Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c64: द्वितीयः खण्डः

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c64

Language
English

Contents

द्वितीयः खण्डः

v1.c64.1

( ग्राम-नगर-दुर्गादिवास्तु )

v1.c64.2

( औपोद्घातिकः )

v1.c64.3

वास्तुभूमिर्विविधा ख्याता स्थलभेदात्क्वचित्क्वचित् ।

v1.c64.4

चतुरश्राग्रता भूमिर्वर्तुला च त्रिकोणगा ।
मर्दलाकारवत्येषा प्रशस्ता वास्तुकर्मणि ॥
निम्नोन्नता च या भूमिशिरोहीना च भूरपि ।

v1.c64.5

वक्राकृतिश्च भूरन्या वर्ज्या सर्वेषु कर्मसु ॥
खेटस्य वास्तुभूमिस्तु प्रायः काननमध्यगा ।
शबरैश्च पुलिन्दैश्च संयुता मांसजीविभिः ॥
वास्तुभूमिः खर्वटस्य नदीतीरगता मता ।
रसालसालवकुलैस्तिन्त्रिणीवेणुपाटलैः ॥
कदम्बैनारिकेलैश्च श्रीपर्णैस्तिलकैरापि ।
छायावृक्षसमाकीर्णा निष्कुटारामसंवृता ॥
वनमध्यङ्गता वापि गिरिसानुसमीपभाक् ।
आरामभूमध्यगता पल्लीभूमिस्तु सौख्यदा ॥
मधूकैस्तिन्त्रिणीभिश्च रसालैर्नारिकेलकैः ।
पनसैश्च शिरीषैश्च संवृता च समन्ततः ॥
घोषभूमिश्चैवलिनीतीरभागवा वनान्तभाक् ।
गिरिसानुगवा वापि सर्वकालेषु सौख्यदा ॥
वानीरवित्वकुन्दाद्यैर्मांलत्यादिभिरन्विता ।
चूतादि फलवृक्षैश्च सर्वतस्तु समावृता ॥
सस्यभूम्यावृता विप्लवकुसुखग्राह्यजलान्विता ।
आभीरभूश्शैवलिनीतीरभागवा वनान्तभाक् ॥
सर्वतस्सूक्ष्मसिकता पुष्पगन्धाद्यगन्धिनी ।
मण्डलाख्यतृणैर्घासैरन्यैश्च बहुभिर्युता ॥
नारिकेलरसालादिफलवृक्षैस्समन्विता ।
सर्वतो हस्ततोयाढ्या भूमिरेवंविधा मता ॥
त्रिंशद्वीथियुता क्षुद्रवीथियुक्च समन्ततः ।
वापीकूपतटाकाद्यैरन्विता सुखदायिनी ॥

v1.c64.6

देशश्च देशभूयश्च समासात् तत्र संस्मृतौ ।
संख्यां च तद्विभागंश्च प्रोच्यन्तेऽत्राहितः शृणु ॥
देशः स्याज्जाङ्गलानूपसाधारणतया त्रिधा ।
त्रिविधस्याप्यथैतस्य यथावल्लक्षणं कथ्यते ॥
दूरोन्मीरिगिरिप्रायो ह्रस्ववृक्षकिशास्तृणः ।
रूक्षोष्णखरडूपवनः प्रचुरप्रदरः प्रभुः जाङ्गलः ॥
निम्नो भूरिजलः स्निग्धो बहुमत्स्यानिषो हिमः ।
स्यादानूपः सरित्प्रायः स्निग्धोच्छ्रितबहुद्रुमः ॥
यः पुनर्निविशीतोष्णः स्याद् देशद्वयलक्षणः ।
स साधारण इत्युक्तो देशो देशविशारदैः ॥
जाङ्गलादिषु देशेषु त्रि(पुरयोर्ध्वन्ध्ये)षु स्वलक्षणैः ।
युक्ताः षोडश विज्ञेया भूमयः प्रविभागतः ॥
बालिपस्वामिनी भोग्या सीमागोचरपक्षियी ।
अपाश्रयवती कान्ता प्रनित्यात्मप्रतारिणी ॥
वणिग्प्रसाधिता द्रव्यसम्पन्नामित्रघातिनी ।
अश्रेणीसुलभा शस्यसम्पन्ना देवमातृका ॥
धान्या हस्तिवनोपेता सुरक्षा चेति षोडश ।
भुवः संज्ञाभिरुद्दिष्टा लक्षणान्यथ कथ्यते ॥

v1.c64.7

वातुस्यन्दोलसत्फुल्लपद्मसङ्कुलवारिणैः ।
प्रहृष्टिवाः पृथुशिलैः समन्तादवनीधरैः ॥
तीर्थोपहारक्रान्ताभिः स्वादुतोयाभिगन्धुवाः ।
नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ।
कोकिलालापसुभगैर्मधुमत्तशिखण्डिभिः ।
विचित्रफलपुष्पाद्यैः काननैश्चशोभिताः ॥
दलत्कुवलयश्रेणीस्वप्नसञ्चनहारिभिः ।
सरमीदेवखातावद्यैर्भूषिताः प्राज्यवारिभिः ॥
समैः सुगन्धिभिः स्वादुशीतैः क्रान्तैरतङ्कतैः ।
चैत्यैरक्षतसामन्तैः सरणिभ्याविभिर्वृताः ॥
निकष्टकारनवनीकैः प्रभूतपवलोन्दनैः ।
विप्रकक्षेत्रसीमान्तैर्गोचरैश्चशोभिताः ॥
स्थले वृक्षककुद्दाममन्दरेषु वसुन्धरा ।
प्रशस्यते समामन्दस्वादुशीतलवारयः ॥
दुरासनानदृश्या यास्त्वनेकाश्रयान्विताः ।
संरम्भासनिमुक्तं मनश्च रमयन्ति याः ॥
तास्वेवंशुभयुक्तासु महीषु विनिवेशयेत् ।

v1.c64.8

यथास्थानं जनपदान् खेटग्रामपुरादि च ॥
स्निग्धाः सारभृतः शुद्धा प्रदक्षिणजलाशयाः ।
बहूदकास्तरुच्छन्ना निविडा प्रागुदक्प्लवाः ॥
दूर्वास (स्त्वौ?स्यौ) षधीमुञ्जकुरुन्दकुशवल्कलैः ।
परितः परिणद्धारच स्वादुस्वच्छस्थिरोदकाः ॥
वास्तुयज्ञामरस्थानाद्यारामोध्द्यानसंभृताः ।
तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥
या वाहनानां सुखदा मिथुनानां रतिप्रदाः ।
पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥

v1.c64.9

पूर्णा सुपा च तथैव भद्रा धूम्रा च भूमिर्विहिता चतुर्धा ।
वक्ष्ये च तासामपि लक्षणानि संक्षेपतो भूमिपरिग्रहार्थम् ॥
प्लक्षन्यग्रोधनिम्बार्जुनवकुलकुलत्था (प?स) नाroutesशोवनिष्पा-
वाङ्कोल्लैर्मांलतीचम्पकतिलखदिरैः कोद्रवैर्मुद्गिता वा ।
भूमिर्या भूधराधीश्वरशिखरगता पार्श्वसंस्थाऽथवाद्रेः
पूर्णा सा पुष्टिदात्री सुरनिलयसभा कल्पने स्वल्पतोया ॥
कर्पूरागरुनालिकेरतिलकैर्दभैः कदम्बार्जुनै-
र्मालेयैः क्रमुकेक्षुकेतककुशैः कुन्दारविन्दोत्पलैः ।
पूर्वोदक्प्लवशालिनी बहुजला वा या दरीदृश्यते
सेयं शान्तिकरी सुरेशयजने सूक्ता सुपद्मा मही ॥
तीरं वारिनिधेः श्रिताथ सरितस्तीर्थस्य वा दक्षिणे
व्रीहिक्षेत्रविचित्रिताप्यदिशि यज्ञार्हाङ्घ्रिपैरङ्किता ।
कीर्णा पुष्पफलप्रवालतरुभिर्योध्यांनहृद्यापि वा
भद्रा सा परिगीयते वसुमती प्रीतिप्रदा यज्वनाम् ॥
अर्कैर्वेणुविभीतकैः स्नुहियुतैः श्लेष्मातकैः पीलुभिः
संकीर्णा बहुशर्करा च कठिना गर्तान्विता सोषरा ।
गृध्रश्येनवराहवायसशिवाशाखामृगैः सन्ततं
जुष्टा यष्टुरनिष्टदा निगदिता धूम्रा मही सूरिभिः ॥
वारुण्यैन्द्री तथाग्नेयी वायवी भूश्चतुर्विधा ।
तद्भवा च शिला ज्ञेया तन्नामा शुभदा शुभा ॥
था कोमलतरुव्राता स्वतः पुष्पितकानना ।
जलाशयैश्च सर्वत्र युक्ता भूवारुणी स्मृता ॥
या क्षीरवृक्षबहुला सौम्ये यस्या जलं महत् ।
व्रीहिक्षेत्रं च याम्यायां सा माहेन्द्री क्षितिःस्मृता ॥
गृध्रकङ्कवराहक्ष श्येनगोमायुवायसैः ।
संयुक्ता दूरपानीया भूराग्नेयी विनिन्दिता ॥

v1.c64.10

श्वेतस्तुकित्कलिङ्गार्र्कपीलुश्लेष्मातकटकैः ।
युक्ता या निर्जला भूमिरशुभा वायवी स्मृता ॥

v1.c64.11

भूमिसंग्रहः भूपरीक्षा मृत्तिकापरीक्षा च।

v1.c64.12

पुरा भूमिरियं धात्रा विशाला च वसुन्धरा ।
जलधारान्विता सृष्टा सशैलवनकानना ॥
हिमवद्विन्ध्यमलयैरन्यैः कुलमहीधरैः ।
कनकाद्यैर्दिव्यलोहैर्गर्भिता च समन्ततः ॥
तथापि भूगर्भसारात् क्वचित्स्वादुरसान्विता ।
क्वचिद्रसेन हीना च क्वचिदुष्णा च शीतला ॥
क्वचिद्भकिरसत्त्वाढ्या क्वचित्सत्त्वखगावृत ।-
क्वचिदत्यन्तसुखदा क्वचिदुद्वेगकारिणी ॥
इत्येवं बहुधा जाता कालभेदेन भूरियम् ।
परीक्षयेद्वास्तुभूमिमतस्सल्लक्षणान्विताम् ॥
उत्तमा मध्यमा भूमिरधमा चेति सा त्रिधा ।
विभक्ता गुणभेदेन शास्त्रज्ञैः पूर्वसूरिभिः ॥
रसवर्णस्पर्शगन्धैरन्यैरपि च लक्षणैः ।
परीक्षयेदिमां भूमिं वास्तुयोग्यां बुधोत्तमः ॥
माधुर्यमृत्तिका भूमिर्देवविप्रहितप्रदा ।
तथोदुम्बरवृक्षाढ्या श्वेतवर्णा च भूरपि ॥
( उदीच्यां च जलोपेता भूरियं चोत्तमा मता ) ।
कषायमृत्तिका भूमी रक्तवर्णा च भूरपि ॥
पूर्वभागजलोपेता तथाश्वत्थद्रुमान्विता ।
विपुला लोहयुग्भूमिः क्षत्रियाणां हितप्रदा ॥
नातिकृष्णा न रक्ता च प्लक्षद्रुमसमन्विता ।
दक्षिणायां जलोपेता नातिनिम्नोन्नतस्थला ॥
भूरियं वैश्यजातानां बलसंपत्करा मता ।
( कटुमृत्स्ना कृष्णवर्णा वटवृक्षसमन्विता ॥
वारुण्यामुदकोपेता शूद्राणां क्षेमकारिणी) ।
इत्येवं जातिभेदेन कथितं भूमिलक्षणम् ॥
श्रीवृक्षैर्निम्नकाशोकै रसजैः क्रमुकैरपि ।
सौवीरैरिङ्गुदीभिश्च रसालैर्वञ्जुलैरपि ॥
केसरैस्सप्तपर्णैर्वा कुद्दालैः कोविदारकैः ।
आरग्वधैर्मधूकैर्वा प्लक्षैर्वा पाटलैस्तु वा ॥
श्रीपर्णैर्वा शिरीषैर्वा पूतिकैः खदिरैस्तथा ।
नदीभूर्जेर्नक्तमालैर्वेणुभिस्तिनिशैरपि ॥

