास्सर्वसांक्षकप्रभृतयो नाहप्रभेदान्विताः
तेप्येते क्रमशः स्युः . . . . . . तदनुलोमाङ्कतिश्रिष्यते ॥
विस्तारं शिवलिङ्गमूर्ध्नि वसुनन्दादित्यरुद्रांशकं
कृत्वा तत्क्रमतो विशोध्य परितो व्येकाद्विलोकांश्कान् ।

v4.c36.s1.t2.97

कृत्वाल्यष्टितिथप्रकृत्यतिधृतिख्यातांशुयुक्तं क्रमात् पूजाभागमिहोक्तभागमुपरिष्टाच्छोधयेद्दार्णेषु ॥

v4.c36.s1.t2.98

तन्मस्तके नवविभागतया विभक्ते भागं विशोध्य परितःशिवभागदैर्ध्यम् ।

v4.c36.s1.t2.99

द्वाविंशदंशकतया परिकल्प्य भागा- नेकैकशो द्विजमुखेषु विशोधयेद्वा ॥

v4.c36.s1.t2.100

छत्राभं त्रपुषाकारं कुक्कुटाण्डनिभं तथा । अर्धेन्दुसदृशं चाथ बुबुदाभं तु पञ्चमम् ॥

v4.c36.s1.t2.101

सर्वेषामपि लिङ्गानां शिरसो वर्तनक्रमम् । लिङ्गव्यासात् षोडशांशमेकद्वित्रियवाधिकम् ॥

v4.c36.s1.t2.102

आरोप्यकेध१संसलम्ब्य लिङ्गस्योभयपार्श्वयोः । वर्तयन्तत्र चत्वारि च्छत्राभानि भवन्ति हि ॥

v4.c36.s1.t2.103

प्रथमं च द्वितीयं च समलिङ्गं नियोजयेत् । शिवाधिके तृतीयं तु चतुर्थं वर्धमानके ॥

First 200 of 1,734 passages. Read on

Linked texts (12)