Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24: मानसारम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24

Language
English

Contents

मानसारम्

संग्रहः

v3.c24.s1.1

उत्पत्तिरक्षयलयान् जगतां प्रकुर्वन् भूवारिवह्निमरुतो गगनं च सूते ।
नानासुरेश्वरकिरीटविलोलमालाबृङ्गावलीढचरखाम्बुरुहं नमामि ॥ १ ॥
गङ्गाशिरःकमलभूकमलेक्षणेन्द्रगीर्वाणनारदमुखैरखिलैर्मुनीन्द्रैः ।
प्रोक्तं समस्ततरवस्त्वपि वास्तुशास्त्रं तन्मानसार-ऋषिणापि हि लक्ष्यते स्म ॥ २ ॥
मानोपकशं चादौ शिल्प[ल्पि]लक्षणपूर्वकम् ।
अथ वास्तुप्रकरणं भूपरीक्षाविधिं तथा ॥ ३ ॥
भूसंग्रहस्ततः प्रोक्तं शङ्कुस्थापनलक्षणम् ।
देवादीनां स्थापनाथ पदविन्यास लक्षणम् ॥ ४ ॥
बलिकर्मविधिं चैव ग्रामादीनां च लक्षणम् ।
नगरीलक्षणं चैव भूमिलम्बविधानकम् ॥ ५ ॥
गर्भन्यासविधिं चैव चोपपीठस्य लक्षणम् ।
अधिष्ठानविधिं चैव पादमानस्य लक्षणम् ॥ ६ ॥
प्रस्तरस्य विधिं चैव सन्धिकर्मस्य(णो) लक्षणम् ।
विमानलक्षणं चैवमेकभूम्याश्च लक्षणम् ॥ ७ ॥
द्वितलस्य विधिं चैव त्रितलस्य विधानकम्
चतुस्तलविधिं चैव पञ्चभूम्याश्च लक्षणम् ॥ ८ ॥
षट्सप्ततलं चैवमष्टभूनवभूमिकम् ।
दशभूमिविधानं च रुद्रभूमिविधानकम् ॥ ९ ॥
तलं द्वादशकं चैव प्राकाराणां च लक्षणम् ।
परिवारलक्षणं चैव(च) गोपुराणां च लक्षणम् ॥ १० ॥

v3.c24.s1.2

मण्डपस्य विधानं च शालानां चैव लक्षणम् ।
विन्यासञ्च गृहस्याथ गृहप्रवेशलक्षणम् ॥ ११ ॥
द्वारस्थानविधिं चैव द्वारमानस्य लक्षणम् ।
राजहर्म्यविधिं चैव राज्याङ्गस्य तु लक्षणम् ॥ १२ ॥
भूपतिलक्षणं चैव यानादिरथलक्षणम् ।
शयनस्य लक्षणं चैव सिंहासनस्य लक्षणम् ॥ १३ ॥
तोरणं(णस्य) मध्यरङ्गस्य कल्पवृक्षस्य लक्षणम् ।
अभिषेकलक्षणं चैव सर्वभूषणलक्षणम् ॥ १४ ॥
ब्रह्मादीनां त्रिमूर्तेश्च लक्षणं लिङ्गलक्षणम् ।
पीठस्य लक्षणं चैव शक्तीनां लक्षणं तथा ॥ १५ ॥
बौद्धस्य जैनिकानां च लक्षणं मुनिलक्षणम् ।
यक्षविद्याधरादीनां लक्षणं भक्तलक्षणम् ॥ १६ ॥
ब्रह्मादीनां च देवानां तत्तद्वाहनलक्षणम् ।
[लक्षणं प्रतिमानां चोत्तमदशतालस्य च ॥ १७ ॥
स्त्रीमानाय मध्यमस्य दशतालस्य लक्षणम् ।
प्रलम्बलक्षणं चैव मधूच्छिष्टविधानकम् ॥ १८ ॥
तथा च लक्ष्यते सर्वमङ्गदोषविधानकम् ।]
नयनोन्मीलनं चैव लक्षणं वक्ष्यते क्रमात् ॥ १६ ॥
मानसार-ऋषि(णोक्तं) कृत(तं)शास्त्रं मानसारमुनिनामक्रमासीत् ।
तत्त शिल्पिवरदेशिकमुख्यैः स्वीकृतं सकललक्षणपूर्व[क]म् ॥ २० ॥