v1.c64.13

नलदैर्वीरर्णैर्वासैर्नारिकेलैरथापि वा ।
मालत्या कुन्दलतया मुस्तादाडिमर्मजुलैः ॥
द्राक्षालतासमायुक्ता भूमिरैषा शुभप्रदा ॥
धेनुभिर्हरिणैर्वापि तुरंगैर्वा विशेषतः ।
पारावतैः कोकिलैर्वा शुकैः कीरैस्तथापि वा ॥
कारण्डैश्चक्रवाकैश्च मयूरै राजहंसकैकैः ।
गजैर्वा वृषभैर्वापि मेषसङ्घैर्विशेषतः ॥
भूमिरध्युषिता शस्ता सर्ववास्तुषु कीर्तिता ॥
लघुसैकतसंयुक्ता सुखस्पर्शयुतापि वा ।
निबिडा स्वादुतोयाढ्या समीपजलवर्षिणी ॥
मधुगन्धा पुष्पगन्धा सर्पिर्गन्धा च भूरपि ।
स्थिरवर्णा च भूश्शस्ता सर्ववास्तुषु कीर्तिता ॥
सा भूमिरुत्तमा ज्ञेया त्रिरात्राङ्कुरवर्धिनी ।
सा मध्यमा च विज्ञेया पञ्चरात्राङ्कुरप्रदा ॥
मन्दाङ्कुरप्रदा भूमिरधमा चेति गद्यते ।
सा वर्ज्या सर्वकार्येषु बीजानां क्षयकारिणी ॥
वर्ज्या कण्टकवृक्षैश्च तिग्मवृक्षैर्विदारकैः ।
वल्मीकेन समायुक्ता भूमिरस्थिगशैस्तु वा ॥
रन्ध्रान्विता च भूर्वर्ज्या गर्तार्यैश्च समन्विता ।
वराहै रासभैर्व्याघ्रै स्सिह्माद्यैर्दुष्टजन्तुभिः ॥
भल्लूकैर्वनमार्जारैर्मूपकैवृश्चिकादिभिः ।
भूमिरध्युषिता वर्ज्या सर्ववास्तुषु हानिदा ॥
श्मशानभूसमीपस्था तुपमारैस्समन्विता ।
कम्पेन भेदिता भूमिरग्निदग्धा च सर्वतः ॥
भूमिरेवंविधा वर्ज्या कार्यज्ञैश्च शुभेप्सुभिः ।

v1.c64.14

कुङ्कुमागुरुकर्पूरैस्तृक्कैलाचन्दनादिभिः ।
सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥
कल्हारपाटलाम्भोजमालती चम्पकोत्पलैः ।
स्थलाम्बुप्रभवैश्चान्यैः सुगन्धा कुसुमैस्तथा ॥
गोमूत्रगोमयक्षीरदधिमध्वाज्यगन्धभाक् ।
समानगन्धा मदिरामाध्वीकेभमदासवैः ॥
शालिपिष्टकगन्धैश्च धान्यगन्धैश्च या तथा ।
प्रशस्ताखिळवर्णानामीदृशगन्धा वसुन्धरा ॥
सिता रक्ता च पीता च कृष्णा चैव क्रमान्मही ।
विप्रादीनां हि वर्णानां सर्वेषामथवा हिता ॥

v1.c64.15

स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात् ।
वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥
घर्मागमे हिमस्पर्शा या स्यादुष्णा हिमागमे ।
प्रावृष्युष्णहिमस्पर्शा सा प्रशस्ता वसुन्धरा ॥
मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ ।
द्विपा (ब्दोऽप्य ? रवाब्धि) समस्वाना चेति स्युर्भूमयः शुभाः ॥

v1.c64.16

इदानीमप्रशस्तानां भुवां लक्ष्माभिदध्महे ।
पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥
भस्माङ्गारकपालास्थि तुषकैशविषाश्मभिः ।
मूषकोत्करवल्मीकशर्कराभिश्च निर्भरा ॥
रूक्षा प्ररोहिणी निम्ना भङ्गुरा सुषिरोषरा ।
वामावर्त्तजलस्राविण्यसारा विषमोन्नता ॥
कटुकण्टकिनिःसारशुष्कनिष्फलपादपा ।
क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥
सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात् ।
यस्यां विनाशमायान्ति सह तूर्यादिनिस्वनैः ॥
सरित् पूर्ववहा यस्यां पुरार्थं तामपि त्यजेत् ।
बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥
वसासृङ्‌मज्जविण्मूत्रमलको (थ?श) पतत्रिणाम् ।
समगन्धां त्यजेदुर्वी तैलस्य च शवस्य च ॥
सदैव धूम्रवर्णा या मिश्रवर्णाथवा मही ।
विवर्णा रुक्षवर्णा वा सा न स्यादिष्टदायिनी ॥
तिक्ताम्ललवणा चापि भूमिर्या स्वेदला भवेत् ।
तां लोकविद्वेषकरीं त्यजेत् पुरनिवेशने ॥
या रुक्षखरसंस्पर्शा सदैवोष्णा हिमाथवा ।
अनिष्टसुखसंस्पर्शा या स्यात् तामपि सन्त्यजेत् ॥
क्रोष्टूष्ट्रखररस्वाना या च निर्भरनिस्वना ।
भिन्नभाण्डसमक्रूरध्वनितापि च नेष्यते ॥
इति गन्धादिभिर्भूमिः कथितेयं शुभाशुभा ।

v1.c64.17

भूमीनामष्टप्लवादि गुणदोषान् ब्रवीमि ते ।
पूर्वप्लवा धरा श्रेष्ठा ह्यायुःश्रीबलर्द्धिनी ॥
सर्वसम्पत्करी पुंसां प्रासादानां विभूतिदा ।
राज्यपूज्या सदानन्दा प्राक्प्लवाचेद्भवेन्मही ॥
आग्नेयप्लवका भूमिरग्निदाहभयावहा ।
शत्रुसन्तापदा नित्यं कलिदोऽग्निप्लवः स्मृतः ॥

v1.c64.18

नश्यन्ति पुरुषास्तत्र देवता च प्रणश्यति ।
धनहानिकरो नित्यं रोगकृद् दक्षिणः प्लवः ॥
प्रवर्तयेद् गृहे पुंसां रोगांश्च मृत्युदायकान् ।
धनहानिं तथा नित्यं कुरुते नैऋतिप्लवा ॥
पश्चिमप्लवका भूमिर्धनधान्यविनाशिनी ।
शोकदाह्यं कुलं तत्र यत्र भूः पश्चिमप्लवा ॥
शत्रुकर्त्री विरागा च गोत्रक्षयकरी तथा ।
गृहे च कन्यकाहन्त्री सदा दुःखभयावहा ॥
भुक्तं न जीर्यते तस्य मह्यां तत्र तु यो वसेत् ।
एतान् दोषानावहति दोषदा वायुदिक्प्लवा ॥
पूज्या लाभकरी नित्यं पुत्रपौत्रविवर्धिनी ।
कामदा भोगदा चैव धनदा चोत्तरप्लवा ॥
नरसौख्यसतीसत्यसौभाग्यादिविवर्द्धिनी ।
धनार्थैश्वर्यसंपन्ना धर्मंदेशानकप्लवा ॥
सा विद्या धनसंपन्ना सर्वलोकहितावहा ।
विनयाचारसम्पन्नपुत्रपौत्रादिसंकुला ॥
नीरोगा दानशीला च विशिष्टजनसेविता ।
पूर्वप्लवा तु या भूमिः शोभना सा प्रकीर्तिता ॥
गृहप्रासादयोर्भूभ्याः कथ्यतेऽनुक्रमोऽधुना ।
मध्यप्लवा निकृष्टा स्यात् कनिष्ठा मध्यवर्तका ॥
सर्वनाशकरी पुंसां सा भूमिस्तु निवासिनाम् ।
वर्जयेद्छिद्रां क्ष्मांतुकरालां मस्तकोन्नताम् ॥
चौरेभ्यो भयदा नित्यं द्रव्यनाशकरी स्मृता ।
उच्छिन्ना च देवभूमी ऊर्ध्वसाधसिंयतव्यही? ॥
अजोष्ठखरसंसेव्यां वर्जयेत्तादृशीं महीम् ।
सशल्या बहुभक्ता च ह्यषरा शोककारिका ॥
त्रिविधा स्फुटिता मृद्वी वृष्टिशुष्का रिक्ताङ्गिका ।
कापर्देः? अगम्भीरा घटिका व्यक्षसिद्धिदा ॥
वेणुगुल्मलताच्छाया द्विगुणा मध्यदूषिता ।
त्रिगुणा पुन्नागवृक्षैः क्षीरवृक्षैश्चतुर्गुणा ॥
पञ्चधाश्वत्थवृक्षैश्च षड्धा धात्री महीरुहैः ।
सप्तधा पूगवृक्षैश्च लिङ्गच्छाया तथाष्टधा ॥
एताश्च्छायाः परित्यज्य वेश्म कुर्यादथाभयम् ।
वृक्षप्रासादयोश्छायां गृहे त्यक्ता शुभप्रदा ॥
द्वयोः प्रहरयोश्छाया वृक्षप्रासादगुल्मजा ।

v1.c64.19

हर्म्यगृहे तथैवं स्यादधस्तान्नैव निन्दिता ॥
अर्का अशोका अश्वत्थाः केतकीबीजपूरकाः ।
यस्मिन् गृहे प्ररोहन्ति तद् गृहं नैव वर्द्धते ॥
दाडिमं च हरिद्रां च श्वेतां च गिरिकर्णिकाम् ।
यदीच्छेद्रात्मनः श्रेयो गृहद्वारे न रोपयेत् ॥
त्यक्त्वा चोग्रतमं वृक्षं कटुकं कण्टकान्वितम् ।
अपि सौवर्णिकान्वृक्षान् गृहाश्रये न रोपयेत् ॥
न्यग्रोधोदुम्बरप्लाक्षांस्तथा वै कार्मुकादिकान् ।
वर्जयेद् गृहमाश्रित्य हर्म्यवृद्धिन्न विद्यते ॥
खर्जूरी दाडिमी रम्भा कर्कन्धू बीजपूरिका।
यस्मिन् गृहे प्ररोहन्ति तद् गृहं नैव वर्द्धते ॥
नकुलश्चोरगो यत्र क्रीडतः स्नेहत उभौ ।
तत्रस्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥
विडाला मूषकाः स्नेहाद्भ्रमन्ते च परस्परम् ।
तत्र स्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥
सर्पाश्च मूषकाः स्नेहात् क्रीडन्त्यामन्दरूपकाः ।
तत्र स्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥
यत्र ना दृश्यते शल्यं द्रव्यं तत्र तथोच्यते ।
तत्र स्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥
अष्ट पूर्व्वायता रेखा भिन्नाः पञ्च समुद्धरेत् ।
पदैरष्टाविंशतिभिर्ऋक्षसङ्ख्या तथैव च ॥
द्वारमध्ये कृत्तिका च शाखयोर्भरणीमघे ॥
चन्द्रे द्रव्यं तथा सूर्ये शल्यं चैव विनिर्दिशेत् ।
अहिवलचक्रे प्रोक्ता खसरो दृष्ट्याश्च केवलो ? ॥
अश्विल्यादि त्रिकं चैव आर्द्रादि पञ्चकं तथा ।
पूर्वाषाढा चतुष्कं च रेवती चोत्तरात्रयम् ॥
शशिभानि किलैतानि शिष्टानि रविभानि च ।
चन्द्रर्क्षे च स्थिते सूर्ये चन्द्रे सूर्यर्क्षसंस्थिते ॥
तत्र शून्यं भवेत्स्थानं द्रव्यशल्यविवर्जितम् ।
द्रव्यराख्यं विना त्वेवं शल्यद्रव्यादि कथ्यते ? ॥
चन्द्रः पूर्वं परं भानुस्तत्र शल्यं विनिर्दिशेत् ।
भानुः पूर्वं परं चन्द्रस्तत्र शल्यं विनिर्दिशेत् ॥
गतघटि ऋक्षहताः षष्टिहृते च शेषकन् ।
रविशशिभुक्तकालं रविचन्द्रर्क्षलग्नकन् ॥
श्वेता च ब्राह्मणी भूमी रक्ता वै क्षत्रिया स्मृता ।

v1.c64.20

पीतवर्णा भवेद्वैश्या शूद्री तु कृष्णवर्णिनी ॥
घृतगन्धा भवेद्विप्रा राज्ञी रक्तानुगन्धिनी ।
क्षारगन्धा भवेद्वैश्या शूद्री विष्ठानुगन्धिनी ॥
ब्राह्मणी मधुरास्वादा कषाया क्षत्रिया तथा ।
क्षारास्वादा भवेद्वैश्या शूद्री स्यात्कटुका तथा ॥

v1.c64.21

भूपरीक्षाविधिं (भूमिसंग्रहणं) वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
दक्षिणे पश्चिमे चैव चोन्नतं चतुरश्रकम् ॥
तद्वस्तु जायते वापि देवानां मनुजः (जां) क्रमात् ।
तुरङ्गं द्विरदं (द) वेणुं (णु) वीणासाक (ग) रदुन्दुभिः ॥
धेनुभिश्च समायुक्तं (क्ता) किं च पुंनागजातिभिः ।
सरसीसहधान्यैश्च पाटलीपुष्पगन्धकैः ॥
संयुक्तं (क्ता) सर्वबीजानां वर्धनं (ना) चैकवर्णयुक् ।
निविडा (डा) स्निग्धसंयुक्ता सुखसंस्पर्शना भवेत् ॥
श्रीवृक्षनिम्बसे (म्बा) शोकैः संयुक्तं (क्ता) सप्तपर्णकैः ।
सू (चू) तैश्चापि वृ (वि) षवृक्षैः संयुक्ता च समस्थले (ला) ॥
धवलं रक्तवर्णं च स्वर्णकृष्णं कपोतकम् ।
षडश्रैश्च समायुक्ता सर्वसम्पत्प्रदा धरा ॥
दक्षिणावर्तसलिला (प्र) दक्षिणाकारा वर्णनैः ।
मानवा जलिमानेन दृष्टिनीला मनोहरा ॥
कृमिवल्मीकरहिता निर्मूषी निष्कपालिनी ।
निरस्थि (स्थिः) सूक्तिसिकतारन्ध्रवर्ज्या शुभावहा ॥
पृथग्विधैश्च शूलैश्च स्थाणुभिश्च मही धृता ।
सकर्दामितवाराही विलेकं (का) सरसंयुतम् (युता) ॥
निस्तुषा निर्विभूतिश्च शर्करारहिता अपि (तापि च) ।
सा भूमिः ब्राह्मणादीनां वर्णानां संपदावहा ॥

v1.c64.22

श्वेता रक्ता च पीता च कृष्णकापोतसन्निभा ।
तिक्ता च कटुका चैव काषायलवणाम्लका ॥
मधुरा षड्रसोपेता सर्वसम्पत्करी धरा !
प्रदक्षिणोदकवती वर्णगन्धरसैः शुभा ॥
पुरुषा जलिमात्रे तु दृष्टतोया मनोरमा ।
निष्कपाला निरुपला कृमिवल्मीकवर्जिता ॥
अस्थिवर्ज्या न सुषिरा तनुवालुकसंयुता ।
अङ्कुरैर्वृक्षमूलैश्च शूलैश्चापि पृथग्विधैः ॥
पङ्कसङ्करकूपैश्च दारुभिर्लोष्टकैरपि ।
शर्कराभिरयुक्ता या भस्माद्यैस्तु तुषैरपि ॥

v1.c64.23

सां शुभा सर्ववर्णानां सर्वसम्पत्करी धरा।

v1.c64.24

(ब) मृत्तिकापरीक्षा

v1.c64.25

@H स० सू०
@H ८, ६६।।-७४
करप्रमाणं कुर्वीत खातं तद्भूभिसमध्यगम्॥
ततस्तन्मृदमाकृष्य तद् तयैवानुपूरयेत्।
खाताधिकमृदुक्ता भूः श्रेष्ठा मध्या च तत्समा॥
महीणखातमृत् चोर्वी हीना शस्ता न सा नृणाम्।
खन्यमाने यदा खाते तन्मृदोन्तर्विलोक्यते॥
मणिशङ्खप्रवालादि तदातिश्रेयसी क्षितिः।
सापि प्रशस्यते भूमियंस्यां स्युः खातपांसवः॥
तुषकेशोपलाङ्गारभस्मास्थिलववर्जिताः।
मृत्वाद्भिः खातमापूर्ण तस्मिन् पदशतं ब्रजेत्॥
तावच्चेद्वोदगमेऽम्भः स्यात् तदा भूः सार्वकामिकी।
मध्यममात्रप्रहीणे स्याद् ततो हीनतरेऽधमा॥
खाते सितादिमाल्यानि यस्यां निश्युषितानि च।
यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही
खातस्योदक्प्रभृतिषु दिक्षु प्रज्वालयीत वा।
दीपान् यस्यां चिरं तिष्ठेत् तद्वर्णेष्टप्रदा हि सा॥

v1.c64.26

@H अ० पृ०
@H ५१, १-१२
भूमेः परिग्रहं कृत्वा सद्भावनिभित्तिकमैः।
दिव्यानि वीक्ष्य भौमानि शुभान्यशुभकानि च॥
शुभेषु प्रस्थिते सिद्धिर्विजयः स्यान्महोत्सवः।
अशुभेषु निवर्तेत न गच्छेत् पदमग्रतः॥
तन्मध्ये तया धानं शकुनानि न लक्षयेत्।
चेष्टायुक्तिसमाख्यातं तत्फलं शकुनोत्तमैः॥
आचार्यः सूत्रधारैश्च यजमानैश्च संयुतः।
त्रयश्च साधकैश्चैव कर्मकारादिसंयुताः॥
आचार्यश्च स्वयं ब्रह्मा शिल्पी चैव जनार्द्दनः।
यजमानस्तु शक्रः स्यात् त्रिभिः कर्म प्रवर्तते॥
तत्र भूमिं समीकृत्य त्रयः सह साहायकैः।
दिशाक्षेत्रबलिं दद्युः क्युः खातपरीक्षणम्॥
हस्तमात्रं खनेद् भूमिं तत्स्यान्तर्धृतपांशुकम्।
ततः खातं समाशोध्य पूरयेत् पांशुना वृतम्॥
अधिके पांशुके श्रेष्ठा मध्यमा समपांशुके।
हीनपांशौ कनिष्ठा च ज्येष्ठा मध्याधमा त्रिधा॥
खातं तत्रोदकैर्भृत्वा शिल्पी शतपदं व्रजेत्।
अर्धे समे च पादोने कनिष्ठोत्तममध्यमाः॥

v1.c64.27

पूरयोदकैर्भूतं खातमूध्वं बाह्यं समुत्क्षिपेत् ।
भृते मही चोत्तमा स्यान्मध्यमाङ्गुलहीनतः ॥
द्वयङ्गुलोने कनिष्ठा स्यात् त्रिविधं भूमिलक्षणम् ।
अल्पोदकेऽतिहीना स्याद्वर्जयेदधमाधसम् ॥
ततः सम्पूरयेद्गत सुदिने सम्प्रधार्य ते ।
परीक्षयेच्च भूम्यर्थं वर्णैगन्धैश्च स्वादतः ॥

v1.c64.28

भूमिसंग्रहणं सर्वं (भूपरीक्षाविधानं च) शास्त्रे संक्षिप्यतेऽधुना ।
तदुक्ताकारनादादिवर्णैर्युक्तं महीतलम् ॥
स्वीकृत्य शिल्पिकुशलो बलिं दत्वा यथाविधि ।
पुण्याहे वाचयेत्पश्चात्तूर्यमङ्गलनिस्वनैः ॥
गच्छन्तु सर्वभूतानि राक्षसा देवता अपि ।
अस्मात्स्थानान्तरं यायात्कुर्यात्पृथ्वीपरिग्रहम् ॥
जप्त्वा (पेन्म) मन्त्रमिमं पश्चाद्विहिते कुम्भपरिग्रहात् ।
स्थापयेत्सर्वबीजनि गोमयाक्तानि रूषिते ॥
प्रेक्ष्य सस्यात्पल्लवानि निविडानि निरवग्रहात् ।
तत्र धेनुवृषमनववत्सांश्चापि निवेशयेत् ॥
पश्चात्पादक्रमैर्वणैर्नासाग्राद्यैः समन्वितम् ।
संधुष्ट (ष्टं) वृषभध्वानै (२) धवले (ली) भूतलूषितम् ॥
यवप्रस्थसमेतैश्च पततीवत्सक्रमतः ।
गोमयालेपितं पश्चादोधकैश्च निषेवितम् ॥
रोमन्थोदारपुलकैः शोभितं गोष्पदैरपि ।
स्वच्छोदकसमाक्रान्त (न्तं) गोगन्धैश्च मनोहरम् ॥
एवं शुभदिनोपेतं तारकाविषयैरपि ।
सुमुहूर्ते सुकरणे सुलग्ने सुपिहितिस्थितैः (सुविपश्चिदिः) ॥
विप्रैश्च पश्चात्पुण्याहे कारयेत्सर्वमङ्गलम् ।
भूतंलं (ल) खननं कुर्याद्ब (द्धा) स्तुमद्ध्ये लयावधि ॥
चतुरश्रं तूपहितो (तं) हस्तमात्रं तु निम्नकम् ।
ह (वा) रित्वारि परितः समं संक्षिप्य चोच्छ्रयम् (च्छ्रितम्) ॥
पूजयित्वा (येत्तु) यथाशास्त्रं प्रणम्य रू (पं) पास्बिकाम् ।
सर्वरत्नजलैश्चैव गन्धपुष्पाक्षतैरपि ॥
पूजयेत्पायसान्नेन प्रभाते तु ततः सुधीः ।
वापीसमीपे नियतं (तः) समाहितमनाः शुचिः ॥
प्रांचीत्वरिक् (चदिक्) शिरस्ये (ए) दर्भास्तरणभूतले ।
महाक्षोणि विवर्धस्व धान्यैश्च साधनैरपि ॥
उत्तमं शुष्कमास्थाय मङ्गलं (ल) भवते (त्यै) नमः ।

v1.c64.29

मन्त्रमेतज् (तं) जपन्पश्चादुपवासमुपक्रमेत् ॥
प्रभाते तु परीक्षेत (क्षेत) रूपं स्थपतिभिः सुधीः ।
किंचिच्छेषं जलं प्रेक्ष्य गृह्येतं (ह्यतां) मङ्गलाय वै ॥
शोषितं धनधान्यानां क्षयं क्लिन्ने विनाशितम् ।
परितस्तु मृदा गर्ते पूरिते मध्यमा मही ॥
मही हीनं (ना) मृदा हीना चोत्तमा च (चापि) चाधिका ।
प्रेक्ष्य कर्तुं (कर्ता तु) तन्मध्ये प्रदक्षिणवरोत्तरम् (र उत्तमम्) ॥
कामधेनुसमां क्षोणीं स्वीकुर्यात्तु विभूतये ।

v1.c64.30

आकारवर्णशब्दादिगुणोपेतं भुवः स्थलम् ।
सङ्गृह्य स्थपतिः प्राज्ञो दत्त्वा देवबलिं पुनः ॥
स्वस्तिवाचकघोषेण जयशब्दादिमङ्गलैः ।
अपक्रामन्तु भूतानि देवताश्च सराक्षसाः ॥
वासान्तरं व्रजन्वस्मात् कुर्यां भूमिपरिग्रहम् ।
इति मन्त्रं समुच्चार्य विहिते भूपरिग्रहे ॥
कृष्ट्वा गोमयस्रिश्राणि सर्वबीजानि वापयेत् ।
दृष्ट्वा तानि विरूढानि फलपल्लवगतानि च ॥
सवृषाश्च सवत्साश्च ततो गास्तत्र वासयेत् ।
यतो गोभिः परिक्रान्तमुपघ्राणैश्च पूजितम् ॥
संघृष्टवृषणोद्देश्व निर्धौतकल्लषीकृतम् ।
वत्सवक्त्रच्युतैः फेनैः संस्कृतं प्रस्नवैपि ॥
स्नातं गोमूत्रसेकैश्च गोपुरीषैः सलेपनम् ।
च्युतरोमन्थनोद्गारैर्गोष्वदैः कृतकौतुकम् ॥
गोगन्धेन समाविष्टं पुण्यतोयैः शुभं पुनः ।
तथा पुण्यतिथोपेत नक्षत्रविषये शुभे ॥
करणे च सुलग्ने च मुहूर्ते च बुधैप्सिते ।
अक्षतैः श्वेतपुष्पैश्च बलिकर्म विधीयते ॥
ब्राह्मणैश्च यथाशक्त्या वाचयेत् स्वस्तिवाचनम् ।
वस्तुमध्ये ततस्तस्मिन् खानयेद् वसुधात लम् ॥
अरत्निमात्रगम्भीरं चतुरश्रसमन्वितम् ।
दिग्भागस्थमसम्भ्रान्तमसंक्षिप्तसमुच्छ्रयम् ॥
अर्चयित्वा यथान्यायं तं कूपमभिवन्द्य च ।
चन्दनाक्षतमिश्रेण सर्वरत्नोदेकेन च ॥
पयसा तु ततः प्राज्ञो निशादौ परिपूरयेत् ।
तस्य कूपस्य चाभ्याशे शुचिर्भूत्वा समाहितः ॥
भूमौ दूर्भांवकीर्णायां संविशेत् प्राक्शिरा बुधः ।

v1.c64.31

अस्मिन् वस्तुनि वर्धंस्व धनधान्येन मेदिनि ॥
उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ।
उपवासमुपक्रामेदेतं मन्त्रं जपंस्ततः ॥
दिनादौ परीक्षेत तं कूपं स्थपतिर्बुधः ।
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसम्पदे ॥
क्लिन्ने वास्तुविनाशाय शुष्के धान्यधनक्षयः ।
पूरिते तन्मृदा खाते समता मध्यमा मता ॥
उत्तमा भूर्भृदाधिक्या हीना हीना मृदामही ।
तन्मध्यावटसन्नष्टप्रदक्षिणचरोदकाम् ॥
सुरभिप्रतिमां भूमिं गृह्लीयात् सर्वसम्पदे ।-

v1.c64.32

एवं यथोक्तविधिना विविधं विदित्वा
ग्रामाग्रहारपुरपत्तलखर्वटानि ।
स्थानीयखेटनिगमानि तथेतराणि,
यः संविविक्षुरवनीग्रहणं विदध्यात् ॥

v1.c64.33

(स) प्लव-परीक्षा च

v1.c64.34

टि०—प्लवपरीक्षणं तत्र प्रथमे खण्डे दिङ् निर्णये दत्तमेव ।

v1.c64.35

ग्राम-लक्षणम् ग्राम-विन्यासश्च

v1.c64.36

संप्राप्य चोत्तमां वास्तुभूमिं निर्माणकोविदः ।
संप्राप्तद्रव्यराशिश्च यतेत पृथुकर्मणि ॥
आद्यस्तु मण्डकग्रामः प्रस्तरस्तदनन्तरम् ।
बाहुलीकस्तृतीयस्तु पराकस्तु चतुर्थकः ॥
चतुर्मुखः पञ्चमः स्यात् षष्ठः पूर्वमुखस्तथा ।
सप्तमो मङ्गलग्रामस्त्वष्टमो विश्वकर्मकः ॥
नवमो देवराड्ग्रामो विश्वेशो दशमो मतः ।
एकादशस्तु कैलासो द्वादशो नित्यमङ्गलः ॥
इत्येवं द्वादश ग्रामाः शिल्पशास्त्रे प्रकीर्तिताः ।

v1.c64.37

खेटस्य वास्तुभूमिस्तु प्रायः काननमध्यगा ।
शबरैश्च पुलिन्दैश्च संयुता मांसजीविभिः ॥
पर्णगेहान्विता विण्वगथ वेष्टिकगेहभाक् ।
एकादिदशवीथ्यन्ताः क्षुद्रवीथ्यस्समन्ततः ॥
वास्तुभूमिः खर्वटस्य नदीतीरगता मता ।
रसालसालवकुलैस्तिन्त्रिणीवेणुपाटलैः ॥
कदम्बैर्नारिकेलैश्च श्रीपर्णैस्तिलकैैरपि ।
छायावृक्षसमाकीर्णा निष्कुटारामसंवृता ॥
दशादिविंशद्वीथीभिरावृता च समन्ततः ।
शतगेहा मुख्यवीथी तन्मध्ये कालिकागृहम् ॥
वागुराजीविभिश्चान्यैर्भृतकैश्च कृषीवलैः ।
मदिरागेहसंयुक्ता विपण्यादिभिरावृता ॥
वनमध्यङ्गता वापि गिरिसानुसमीपभाक् ।
आरामभूममध्यगता पल्लीभूमिस्तु सौख्यदा ।
मधूकैस्तिन्त्रिणीमिश्र रसालैर्नारिकेलकैः ।
पनसैश्च शिरीषैश्च संवृता च समन्ततः ॥
सङ्कीर्णा बहुभिर्वर्णैर्मेषगोवाजिरक्षकैः ।
दशादिविंशद्भिर्भरिता च समन्ततः ॥
वापीकूपादिभरिता विपण्या क्षुद्रया युता ।

v1.c64.38

सह जनसङ्कीर्णा पल्लीभूमिरितीरिता ॥
घोषभूमिश्र्शैवलिनीतीरभाग्वा वनान्तभाक् ।
गिरिसानुगता वापि सर्वकालेषु सौख्यदा ॥
वानीरवित्वकुन्दाद्यैर्मांलत्यादिभिरन्विता ।
चूतादि फलवृक्षैश्च सर्वतस्तु समावृता ॥
सस्यभूम्यावृता विष्वक्सुखग्राह्यजलान्विता ।
द्वात्रिंशद्वीथिकोपेता क्षुद्रवीथ्युपवीथियुक् ॥
गोभिर्गोपालकैश्चापि सर्वतस्संवृता शुभा ॥
आभीरभूश्शैवलिनीतीरभाग्वा वनान्तभाक् ।
सर्वतस्सूक्ष्मसिकता पुष्पगन्धाद्यगन्धिनी ॥
मण्डलाख्यतृणैर्घामैस्सैन्यैश्च बहुभिर्युता ।
नारिकेलरसालादिफलवृक्षैस्स मन्विता ॥
सर्वतो हस्ततोयाढ्या भूमिरैवंविधा मता ।
त्रिंशद्वीथियुता क्षुद्रवीथियुक्त समन्वन्तः ॥
वापीकूपतटाकाद्यैरन्विता सुखदायिनी ।
ग्रामदेव्यालयोपेता वारुण्यां दिशि कालिका ॥
गोष्ठनाथस्य सदनमथवा नृपमन्दिरम् ।
कारयेन्मध्यभागे स्वा निषधार्दींश्च सर्वतः ॥
गोपालभवनाधिक्यं गवामपि च कीर्त्तितम् ॥

v1.c64.39

वक्ष्येऽहं ग्रामविन्यासं शास्त्रे संक्षेपतः क्रमात् ।
दण्डकं सर्वतोभद्रं नन्द्यावर्तं तु पञ्चकम् ॥

v1.c64.40

वक्ष्येऽहं ग्रामविन्यास शास्त्रे संक्षेपतः क्रमात् ।
एवं चाष्टविधं ग्रामं तत्तद्रूपेण संज्ञितम् ।
प्रथमं ग्राममानं च द्वितीयं पदं (दं) विन्यसेत् ।
तृतीयं तद्बलिं दत्वा चतुर्थं ग्राम (मं) विन्यसेत् ॥
पञ्चमं गृह (हं) विन्यस्य तत्र गर्मं विनिक्षिपेत् ।
षष्ठे गृहप्रवेशं च तन्मानमधुनोच्यते ॥
धनुर्ग्रहैश्च यद्दण्डं तद्दण्डेनापेयेद्बुधः ।
पञ्चविंशतिदण्डाद्यैः (दौ) द्विद्विदण्डविवर्धनात् ॥
एकाधिकशतान्तं स्यान्नवत्रिंशद्विशालकम् ।
एवं तु दण्डकं प्रोक्तं तस्यायामभि (म इ) होच्यते ॥
विस्ताराद्विद्विदण्डेन वर्धयेद्विगुणान्तकम् ।
यंः (यतः) शुभायादिकमार्थं दण्डहीनाधिकं तु वा ॥
वानप्रस्थमिदं योग्यं क्षुद्रदण्डकमीरितम् ।
एकत्रिशतिदण्डा (शद्दण्डमा घे) द्विद्विदण्डेन वर्धनम् ॥

v1.c64.41

सप्ताधिकशतान्तं स्यात्सप्तषष्टिविशालकम्।
दीर्घं प्रागुक्तवत्कुर्यादेतद्दण्डक (कं) मध्यमम्॥
सप्तत्रिंशतिदण्डादि (शहण्डमाद्यौ) द्विद्विदण्डविवर्धनात्।
त्रयोवेददशाधिक्यशतदण्डावसानकम् ॥
दण्डकं चोत्तमं पञ्चचत्वारिंशद्विशालकम्।
एतत्तु दण्डकं प्रोक्तं भूसुराणां तु योग्यकम्॥
पञ्चाशद्दण्डमारभ्य द्विद्विदण्डविवर्धनात्।
द्विशतं दण्डान्तकं स्यात् षट्सप्ततिविशालकम्॥
षष्टे तु (षट्येर्कं) दण्डमारम्य द्विद्विदण्डविवर्धनात्।
सैंकार्कत्रि (त्रि) शतं दण्डात् (ण्डं) त्रि (शत) सप्तद (द्वि) शविस्तृतम्।
युग्मायुग्मं तु दण्डेन सर्वतोभद्रमेव च।
भूसुरामरयोग्यं स्यात्तदायामविशालकम्॥
नन्द्यावर्तं (न्दैर्कत्रि) ग्राम ग्राम (मे) द्विद्विदण्डविवर्धनम्।
पञ्चषष्ट्याधिकं पञ्चशतदण्डावसानकम्॥
एव (वं) पञ्च द्विशतं विशालं परिकीर्तितम्।
विस्तारायामस्तत्तुल्यो (पाद्रोनोऽर्धाधिकस्तथा॥
(विस्ता) रं द्विद्विदण्डेन वर्धयेद्विगुणान्तकम्।
नन्द्यावर्तमिदं प्रोक्तं वर्तव्यं (वस्तव्यं) देवभूसुरैः॥
अथातः पद्मंकं नामग्रामलक्षणमुच्यते।
शतदण्ड (ण्डं) समारभ्य द्विद्विदण्डविवर्धनात्॥
एकसहस्र-दण्डान्तं (न्तो) विस्तारं तत् समं मतम् (रस्तन्प्तमो मत:) ।
परमाधिकपञ्चाशच्चतुःशतविशालकम् ।
विप्रयोग्यं तथा पद्ममेवमुक्तं पुरातनैः।
एतच्चत्वारि ग्रामविस्तारप्रमाणलक्षणम्॥
अथ स्वस्तिकविन्यास (विस्तार) मानलक्षणमुच्यते।
एकद्विशतदण्डादौ विंशदण्डविवर्धनात्॥
द्विसहस्रे (स्त्रे) कदण्डान्तं (न्तो) विस्तारं (रः) परिकीर्तितम् (तः)।
तस्माद्विंशतिदण्डेन वर्धयेत्तत्समाधिकम्॥
तस्यायाममिदं (मो ह्ययं) प्रोक्तं (क्तः) स्वस्तिकं भूपयोग्यकम्।
अतः परं प्रस्तरविन्यास (विस्तार) लक्षणमुच्यते॥
त्रिंशद्दण्डमारभ्य शतदण्डविवर्धनात्।
सहस्रद्वयदण्डांतं प्रस्तरं विस्तृतं भवेत्॥
सपञ्चषष्टिदण्डादौ द्विद्विदण्डविवर्धनात्।
युग्मायुग्मं तथा वापि दण्डं पञ्चशतान्तकम्॥
एतत् (एप) कार्मु कविस्तारं त (रस्त) स्यायाममि (म इ) होच्यते।

v1.c64.42

तस्मात्तु शतदण्डेन वर्धनाद्विगुणान्तकम् ॥
एवं तु वैश्यकानां तु योग्यं तत्कार्मुकं भवेत् ।
त्रिंशद्दण्डं समारभ्य त्रित्रि (द्विद्वि) दण्डविवर्धनात् ॥
शतदण्डावसानं (नः) स्याद्विस्तारं (रः) परिकीर्तितम् (तः) ।
तत्तत्रित्रिद्विदण्डेन वर्धयेद्विगुणान्तकम् ॥
एवं चतुर्मुखं प्रोक्तं शूद्राणामेव योग्यकम् ।

v1.c64.43

नन्द्यावर्तस्य विन्यासलक्षणं वक्ष्यतेऽधुना ।
पूर्वोक्तदण्डमानेन विस्तारायामकल्पनम् ॥
समविस्तारसायाममायाधिकमथापि वा ।
चण्डिताख्यपदं न्यासं वाऽपि मण्डूकं परिकल्पयेत् ॥
ग्रामे चायविस्तारौ समे (मौ) चेत्कल्पयेत्सुधीः ।
आयाधिकं यथा ग्रामे नन्दनन्दपदं भवेत् ॥
अथवा स्थण्डिलं न्यस्य (सेत्) समायाममित्यपि वा ।
पदं च चण्डित (तं) तन्मध्ये ब्रह्मणश्च चतुष्पदम् ॥
तद्बहिः परितो भागे दैवकं च (द्वा) दशांशकम् ।
तद्बाह्ये विंशतिपदं परितो मानुषं भवेत् ॥
तद्बहिश्श्रावृतांशेन पशाचं चाष्टविंशति (तिः) ।
एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ॥
मध्ये नवपदं बाह्ये दैवकं षोडशांशकम् ।
तद्बहिर्मानुषं चैव चतुर्विंशपदं भवेत् ॥
पैशाचं बाह्य मावतं तत्त्रिंशकं पदम् ।
स्थण्डिलं (ल) पदमध्ये च ब्रह्मणस्यै (ण ए) कमात्रकम् ॥
दैवकं चाष्टभागं स्यान्मानुषं षोडशांशकम् ।
तद्बहिश्च चतुर्विंशत्पदं पैशाचमेव च ॥
एषां पदैर्यथायोग्यं विन्यसेच्छिल्पि (ल्प) वित्तमः ।
तत्पैशाचपदं चोक्तं नन्द्यावर्ताकृतिर्भवेत् ॥
प्राचीरथ्योत्तरा (स्मार) स्य स्याद्दक्षिणायत (तं) निर्गमम् ।
दक्षिणवीथीपूर्वादिपश्चिमायतनिर्गमम् ॥
पश्चिमवीथी (थ्याः) दक्षिण्या (णा) दुत्तरायत (तं) निर्गमम् ।
उदग्विथी (थ्याः) प्रतीच्यादितत्पूर्वायत (तं) निर्गमम् ॥
नन्द्यावर्ताव्रतावीथी मे (ए) वमूह्यं (ह्या) विचक्षणैः ।
दक्षिणोदग्द्वयोर्वाऽपि प्राक्प्रत्यग्वि (द्धि) तयो र पि (वा) ॥
अन्तर्वीथीनां मूलाग्रौ (ग्रयोः) चैकपक्तं प्रयोजयेत् ।
पार्श्वयोश्च द्विविधं स्याद्धि पक्षमुक्तं पुरातनैः ॥
एवं बाह्यवीथी स्यादन्तर्वीथिरि (थी) त्विहोच्यते ।

v1.c64.44

आयते दीर्घरथ्या स्याद्विस्तारे दीर्घमेव च ॥
एकत्रिषञ्चसप्तयो (सप्त) वीथी (ध्यः) पूर्वांद्विपक्षयुक् ।
एकद्वित्रिचतुष्पञ्चमार्गं वा परिकल्पयेत् ॥
एवं बहिर्गतं मार्गं तत्र पक्षं न कारयेत् ।
पक्षयुक्ता तु वीथी स्यात्पक्षहीनं तु मार्गकम् ॥
महामार्गं तु सर्वेषां (र्वासां) वीथीनां कर्करीकृतम् ।
मध्येषां तु (मध्य एषां) यथारज्जुः (ज्जु) क्षुद्रमार्गं प्रयोजयेत् ॥
त्रिचतुः (तुष्) पञ्चदण्डं वा वीथीनां विस्तृतिर्भवेत् ।
षट्सप्ताष्टदण्डं वा नन्दपङ्क्तीशभानुषु (नुं वा) ॥
केचि (काञ्चि) द्रथ्या विशालाश्च सर्वेषां तत्समं तु वा ।
महामार्गविशालं (तु) यद्वीथीनन्दसमं तु वा ॥
महारथ्या (मार्ग) समं मध्ये वीथीविस्तारमिष्यते ।
मध्ये (वीथी) समं तु मध्ये च मार्गमेवं विशालकम् ॥
तदष्टांशोनमेवं वा त्रिपादं चार्धमेव वा ।
अन्यासां सर्ववीथीनां यथातत्सममेव वा ॥
तत्समं (सर्वासां) वा त्रिपादं वा महामार्गं (र्गं) विशालकम् ।
तत्त्रिपादार्धं तु विस्तारं क्षुद्रमार्गविशालकम् ॥
एवं विन्यासमुद्दिष्टं भूसुराणां तु योग्यकम् ।
अथाष्टाधिकं पञ्चाशदष्टोत्तरशतं तु वा ॥
त्रिंशत्तैर् (त्रिंशत) विप्रसंख्या (विप्रसंघं) च भ्र (चाप्य) ष्टोत्तरसहस्रकम् ।
सहस्रत्रयव(वि)प्रं वा सहस्रैश्च चतुष्टयम् ॥
दे (द्वे) वमनुतु (मानुष) पैशाचे भूसुरान् (सुरैः) परिपूर्णकम् ।
एवं मङ्गलमाख्यातं यस्तु वास्तुर् (स्तुं) विनिर्दिशेत् ॥
नृपवैश्यादिजातीनामेवं चेत् पुरमुच्यते ।
वैश्यशूद्रादीनां योग्यमग्रहारं प्रशस्यते ॥
एवं मर्त्यपदेनान्तः भूसुराणां गृहान्वितम् ।
दैवमानुषपैशाचे चद्व्राजगृहमेव च ।
तत्पैशाचपदे वैश्यशूद्रजात्यादिकालयम् ।
पैशाचे च द्विरथ्या वा त्रिचतुष्पञ्चषडेव वा ॥
सप्तकं (काः) वा तथा रथ्या वा यथा विशालं तथा न्यसेत् ।
दक्षिणे प्रथमार्थ्ये (मरथ्यायां) वैश्यकानां तु वेश्मनि ॥
वारुणे चक्रवर्ती स्याद्देवमालयस्य विधिः ।
अथ मित्रपदे चैव जयन्ते रुद्रजये तथा ॥
एवं राजगृहं प्रोक्तं तत्रैव (च) योधकालयम् ।
नैर्ऋत्ये च पदे देशे श्रीकराणां तु हर्म्यकम् ॥

v1.c64.45

सामन्तप्रमुखादीनामसुरे सोष्ठ (शोष) केऽपि च ।
तत्रैवामात्यहर्म्यं स्यात्स्वासिकालयमेव च ॥
पुरोहितालयं सुग्रीवे पुष्पदन्तपदेऽपि च ।
दौवारिकश्च सुग्रीवे रक्षकारालयं भवेत् ॥
गन्धर्वरोगशोषे वा वाचकाद्यादेशालयम् ।
तत्रैव गणिकादीनां नृत्तयोग्यांदिश (दिका) लयम् ॥
वायव्ये वा नरे (नागे) वाऽपि स्थपतीनां तथालयम् ।
नागे चाथवा मुख्ये वा नेत्ररत्नकरालयम् ॥
उत्तरे शल्यशालाश्च (तत्र) कञ्चयासका (कञ्चुककारा) लयम् (यं वा) ।
अदितिश्वादितिश्चैव वैद्यकादितथा (दीनामा) लयम् ॥
ईशे वाऽथ जयन्ते वा ग्रामरक्षितकालयम् (च) ॥
महेन्द्रे वाऽथ सत्ये वा कर्णिकारालयं भवेत् ॥
भृशे वा चान्तरिक्षे वा आं (चा) हूयक्रम (कर्म) हर्म्यकम् ।
एवं प्रथमावरणे द्वितीयावरणमुच्यते ॥
तैलोपजीविनां वासश्रेष्ठितो(त ऽ)त्तरवीथिके ।
तत्रैव नानाहर्म्यं स्यात्कुलालालयमेव च ॥
मत्स्योपजीविनां वास (सं) मांसव्यापारिकादीनां च ।
पश्चिमे वालयश्रेणः किरातानां तु दक्षिणे ॥
आग्नेये वायवे वापि रजकस्यालयं भवेत् ।
दक्षिणे पूर्वदेशे वा नृत्तकारालयं भवेत् ॥
उत्तरे वा नैर्ऋते वापि सूति (चि) कारालयं भवेत् ।
एवं द्वितीयावरणे तृतीयावरणे(णमु) च्यते ॥
दक्षिणे कर्मकारस्य तत्र श्रेण्यालयं भवेत् ।
उत्तरे चाग्निदेशे वा पेटिकारालयं भवेत् ॥
पश्चिमे पूर्वके वापि शस्त्रकर्मकरालयम् ।
उत्तरे चर्मकारस्य तच्छ्रेण्यालयमेव वा ॥
अन्यथा (दा) वरणाः (णाम्) सर्वमन्यत् कर्मोपजीविनाम् ।
एवं नरालयं प्रोक्तं देवानामधुनोच्यते ॥
आयादिषु चतुर्दिक्षु ग्रामस्यापि चतुर्दिशि ।
एवं यथेष्टदिग्देशे विष्णुधिष्ण्यं प्रकल्पयेत् ॥
अथवा बहिरङ्गे तु चेष्टदिग्विष्णु (ष्णो) शालयम् ।
इन्द्रादिषु चतुर्दिक्षु विष्णुस्थानं तु राक्षसे ॥
पूर्वके श्रीधरं प्रोक्तं दक्षिणे वामनं तथा ।
पश्चिमे वासुदेवं वा चादिविष्णुं जनार्दनम् ॥
उत्तरे केशवं प्रोक्तं नारायणमथापि वा ।

v1.c64.46

अन्तः प्रागुत्तरे देशे विष्णुमूर्तिर् (र्त्तिं) यथेष्टकम् ॥
पितृदेवेशकोणे वा य (त) था नृसिंहरालयं भवेत् ।
अग्निकोणे य (त) था रामं गोपालालालयमेव वा ॥
मित्रे च त्रितलं कुर्यात्स्थानकं चाङ्घ्रिभूमिके ।
द्वितीयं (ये) चासनं प्रोक्तं तृतीये शयनं भवेत् ॥
अथवा स्थानकं चोर्ध्वे शयनं मूलकस्थले ।
इष्टदिग्विष्णुहर्म्याणां द्वारं कुर्याद्विचक्षणः ॥
ग्रामस्याभिमुखं विष्णुं नरसिंहं पराङ्मुखम् ।
लक्ष्मी नृसिंहंश्चैवापि ग्रामस्याभिमुखो भवेत् ॥
रुद्रं रुद्रजये वापि इ (त्वि) न्द्रश्चेन्द्द्रजयेषु च ।
आपवत्स्या (त्सा) पवत्स्यश्च सावित्र (त्र) श्चा (श्च) सान्द्रके (सवित्रके) ॥
ईशे वाथ जयन्ते वा पर्जन्यस्य पदेपि वा ।
एवमीशालयं कुर्याद्ग्रामस्य तु पराङ्मुखम् ॥
पूर्वंके पश्चिमे वापि तत्रैवाभिमुखं भवेत् ।
अन्यत् सकलरूपाणां हर्म्यद्वारं यथेष्टतः ॥
स्वकर्णे वाऽपि दौवारिके सुब्रह्मण्यालयं भवेत् ।
अथवा जिनालयं स्यात्सुगंतालयमेव च ॥
चतुर्दिक्षु विदिच्वा (क्ष्व) वि मध्ये वैनायकालयम् ।
गन्धर्व (र्वे) भृङ्गराजे वा भार्यकारालयं भवेत् ॥
मुख्येवाथ च भल्लाटे सा (स) रस्वत्यालयं भवेत् ।
अदितौ वा मृगे वापि लक्ष्मीभवनकं स्मृतम् ॥
तत्रैव भुवनदेवीहर्म्यमेवं प्रकल्पयेत् ।
यद्द्वारस्य वहिरङ्गे रक्षार्थं भैरवालयम् ॥
राक्षसे पुष्पदान्ते वा दुर्गागारञ्चापि चालयम् ।
तद्ग्रामस्य वहिः सौम्ये कालि (ली) कोष्ठं प्रकल्पयेत् ॥
ग्रामात्क्रोशावसानं स्यात्पूर्वं वा चोत्तरेऽपि वा ।
तत्र चण्डालवासः स्याच्चोत्तरे च श्मशानकम् ।
ग्रामस्य चोत्तरे बाह्ये प्रेतभूतांरादण्डकम् ।
ग्रामस्य परितो बाह्ये रक्षार्थं वप्रसंयुतम् ॥
तद्बहिः परिखायुक्तं परितो वप्रवेदिकैः ।
चतुर्दिक्षु चतुष्कोणे महाद्वारं प्रकल्पयेत् ॥
वृत्तं वा चतुरश्रं वा वास्तुस्वाकृतिक्रप्रयुक्त् ।
पूर्वद्वारमथैशाने चाग्निद्वारं तु दक्षिणे ॥
पितृद्वारं तु तत्प्रत्यग्वायोर्द्वारं तथोत्तरम् ।
पूर्वपश्चिमयोर्द्दारौ तत् (तन्ने) सूत्रं तु योजयेत् ॥

v1.c64.47

दक्षिणोत्तरयोर्द्वारौ तत्र देशे विशेषतः।
दक्षिणोत्तरकं सूत्रं विन्यसेच्छिल्पिवित्तमः ॥
तस्य सूत्रान्ततत्पूर्वे हस्तं तद्द्वार (रं) मध्यमे ।
एवं दक्षिणतो द्वारं तद्वि वा (द्वा) रौ तथोक्तवत् ॥
उत्तरे द्वार (रं) तत्सूत्राद्द्वाल्यहस्तावसानकम् ।
चतुर्दिक्षु चतुर्द्वारं युक्तं वा नेष्यते बुधैः ॥
पूर्वे पश्चिमके वाऽपि द्वारमेतत् (मेकं) द्वयोर (यम) पि।
परितश्चतुरश्राया द्वारं कुर्यात्तु सर्वदा ॥
एतत्सर्वं महाद्वारमुपद्वारमिहोच्यते ।
नागे वाऽपि मृगे वाऽ(प्य) थादितिश्चो (तौ चो, दितोऽपि वा ॥
पर्जन्ये वान्तरिक्षे वा पूषे (पूष्णि) वा वितथेऽपि वा।
गन्धर्वे भृङ्गराजे वा सुग्रीवे वा सुरेऽथवा ॥
तथेष्टमेवमुपद्वारं कुर्यात्तल्लक्षणवित् (र्यादुक्तलक्ष्मवत्) ।
मुख्यके वाऽथ भल्लाटे मृगे चोदितोऽथवा ॥
जयन्ते वा महेन्द्रे वा सत्यके वाऽथ भृशेऽथवा ।
एवमेवं जलद्वारं कुर्यात्तत्र विचक्षणः ॥
ब्रह्मणो वाऽग्नितद्देशे वा सावित्रे वा मण्डपं भवेत् ।
भूधरे चासुरे वाऽपि सभास्थानं प्रकल्पयेत् ॥
नन्द्यावर्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ।

v1.c64.48

एककुटुम्बिसमेतं कुटिकं स्या (त्त?) देवभोगमिति कथितम् ।
तस्य सुखालयमिष्टं शेषाणां दण्डकादीनि ॥
युग्मायुग्मविभागैर्द्विविधं स्यात् सर्ववस्तुविन्यासम् ।
युग्मे सूत्रपथं स्यादसमे पदमध्यमे च वीथी स्यात् ॥
अन्योन्यसङ्करश्चेदशुभं स्यात् सर्वजन्तूनाम् ।
दण्डकमपरं स्वस्तिकमित ऊर्ध्वं प्रस्तरं चैव ॥
पश्चात् प्रकीर्णकं स्यान्नन्द्यावर्तं परागमथ पद्मम् ।
स्याच्छ्रीप्रतिष्ठितेनैवाष्टविधं ग्राममुद्दिष्टम् ॥

v1.c64.49

सर्वेषां ग्रामाणां मङ्गलवीध्यावृता बहिस्त्वबहिः ।
ब्रह्मस्थानं ह्युदितं तस्मिन् देवालयं तु वा पीठम् ॥
एकद्वित्रिचतुर्भिः पञ्चभिरपि कार्मुकैश्च मार्गवतिः ।
प्राक्प्रत्यग्गतमार्गा ऋजुदण्डमहापथाख्यास्ते ॥
मध्यमयुक्ता वीथी ब्रह्माख्या सैव नाभिः स्यात् ।
द्वारसमेता वीथी राजाख्या च द्विपार्श्वतः क्षुद्रा ॥
सर्वाः कुट्टिमकाख्या मङ्गलवीथी तथैव रथमार्गम् ।
तिर्यग्द्वारसमेता नाराचपथा इति ख्याता ॥

v1.c64.50

उत्तरदिङ्मुखमार्गाः क्षुद्रार्गलवामनाख्यपथाः ।
ग्रामावृता मङ्गलवीथिकाख्या पुरावृता या जनवीथिका स्यात् ।
तयोस्तु रथ्याभिहिताभिधा स्यात् पुरातनै रन्यतमेष्वथैवम् ॥
द्विजकुलपरिपूर्णा वस्तुयन्मङ्गलाख्यं ,
नृपवणिकभियुक्तं वस्तुयत्तत्पुरंस्यात् ।
तदितरजनवासं ग्राममित्युच्यतेऽस्मिन् ,
मठमिति पठितं यत् तापसानां निवासम् ॥
प्रागुदग्रं मार्ग ककनीकृतदण्डवत्तु तन्मध्ये ।
द्वारचतुष्टययुक्तं दण्डकमिति भण्यते मुनिभिः ।
दण्डवदेका वीथी साप्येवं दण्डकं प्रोक्तम् ॥
नवपद्युक्ते ग्रामे परितो मार्गं पदस्य तस्य बहिः ।
तस्मात् प्रागुदग्रग्रात् प्राग्विथी दक्षिणाग्रामा ॥
तस्मात् प्राग्दक्षिाणतो दक्षिणवीथी प्रतीचिमुखा ।
तस्मादवागपरतः पश्चिमवीथ्यग्रमुत्तरतः ॥
अपरोत्तरतस्तस्मादुत्तरवीथ्या मुखं प्राच्याम् ।
एतत् स्वस्तिकमुदितं स्वस्त्याकृत्या चतुर्मार्गम् ॥
प्राक्प्रत्यग्गतमागैस्त्रिभिरुदगग्रैस्त्रिभिश्चतुर्भिरथो ।
पञ्चभिरपि षट्सप्तभिरपि युक्तं प्रस्तरं पञ्च च ॥
प्रागग्रैस्तु चतुर्भिर्द्वादशशिवपङ्क्ति नन्दवसुमार्गैः ।
उदगग्रैरभियुक्तं ह्येतत् प्रोक्तं प्रकीर्णकं पञ्च च ॥
प्राक्प्रत्यग्गतमागैः पञ्चभिरुदगग्रैस्त्रयोदशभिः ।
द्विः सप्तभिरथ तिथिभिः षोडशभिः सप्तदशभिरपि मार्गैः ॥
युक्तं नन्द्यावर्तं दिक्षु चतुर्द्वारसंयुक्तम् ।
नन्द्यावर्ताकृत्या बाह्ये द्वारैरबाह्यतो मार्गैः ॥
युक्तानेकैर्युकतं नन्द्यावर्ताभमिदमुदितम् ।
आद्यैरष्टादशभिर्द्वाविंशत्यङ्गकैरुरुदग्वक्त्रैः ॥
षड्भिः प्राङ्ग्दमार्गैर्युक्तं ह्य तत् परागमिति कथितम् ।
प्राक्प्रत्यग्गतमार्गैः सप्तभिरुदगग्रैस्त्रिवेदशरैः ॥
षट्सप्तभिरपि युक्तैर्विंशतिभिः पञ्चधा पद्मम् ।
अष्टभिरश्चपूर्वाग्रै रुदगग्रैः साष्टविंशतिभिः ॥
आद्यै र्द्विः षोडशभिर्मार्गैरन्त्यैर्य्युतं यत्तु ।
तच्छ्रीप्रतिष्ठितं स्यादष्टविधं ग्राममुद्दिष्टम् ॥

v1.c64.51

दण्डकः स्वस्तिकश्चैव प्रस्तश्च प्रकीर्णकः ।
नन्द्यावर्तः परागश्च पद्मंकः श्रीप्रतिष्ठितः ॥
ग्रामादीनां तु सामान्यं विन्यासस्त्वष्टधा स्मृतः ।

v1.c64.52

तस्मिन्नेकैव वी (थ्या?थी) स्यात् प्राचीना सोऽपि दण्डकः ॥
प्राग्विथीदक्षिणागा दक्षिणवीथिः प्रतीचिमुखा ।
पश्चिमवीथ्युत्तरगा प्रागग्रा चोत्तरी वीथिः ॥
एवं चेत् स्वस्तिकनाम्ना शिल्पशास्त्रेषु कीर्तितः ।
प्राक्प्रत्यगायतास्तिस्रः सौम्यास्तिस्रोऽथवीथ्यः ॥
रुद्राङ्गिनन्दवसुभिर्मिता वापि प्रकीर्णकेः ।
प्रत्यग्गा वीथयः पञ्च सौम्यान्ताः स्युस्त्रयोदश ॥
शक्त्या वात्रिशदद्योप्यष्ट्याद्यष्ट्या च सम्मितम् ।
नन्द्यावर्ते तु विन्यासे ग्रामादौ प्रभवन्ति हि ॥
प्राच्याष्टवीथयो यस्मिन् सौम्या स्त्यादिसंख्यया ।
आकृन्तन्तं सुमा यत्र परागोऽसौ विधीयते ॥
प्राचीना वीथयः स्रष्ट त्रयोविंशादितः क्रमात् ।
आ सप्तविंशतेः सौम्या विन्यासे पद्मके स्मृताः ॥
प्राचीना वीथयोऽष्टौ स्युरष्टाविंशतिकादितः ।
आद्वात्रिंशदुदीच्यः स्युर्विन्यासे श्रीप्रतिष्ठिते ॥
एकद्वित्रिचतुष्पञ्चदण्डैः स्याद् वीथिविस्तृतिः ।
प्रगुत्तराभ्यां वीथिभ्यां कंकरीवन्धमध्यमा ॥
चतुर्द्वारा भावयेयुर्वमास्याद्दण्डकादयः ।
ग्रामपर्यन्तवीथिस्तु ख्याता मङ्गलवीथिका ॥

तृतीयः पटलः: नगर-लक्षणम् नगर निवेशश्च

v1.c64.s1.1

नगर-लक्षणम् नगर निवेशश्च

v1.c64.s1.2

नगर निवेशे

v1.c64.s1.3

आद्यस्तु निगमः प्रोक्तस्कन्धावारो द्वितीयकः।
द्वाणकस्तु तृतीयस्स्याच्चतुर्थः कुब्जको मतः॥
पट्टणं पञ्चमं षष्ठश्शिविरस्तु प्रकीर्तितः।
. . . . . चारस्सप्तमो वाहिनीमुखः॥
निगमादिनगर्य्यस्तु नृपभोग्या उदीरिताः।
वनमध्यङ्गतो वापि गिरिसानुगतोऽपि वा॥
सदातोयातीरभाग्यां रक्षकैरभिसंवृतः।

v1.c64.s1.4

पद्मस्ससर्वतोभद्रो भद्रो विश्वेशपूर्वकः।
कार्मुकः प्रस्तरश्चैव स्वस्तिकश्च चतुर्मुखः॥
श्रीप्रतिष्ठा च नगरी बलिदेवपुरन्तथा।
देवमानुषभेदेन द्विविधं नगरं मतम्॥
वैजयन्तश्च नगरमन्यच्च पुटभेदनम्।
गिरिवारिगुहाभेदान्नगरं तन्त्रिधा मतम्॥
मुखाष्टकञ्च नगरं नन्द्यावर्तमथोत्तरम्।
प्रसिद्धा राजधानी च कीर्तिता नगरोत्तमा।
लोकानन्दकरास्सर्वे यशस्सम्पद्विवृद्धिदाः॥

v1.c64.s1.5

नगरं मन्दिरं दुर्गं पुष्पकं साम्परायिकम्।
निवासः सदनं सद्म क्षयः क्षितिलयस्तथा॥
यत्रास्ते नगरे राजा राजधानीं तु तां विदुः।
शाखानगरसंज्ञानि ततोऽन्यानि प्रचक्षते॥
शाखानगरमेवाहुः कर्वटं नगरोपमम्।
ऊनं कर्वटमेवेह गुणीर्निगम उच्यते॥
आतः स्यान्निगमादूनो ग्रामकल्पो गृहस्त्वसौ।
गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम्॥
उपस्थानं भवेद् राज्ञां यत्र तत् पत्तनं विदुः।
बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम्॥
विधाय कुटिका यत्र पत्रशाखातृणोपलैः।
पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका॥

v1.c64.s1.6

नगरं वर्जयित्वान्यत् सर्वं जनपदः स्मृतः ।
नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥

v1.c64.s1.7

नगरस्य विभागोऽयं यथावत् समुदीरितः ।
खेटं तदर्धविष्कम्भमाहुर्ग्रामं तदर्धतः ॥
योजनेन पुरात् खेटं खेटाद् ग्रामं प्रचक्षते ।
गव्यूतिपरिमाणेन ग्रामाद् ग्रामं प्रचक्षते ॥
द्विकोशाद् विषये सीमा तदर्धेन पुरस्य सा ।
खेटके पुरसीमाधग्रामे खेटार्धतः स्मृता ॥
त्रिंशद्धनूंषि विष्कम्भः पुरे द्विक्वर्त्मसु स्मृतः ।
विंशतिः खेटके मार्गा ग्रामे दश च दर्शिताः ॥
नव ग्रामसहस्राणि नवति (श्र? ञ्च) प्रचक्षते ।
चतुःषष्टिमपि ग्रामान् ज्यायो राष्ट्रं विदुर्बुधाः ॥
दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा ।
ग्रामाश्रतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥
सहस्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम् ।
ऊना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ॥
अप्यर्धसंख्ययैतेषां ज्येष्ठमध्यकनीयसाम् ।
विधाय नवधैकैकं विभजेद् विधिवत् सुधीः ॥
राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित् ।
निवेशयेत् पुराण्येषु सप्त सप्त यथागमम् ॥

v1.c64.s1.8

वक्ष्ये पुरस्य चाकारं साम्प्रतं लक्षणं पुनः ।
प्रशस्तं दोषरहितं पुरनामानि विंशतिः ॥
माहेन्द्रं सर्वतोभद्रं सिंहावलोकवारुणे ।
नन्द्यावर्तं च नन्दाख्यं पुष्पकं चैव स्वस्तिकम् ॥
पार्श्वदण्डं जयन्तं च श्रीपुरं रिपुमर्दनम् ।
स्नाहं दिव्यमुत्तरं च धर्मं कमलशक्रदे ॥
महाजयं पौरुषं च साम्प्रतं कथितं बुधैः ।
पुराणां विंशतिश्चैव ख्याता भुवनमण्डनम् ॥

v1.c64.s1.9

महेन्द्रं चतुरश्रं च सर्वतोभद्रमायतम् ।
सिंहावलोकनं वृत्तं वृत्तायतं च वारुणम् ॥
मुक्तकोणं च नन्दाक्षं नन्द्यावर्ते च स्वस्तिकम् ।
पुष्पकंमष्टदलाख्यं स्वस्तिकं तु चाष्टाश्रकम् ॥
यवाकृति जयन्तं च दण्डं स्याद्विदीर्घकम् ।
श्रीपुरं चैकप्राकारे द्वाभ्यां तु रिपुमर्दनम् ॥
शैलकुक्षौ तथा स्नाहं दिव्यकं शैलमस्तके ।

v1.c64.s1.10

मधुरे च सौम्याख्यं सरिद्याम्ये तु धर्मकम् ॥
पौरुषं पुरुषाकारं नद्योश्चैवं महाजयम् ।
पुरं विंशतिसङ्ख्याकं रम्यं सुरनरोरगैः ॥
स्वस्तिशान्तिकरं नित्यं गोब्राह्मणधराभुजाम् ॥
माहेन्द्रं चतुरश्रं च प्रतापकीर्तिवर्धनम् ।
वृद्धिदं सर्वतोभद्रं नित्यं तद्भद्रशान्तिदम् ॥
सिंहावलोकनं रम्यं हरै (तै) रिपुरिशाव (त) धी (वी) ? ।
वारुणे तु प्रजावृद्धिनंन्दाख्ये नन्दनं चिरम् ॥
नन्द्यावतं मङ्गलाख्यं त्रिदशानां च पुष्पकम् ।
स्वस्तिकृत्स्वस्तिकं प्रोक्तं जयन्तं च जयावहम् ।
वृद्धिदं पार्श्वदण्डं च श्रीप्रदं श्रीपुरं तथा ।
रिपुमर्द्दनं रिष्वन्तं स्नाहं चैवाभयप्रदम् ॥
दिव्यकं देवभवनमुत्तरं चोत्तमोत्तमम् ।
धर्मं धर्मकरं नित्यं कमलं शान्तिदायकम् ॥
इन्द्रराज्योदयं शक्रं पौरुषं भीमविक्रमम् ॥
महाजयं पुरं नाम सर्वदानन्दकारकम् ॥
इत्थमाकृतयो गुणाः कथितास्तव मयाधुना ।
शुभानां सुप्रशस्तानां पुराणां विंशतिस्तथा ॥

v1.c64.s1.11

सर्वेषां नगरादीनां भेदं (दो) लक्षणमुच्यते ।
नगरं राजधानीयं केवलं नगरं तथा ॥
पुरं य नगरी चैव खेट (टं) खर्वटमेव च ।
कुब्जकं पत्तनं चैव शिविरं वाहिनीमुखम् ॥
स्थानीयं द्रोणकं चैव संविद्ध कोलकं ततः ।
निगमं स्कन्धावारं च दुर्गं चाष्टविधं भवेत् ॥
नगरादीनि (दि) सङ्ग्रामं च प्रोक्तं दुर्गं च सप्तमम् ।

v1.c64.s1.12

राष्ट्रमध्ये नदीतीरे बहुपुण्यजनावृतम् ॥
मध्ये राजयुतं चैव नगरं कृत्वमिष्यते ।
तत्रागते नगर्र्यन्तं यदि विष्ण्वालयं भवेत् ॥
राजधानीति तन्नाम विद्वद्भिर्वन्द्यते सदा ।
चतुर्दिक्षु चतुर्द्वारैं गोपुरैश्च समन्वितम् ॥
रक्षागृहैः समाकीर्णं विण्वक्सेनालयान्वितम् ।
वणिग्भिश्च समाकीर्णमापणैश्च समावृतम् ॥
अन्तर्बहिर्जनैः पूर्णा (णं) नानादेवालयैरपि ।
केवलं नगरं प्रोक्तं यदेतं (तत्) तन्त्रपारगैः ॥
काननोद्यानसंयुक्तं नानाजनगृहान्वितम् ।

v1.c64.s1.13

क्रयविक्रयविद्भिश्च वैश्यरवेणसंमि(संयु)तम् ॥
देवसद्मसमायुक्तं पुरमेतत्प्रकथ्यते ।
अस्यान्ते राजनिलयं नगरीति तमि (दि) ष्यते ॥
नदीपर्वत(त्) प्रान्ते (च) शूद्रालयसमन्वितम् ।
महाप्रावृतसंयुक्तं खेटमुक्तं पुरातनैः ॥
परितः पर्वतैर्युक्तं नानाजातिगृहैर्वृतम् ।
सर्वप्रचारसंयुक्तमेतत्खर्वटमीरितम् ॥ ॥
खेटखर्वटयोर्मध्ये सर्वमध्या (र्त्या) लयान्वितम् ।
वप्राभावस्वते (स्त्रे तु) तत्तु कुब्जकमुदाहृतम् ॥
अब्धितीरप्रदेशे तु नानाजातिगृहैर्वृतम् ।
वणिग्जातिभिराकीर्णंक्रयविक्रयपूरितम् ॥
रत्नैद्वीपान्तरैर्नित्यैः (रानीतैः) क्षौमैः कर्पूरकादिभिः।
एतत्पत्तनमाख्यातं वप्रायतसमन्वितम् ॥

v1.c64.s1.14

नगरादीनां मानं विन्यासं च क्रमादहं वक्ष्ये ।
आद्यं धनुषां त्रिशतं तस्माच्छतदण्डवर्धनादुपरि ॥
साष्टकसप्ततिसेदाश्चाष्टसहस्रान्तकं यावत् ।
नगराणां विपुलं हि प्रोक्तं पूर्वोक्तमानेन ॥
शतदण्डादिदशवृद्ध्या त्रिःसप्तत्रिशतदण्डान्तम् ।
क्षुद्राणामिदमुदितं नगराणामेव सर्वेषाम् ॥
चतुःसहस्रक्रान्तं पञ्चशतोनाद्धि पञ्चपञ्चधा मानम् ॥
त्रिशतादिचतुःशतकं यावद् वृद्ध्या तु विंशतिभिः।
षड्भिरर्धमुक्तं खेटं श्रेष्ठे मध्ये परे विपुलम् ॥
तस्मात् त्रिषड्बुद्ध्या द्रोणमुखे पञ्चधा मानम् ।
(स?) षण्णवतिचतुः शतकं यावत् तावत्तु विस्तारम् ॥
द्विशतादि चतुःशतकं यावत् पञ्चाशदभिवृद्ध्या ।
पञ्चप्रमाणमेवं खर्वटविस्तार उद्दिष्टः ॥
द्विशतादिपङ्क्ति वृद्धया चत्वारिंशत्रिशतदण्डं स्यात् ।
यावन्निगमे विपुलाः प्रोक्तास्त्रिःपञ्चभेदाश्च ॥
शतदण्डे शतवृद्ध्या पञ्चशतं यावदुद्दिष्टम् ।
स्यात् कोल्मकोलकानां विपुलं पञ्चैव भेदेन ॥
तावन्मानं प्रोक्तं पुरविपुले सूरिभिः प्राज्ञैः ।
यावत् पञ्चशतान्तं द्विशतादारभ्य सप्तधा मानम् ॥
पञ्चाशद्धनुवृद्ध्या विपुलं कथितं विडम्बस्य ।
प्रागुपदिष्टं मानं ह्येतन्मानं तु वैतेषाम् ॥
द्विगुणं त्रिपादमर्धं पादं तेषां मुखायतं विपुलात् ।

v1.c64.s1.15

विपुले तु षडष्टांशे भागेनैकेन वायतं पुरतः ॥
चतुरश्रम्रायताश्रं वृत्तं वृत्तायतं च पुनः।
स्याद् गोलवृत्तमेषां वप्राकारास्तु पञ्चैव ॥
षडष्टसप्तपञ्चकचतुरंशैस्तत्कृते विपुले ।
मुनिरसशरयुगशिखिभिर्भागैर्वप्रावधिः प्रोक्तः ॥
द्वित्रिचतुर्हस्तं स्याद् विपुलं सालस्य तुङ्गे तु।
सप्तदशैकादशभिर्हस्तैरग्रं त्र्यंशोनम् ॥
परितः परिखा बाह्ये बाह्ये देवालयादीनि ।
पेचक भागाद्यासनभागान्तं चण्डितं प्रोक्तम्
सूत्रादीन्यश्रविषमस्थानानि च वर्जयेन्मतिमान् ।
प्रागुदग्रं मार्गं तत्र यथेष्टं न्यसेद् विधिना ॥
दण्डादिसप्तदण्डं यावद् दण्डार्धवृद्धया तु ।
मार्गविशालाश्चैते त्रयोदशभेदाः समुद्दिष्टाः ॥
राष्ट्रस्य मध्यभागे सज्जनबहुले नदीसमीपे च ।
नगरं केवलमथवा राजगृहोपेतराजधानी वा ॥
दिक्षु चतुर्द्वारयुतं गोपुरयुक्तं तु सालाढ्यम् ।
क्रयविक्रयकैर्युक्तं सर्वजनावाससङ्कीर्णम् ॥
सर्वसुरालयसहितं नगरमिदं केवलं प्रोक्तम् ।
प्रत्यगुदग्दिशि गहना परितः साला बहिः सपांसुचया ॥
परितः परिखा बाह्ये शिविरयुतानेकमुखरच्या ।
पूर्वायां दक्षिणतश्चाभिमुखा राजबलयुक्ता ।
उन्नतगोपुरयुक्ता नानाविधमालिकोपेता ।
सर्वसुरालयसहिता नानागणिकान्विता बहूद्याना ॥
हस्त्यश्वरथपदातिबहुमुख्या सर्वजनयुक्ता ।
द्वारोपद्वारयुताभ्यन्तरतोऽनेकजनवासा ॥
या नृपवेश्मसमेता सा कथिता राजधानीति ।
काननवनदेशे वा सर्वजनावाससङ्कीर्णम् ॥
क्रयविक्रयकैर्युक्तं पुरमुदितं यत् तदेव नगरमिति ।
शूद्रैरधिष्ठित यन्नद्यचलावेष्टितं तु तत् खेटम् ॥
परितः पर्वतयुक्तं खर्वटकं सर्वजनसहितम् ।
खर्वटखेटकमध्ये यज्जनताढ्यं जनस्थानकुब्जम् ॥
द्विपान्तरागतवस्तुभिरभियुक्तं सर्वजनसहितम् ।
क्रयविक्रयकैर्युक्तं रत्नधनक्षौम गन्धवस्त्वाढ्यम् ॥
सागरवेलाभ्याशे तदनुगतायामि पत्तनं प्रोक्तम् ।
परनृपदेशसमीपे युद्धारम्भक्रियोपेतम् ॥

v1.c64.s1.16

सेनासेनापतियुतमिदमुदितं शिविरमिति च वरैः ।
सर्वजनैः सङ्कीर्णं नृपभवनयुतं तदेव तथा ॥
बहुरक्षोपेतं यद् सेनामुखमुच्यते तज्ज्ञैः ।
नद्यद्रिपार्श्वयुक्तं नृपभवनयुतं लयहरक्षम् ॥
यन्नृपतिस्थापितकं तत् स्थानीयं समुदाहृतम् ।
नद्यब्धिदक्षिणभाग् वणिगादिसंयुक्तम् ॥
सर्वजनावासं यद् द्रोणमुखं प्रोक्तमाचार्यैः ।
ग्रामसमीपे जनतालयमिदमुदितं विडम्बसिति ॥
वनमध्ये जनतासं यत् कोल्मकोलकं प्रोक्तम् ।
चातुर्वर्ण्यसमेतं सर्वजनावालसङ्कीर्णम् ॥
बहुकर्मकारयुक्तं यन्निगमं तत् समुदाहृतम् ।
नद्यद्रिवनसमेतं बहुजनयुक्तं सनृपवासम् ॥
एतत् स्कन्धावारं तत्पार्श्वे चेरिका प्रोक्ता ।

v1.c64.s1.17

नगर-निवेशे मार्ग-विन्यासभेदाः

v1.c64.s1.18

वि०वा०

v1.c64.s1.19

६.४३॥-३४ मुखद्वारान्निर्गता या राजवीथीति कथ्यते ।
पद्मप्रतोलीपुरस्तर- शतद्वयं प्रतोलीनां सङ्ख्या चात्र प्रकीर्तिता ।
राजवीथ्यादिवीथयः वीथीनां क्षुद्रवीथीनां सङ्ख्यानेका समन्ततः ॥
सर्वतोभद्रे यथा नात्रोपवीथीरित्यल्पः क्षुद्रवीथीश्च कल्पयेत् ।
६. ५०॥-५१॥ समसूत्रा राजवीथीः कल्पयेत्ताश्च सर्वतः ॥
प्रतोलीनां पञ्चशतं संख्या चात्र निगद्यते ।
प्रस्तरे यथा सर्वा वीथ्यो द्विपञ्चाशत्युरेकपक्षा बहिः स्थिताः ।
६. ६६-६६॥ शतसंख्यां प्रतोलीनामन्यवीथीश्च कल्पयेत् ॥
वर्हिभिः परडवीथीभिर्नार्यायशालादिकैर्वृतम् ।
चतुर्मुखे यथा प्रतोलीनां शतैर्युक्तमुपवीथीशतेन च ।
६. ८२ बर्हिभिः क्षुद्रवीथीभिस्संयुक्तं च समन्ततः ॥

v1.c64.s1.20

इति दिक्

v1.c64.s1.21

स० सू० चतुश्रीकृते क्षेत्रे प्रागुदीच्यन्तभागतः ।
१०. ५-१५॥ चतुर्भागान्तरा वंशाः कार्यास्तस्य त्रयस्त्रयः ॥
(सप्तदश मार्गाः वंशषट्कविभक्तेऽस्मिन् पदषोडशकान्विते ।
तेषां संज्ञा राजमार्गेः शुभः कार्यों मध्यनं वंशमाश्रितः ॥
विन्यासाश्च) कार्यों ज्यायसि (च) ज्यायांश्चतुर्विंशतिकः करैः ।
विंशत्या मध्यमे मध्योऽधमे षोडशकोऽधमः ॥
बलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च ।
असम्बाधसमस्त्रैष कार्योऽयं कारनशंकरः ॥

v1.c64.s1.22

महारथ्याद्वयं कार्यं तदुपान्तस्थवंशयोः।
तद् द्वादश दशाष्टौ स्यात् करान् ज्येष्ठादिकं त्रिषु ॥
पद्ममध्यगतं कार्यं यानमार्गचतुष्टयम्।
ज्येष्ठादिषु पुरेष्वेवं तत्पथं च चतुःकरम् ॥
उपरध्या महामार्गस्यार्धं वा द्विशताधिकम्।
शेषा रथ्यास्तदर्धेन विधातव्याः प्रमाणतः ॥
यानमार्गचतुष्कस्य कार्यों पार्श्वद्वयाश्रितौ।
पदाष्टिकपदान्तस्थौ द्वौ द्वौ जङ्घापथावपि ॥
पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेऽर्धकरोज्झितौ।
मध्यमादर्धहस्तेन हीनौ स्यातां कनीयसि ॥
पुरस्यान्तर्गतौ कार्यों घण्टामार्गौ तथापरौ।
राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥
प्राक्प्रत्यगायताः सप्तदश मार्गा इतीरिताः।

v1.c64.s1.23

प्राक्प्रत्यग्गतमार्गा द्वादश दश वाष्ट षट्चतुर्युगलम्।

v1.c64.s1.24

तावदुदीचीनास्ते तत्रैवायुग्मसङ्ख्या वा ॥

v1.c64.s1.25

एकादशनवसप्तकपश्चगुणा वैकमार्गा वा।

v1.c64.s1.26

युग्मायुग्मपदेषु ह्येकत्रिभिरंशकैरंशाः स्युः॥

v1.c64.s1.27

नगरादीनामेवं मार्गाण्युदितानि सर्वेषाम्।

v1.c64.s1.28

दण्डवदेका वीथी तद्दण्डकमित्यभीष्टं स्यात् ॥
उत्तरदिङ्मुखमेकं तन्मध्ये संप्रयुक्तं चेत्।
कर्तारिदण्डकमुदितं प्राचीनौ कुट्टिमौ तर्हि ॥
तद्द्वाहुदण्डकं स्याद् दिक्षु चतुर्द्वारसंयुक्तम्।
बहुकुट्टिमसंयुक्तं मध्ये वीथ्या द्विपाश्र्वं तु ॥
शेषं पूर्ववदिष्टं कुटिकासुखदण्डकं प्रोक्तम्।
प्राचीनौदीचीनेर्मार्गेस्त्रिभिरेव संयुक्तम् ॥
तत् कलकाबन्धदण्डमिति तज्ज्ञैः समुद्दिष्टम्।
प्राङ्मुखवीथ्यस्तिस्रश्चोत्तरमार्गास्त्रयश्चैव ॥
एकैकान्तरितास्ते कुट्टिममार्गास्त्वनेकाश्च।
वेदीभद्रकमुदितं नगरादीनामिदं शस्तम् ॥
स्वस्तिकमुदितं ग्रामे यथा तथा स्वस्तिकं विद्यात्।
प्रागुत्तरमुखमार्गाः षट्षडभीष्टास्तु तद्बाह्ये ॥
प्राग्विव मार्गोपेतं वीथिपदं स्वस्तिकं चैव।
प्राचीनौदीचीनाश्चत्वारश्चैव मार्गाः स्युः॥
ब्रह्मावृतपथमेकं कुट्टिममार्गास्त्रयः प्राच्याम्।
एतद् भद्रकमुदितं नाम्ना नगरादिविन्यासम् ॥

v1.c64.s1.29

प्राङ्मुखमार्गाश्चैवोत्तरमार्गास्तथैव स्युः ।
बहुकुट्टिमसंयुक्तं भद्रमुखं नाम वस्तु स्यात् ॥
प्राचीनास्तुपडेवैवोत्तरवक्त्रास्तथा मार्गाः ।
यद् बहुकुट्टिमयुक्तं तद्वस्तु भद्रकल्याणम् ॥
पूर्वापरमुखमार्गाः सप्तैवोदङ्मुखाश्च तथा ।
शेषं प्रागिव सर्वं विन्यासं तन्महाभद्रम् ॥
अष्टौ पूर्वमुखास्ते मार्गाश्चाष्टावुदग्वक्त्राः ।
द्वादशमार्गोपेतं वह्वर्गलकुट्टिमैर्युक्तम् ॥
यद् तद् वस्तुसुभद्रं नाम्ना विन्यासमुद्दिष्टम् ।
नवनवमार्गाश्चैते प्राचीनाश्चाप्युदीचीनाः ॥
द्वारोपद्वारयुतं कुट्टिममार्गलैर्युक्तम् ।
राजगृहपेतं यन्नगरं नाम्ना जयाङ्गः स्यात् ॥
प्राचीना दश मार्गाश्चोत्तरमार्गास्तथैव स्युः ।
नृपमन्दिरसंयुक्तं युक्त्यानेकार्गलोपेतम् ॥
बहुकुट्टिमसंयुक्तं विजयं नाम्ना वरैः प्रोक्तम् ।
प्राचीनास्त्वेकादश मार्गा रुद्रा उदीचीनाः ॥
ब्रह्मांशादपरांशा यदभीष्टं तत्र नृपवासम् ।
तन्मुखतोऽभ्रमहाङ्गएकं स्यादिष्टभागे तु ॥
तत्रान्तः पुरवासं शेषं सर्वं समुन्नेयम् ।
तस्यागुन्नतमागी सा कथिता राजवीथीति ॥
तस्या द्विपार्श्वयोः स्यात् सैश्चर्याणां मालिकापङ्क्तिः ।
तत्पार्श्वयोर्निवासो वणिजां स्यात् तस्य दक्षिणतः ॥
स्यात् तन्तुवायवासं ह्युत्तरतश्चक्रिणां वासम् ।
तत्तज्जात्यन्तरगृह्मथ तत्सामीप्यतः कुर्यात् ॥
शेषं प्रागिव सर्वं योग्यं तत् सर्वतोभद्रम् ।
एवं षोडश भेदा ह्युदिताश्चाद्यैर्मुनीन्द्रैस्तु ॥
मार्गच्छेदं नेष्टं पदमध्ये चत्वरं न स्यात् ।
शेषं युक्त्यानुक्तं सम्यग् योज्यं नृपेच्छया तज्ज्ञैः ॥
क्षुद्राणामपि चैषां मध्यानां चापि सर्वेषाम् ।

v1.c64.s1.30

मार्गचतुष्पथाः मार्गेषु जलभ्रमाश्च

v1.c64.s1.31

टि०—समराङ्गणादिवास्तु-शास्त्रेषु शुक्रनीतिसारादिसमाज-शास्त्रेषु च सुनिर्दिष्टाः सन्त्ये यथावसरं ग्रन्थग्रन्थितेाइति नायोपश्लोकिताः ।

v1.c64.s1.32

पुर-निवेशे (नगर-निवेशे ग्राम-निवेशे वा) जातिवर्णाधिवासः-

v1.c64.s1.33

वि० वा० म डके ७. ११ विप्रैरधिकसंख्याकैर्मण्डकग्राम ईरितः ॥ प्रस्तरे ७. १५ विप्रैरधिकसंख्याकैस्स युक्तः प्रस्तरो मतः ॥ बाहुलिके ७. १८ नानाजातिभिराकीर्णो ग्रामपालाालयान्वितः । सस्यभूमिसमायुक्तो ग्रामो बाहुलिकास्मृतः ॥ पराके ७. १६ सहस्रजनता यत्र विप्रहीना च भय्यते । पूर्वमुखे ७. २५ प्राच्यां मुखद्वारयुतः परिखावृतवास्तुकः । वैश्यसंख्याधिक्ययुतः पण्यवीथीभिराकुलः ॥ विश्वकर्मणि ७. ३६-४० षट्सहस्रावधिजनैरावृतश्च समन्ततः । नरपालालयोपेतं न्यायवित्सभायुतम् ॥ ग्रामकार्यकरैस्सर्वैरन्वितश्च वणिग्गणैः। पण्यवीथीभिराकीर्णं धनिकैश्च समन्वितम्। वास्तुचिद्भिमिदं नाम्ना विश्वकर्मेति चोदितम् ॥ नगरेषु- भूधरे रुद्रके भाने भृङ्गे मीने च सोमके ॥ सर्वतोभद्रे यथा आपोविवस्वद्भागेषु सावित्रेषु यथाक्रमम् । ६, ४२-४३ ब्राह्मणक्षत्रसद्मानि स्थापयेच्छिल्पकार्यवित् ॥ स० सू० विभागश्च प्रमाणं च लक्षणं चादिमस्य यत्। १०, ८८-१०१ जातिवर्णाधिवासश्च यथावद् तदिहोच्यते ॥ सुवर्णकारान्नाग्नेय्यां तथा वह्न्युपजीविनः । निवेशयेत् कर्मकरानन्यानपि विद्धानवित् ॥ वैश्यानामथधूतानां चक्रिकाणां च दक्षिणे । नटानां नर्त्तकानां च गृहाणि विनिवेशयेत् ॥ निवेशयेत् सौकरिकान् मे (ची?धी) कारान् मृगच्छिदः । कैवर्त्तान् नैऋताशायां दमनाधिकृतांस्तथा ॥ रथेषु कौशलं येषां येषां स्यादायुधेषु च । वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ॥ कर्मस्वधिकृता ये च ये चापि परिकर्मिणः । शौण्डिका ये च तान् सर्वान् वायौर्दिशि निवेशयेत् ॥ यतीनामाश्चयान् ब्रह्मवत्सानां तथा सभाम् । प्रपाश्च पुण्यरशालार्च्च कुर्याद् दिशि धनेशितुः ॥ घृतविक्रयिणो ये च फलविक्रयिणश्च ये । निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥ पूर्वभागे वलाध्यक्षान् राज्ञो मुख्यांस्तथा वले ।

v1.c64.s1.34

निवेशयेत् तथान्नेय्यां बलं नानाविधं सुधीः ॥
श्रेष्ठिनो दक्षिणशालायां तथा देशमहत्तरान् ।
याम्येकहारान् (श्र) कुर्वीत तथा ककुभि नैऋते ॥
कोशपालमहामात्रादेशिकान् कारुकानपि ।
नियामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ॥
वायोः ककुभि कुर्वीत दण्डनाथान् सनायकान् ।
पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥
विप्राः सौम्या दिशो भागे क्षत्रियाः शक्रदिग्गता ।
वैश्यशूद्रास्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥
निवेश्या वणिजो वैद्या मुख्याश्चापि चतुर्दिशम् ।
चतुर्दिशं विशेषेण स्थापयीत बलानि च ॥
नगरस्य बहिः प्राच्यां लिङ्गस्थान् विनिवेशयेत् ।
श्मशानानितथा तस्यान् याम्यायां स्थपतिः सुधीः ॥
ब्राह्मणाः पूर्ववास्तव्याः क्षत्रियाश्चैव दक्षिणे ।
प्रशस्ताश्चोत्तरे शूद्रा वैश्या मध्ये च सङ्कुलाः ॥

v1.c64.s1.35

पुरे पुरे च विप्राश्च क्षत्रिया वैश्यशूद्रकाः ।
तद् बाह्यतस्तथा चान्यास्तथा स्थपतिसङ्कुलाः ॥
विप्रक्षत्रियवैश्यानां प्राकारा वै निवासिनाम् ।
वणिक्कर्मकराणां च मध्यानां च सुखावहाः ॥
विदिक्षु दिक्षु वै कार्या नगरस्वस्तये यथा ।
अष्टद्विरष्टद्वात्रिंशदधमा मध्यमोत्तमाः ॥
चतुर्वर्गांश्च प्रकृतीरेकैकैपु पुरेषु च ।
सर्वत्र वासयेच्चैव नगरांश्च सुखावहान् ॥
पूर्वे ब्राह्मणलोकाश्च क्षत्रियाश्चैव दक्षिणे ।
निवेश्याश्चोत्तरे शूद्राः पश्चिमे तु जलाश्रयाः ॥
पूर्वयाम्योत्तरे शस्तं हट्टमार्गादिचत्वरम् ।
ईशाने शिल्पिनः सर्वे रजकांश्चिछपकाः परम् ॥
चर्मकाराश्च वरुटा आग्नेय्यां दिशमाश्रिताः ।
नैऋत्ये शौण्डिका ज्ञेया वायव्ये तन्तुवायकाः ॥

v1.c64.s1.36

क्रय्यवस्तुयुतौकश्च तदग्रे विक्रयादिकम् ।
यतश्चागम्यते लोकैर्वर्तते जनसङ्कुलम् ॥
स्वर्णकारं सुगन्धं च गन्धिकं च तृतीयकम् ।
दन्तकर्म धान्यगृहमेतत्कुर्यात्तु पूर्वतः ॥
ताम्बूलफलसङ्कीर्णं पुष्पमालादिसङ्कुलम् ।
राजद्वारारग्रतश्चैव यतः स्याच्च जनाकुलम् ॥

v1.c64.s1.37

मञ्जिष्ठरङ्गशोभाढ्यं नारिकेलसमाकुलम् ।
त्रिगणोपस्कराद्यं च राजद्वारोत्तरे शुभः ॥
आयसोपस्करं सर्वं शस्त्रादि विविधं तथा ।
व्यजनच्छत्रमायूरं शाश्वतं दक्षिणे शुभम् ॥
ईशाने च वस्त्रद्वयं पट्टिनेत्रपट्टाद्यकम् ।
स्वल्पवस्त्राद्याग्नेय्यां च वस्त्रबन्धस्तदग्रतः ॥
रक्ताद्युत्तरे शस्तं कृष्णरङ्गादि दक्षिणे ।
पूर्वतः श्वेतवस्त्राद्यं राजवेश्माग्रकल्पितम् ॥
अष्टादशानां धान्यानां सर्वदिक्षु च विक्रयः ।
ताम्बूलानां च पूगानां विक्रयो देवताग्रतः ॥
(तां) दलाक्षं? चित्रलेखाद्या गृहेषु पुरवासिनाम् ।
छिपिका रजकास्त्रैणाः स्वदेवादिपुरे स्थिताः ॥

v1.c64.s1.38

तत्र कुटुम्बावलिकं वक्ष्येऽहं चान्तरापणकम् ॥
परितो रथपथयुक्तं मध्ये वणिजां गृहश्रेणी ।
तद्दक्षिणतः पार्श्वे गेहं स्यात् तन्तुवायानाम् ॥
उत्तरतस्तद्वासावलिकं स्याच्चक्रिकाणां तु ।
कर्मोपजीविनां स्याद् वासं रथपथ्यनेकानाम् ॥
ब्रह्मावृतपथमेकं तत्रान्तरापणं कार्यम् ।
ताम्बूलादि फलं च प्रोक्तं सारान्वितं द्रव्यम् ॥
ईशानादिमहेन्द्रद्वारान्तं चान्तरापणकम् ।
तत्रैव मत्स्यमांसं शुष्कं शाकं च विज्ञेयम् ॥
महेन्द्राद्यम्यन्तं भक्ष्यं भोज्यं च निर्दिष्टम् ॥
अग्न्यादिक्षतगृहपर्यन्तं तत्र भाण्डानि ॥
तस्मान्निऋर्तिपदान्तं कंसादिकमत्र विज्ञेयम् ।
स्यात् पुष्पदन्तभागान्तं पितृभागादि वस्त्रं स्यात् ॥
तस्मात् समीरणान्तं तण्डुलधान्यादिकं च कटम् ।
स्याद् भल्लाटपदान्तं वाय्वादिकं वस्त्रकादीनाम्(?) ॥
तत्रैव लवणादिद्रव्यं तैलादिकं ज्ञेयम् ।
तस्मादीशपदान्तं गन्धं पुष्पादिकं विहितम् ॥
एवं नवान्तरापणमुदितं तत्परितस्तु मध्ये ।
अभ्यन्तरगतमार्गेष्वथ रत्नं हाटकं वस्त्रम् ॥
माञ्जिष्ठं तु मरीचं पिप्पलकं चापि हारिद्रम् ॥
मधुघृततैलादिकमथ भेषज्यं सर्वतः कार्यम् ॥
आर्यपदे च विवस्वति मित्रे पृथिवीधरे च पदे ।
शास्ता दुर्गा गजमुखलक्ष्म्यौ चात्रैव विज्ञेयाः ॥

First 90 of 134 passages. Read on

Linked texts (4)