v3.c24.s1.3

इति मानसार वास्तुशास्त्रे संग्रहो नाम प्रथमोऽध्यायः ।

शिल्पिलक्षणपूर्वकं मानो उपकरणविधानम्

v3.c24.s2.1

शिल्पिनां लक्षणं वक्ष्ये मानो उपकरण (णं) क्रमात् ।
परःशिवसकाशाद्धि ब्रह्मा इ(चे)न्द्रोऽपि लोककृत् ॥ १ ॥
स महाविश्वकर्मेति ई(श्वी)श्वरेणेव कीर्तितः ।
स एवायं विश्वकर्मा ब्रह्माण्डं सृजते मुहुः ॥ २ ॥
विश्वकर्मा चतुर्वर्ण(र्वक्त्रा) जाति(तो) ब्रह्मादिवर्ण(वक्र)वत् ।
पूर्वोक्तवर्ण(पूर्ववक्रादीनि) चत्वारि नामं(मानि) वक्ष्ये पृथक् पृथक् ॥ ३ ॥
विश्वभूरिति नामैतत्पूर्ववक्रं प्रकीर्तितम् ।
दक्षिणे विश्वविद्वक्रं विश्वस्त(स्र)श्च तथोत्तरे ॥ ४ ॥
पश्चिमे विश्वस्रष्ट्राख्यं वक्रमेवं चतुर्विधम् ।
एतेभ्यः प्रथमो जातो विश्वकर्मा चतुष्टयः ॥ ५ ॥
पूर्वानुने विश्वकर्मा जायते दक्षिणे मयः ।
उत्तरस्य मुखे त्वष्टा पश्चिमे तु मनुः स्मृतः ॥ ६ ॥
उपयेमे विश्वकर्मा इ(त्वि)न्द्रस्य तनयां तदा ।
मयः सुरेन्द्रतनयामुपयेमे क्रमात्ततः ॥ ७ ॥
त्वष्टा वैश्रवणसुतामुपयेमे त्वनन्तरम् ।
मनुर्नलस्य तनयामुपयेमे तु तुर्यकम(कः) ॥ ८ ॥
विश्वकर्माख्यनाम्नोस्य(इत्यस्य) पुत्रः स्थपतिरुच्यते ।
मयस्य तनयः सूत्रग्राहीति परिकीर्तितः ॥ ९ ॥
त्वष्टुर्देव-ऋषेः पुत्रो वर्धकी(किरि)ति प्रकथ्यते ।
मनोः पुत्रस्तक्षकः स्यात्स्थपत्यादि चतुष्टयमये ॥ १० ॥
स्थपतिस्तु स्तुतैर्यैभ्यस्त्रिभ्यो गुरुरिति स्मृतः ।
सूत्रग्राही गुरुर्द्वाभ्यां तुर्येभ्योऽद्य इति स्मृतः ॥ ११ ॥
तक्षकस्य गुरुर्नाम(न्ना) वर्धकी(किरि)ति प्रकीर्तितः ।
स्थपतिः सर्वशास्त्रज्ञः सूत्रग्राहीति सूत्रधृत् ॥ १२ ॥
वर्धकी(किर्) मानकर्मज्ञः तक्षणात्तक्षकः स्मृतः ।
स्थपतिः स्थापनायार्हः वेदविच्छास्त्रपारगः ॥ १३ ॥

v3.c24.s2.2

स्थापनाधिपतिर्यस्मात्तस्मात्स्थपतिरुच्यते ।
स्थपतेश्चाज्ञया सर्वे सूत्रग्राह्यादयः सदा ॥ १४ ॥
कुर्वन्ति शास्त्रदृष्टे(ज्ञाद्देशे)न वास्तुवस्तु प्रयत्नतः ।
स्थपत्यादिचतुर्वर्गाः शिल्पिनः परिकीर्तिताः ॥ १५ ॥
आचार्यलक्षणैर्युक्तं(क्तः) स्थपतिर्नाम धीयते ।
श्रुतज्ञः सूत्रग्राही च रेखाज्ञः शास्त्रवित्तमः ॥ १६ ॥
विचारज्ञः श्रुतज्ञश्च चित्रकर्मज्ञ(ज्ञो) वर्धकी(किः) ।
तक्षकः कर्मवित्सभ्यो बलबन्धू(न्धु)दयापरः ॥ १७ ॥
श्रुतिशास्त्र(स्त्रं) प्रकर्तव्य(व्यं) सर्वलक्षणमुच्यते ।
इहैव लोके(कस्य) कृतं विना शिल्पि[ना] विना गुरुम् ॥ १८ ॥
न लभ्यते तु यत्तस्माद्देव्यः(भिः) सह[सदैव] कारयेत् ।
विना कृते तु सफलं भुक्ति(क्तिं) मुक्तिं न विन्दति ॥ १९ ॥
शिल्पी(ल्पि)नां लक्षणं प्रोक्तं मानोपकश्रो(णमु)च्यते ।
मुनीनां नयनोद्भूत्य(ष्यं) तत्परमाणुरुदाहृतम् ॥ २० ॥
ताभिरष्टाभिर्गुशितं रथधूलिरिति स्मृतम् ।
रथधूल्यष्टमिलितं बालाग्र[न्तु]मिति[तु] स्मृतम् ॥ २१ ॥
वालाग्रैरष्टधायुक्तं लिच्चे[वि] परिकीर्तितम् ।
लिच्चे(क्षाभि)श्चाष्टभिरायुक्तं यूर्क तमि(दि)ति कथ्यते ॥ २२ ॥
यूकैरष्टाभिः(भिश्च) प्रोक्तं यवमेवं विधीयते ।
यवैरष्टसमायुक्तमङ्गुलं तत्प्रकीर्तितम् ॥ २३ ॥
मानमात्रं त्रिधा प्रोक्तं यववृद्धिविशेषतः ।
षट्सप्ताष्टयवैरेतत्कनिष्ठो(ष्ठ)मध्यमोत्तमम् ॥ २४ ॥
अङ्गुलैर्द्वादशैर्युक्तं वितस्तिः परिकीर्तितम्(ता) ।
वितस्तियुग्मं किष्कुः स्यान्मात्रापल्योऽङ्गलाधिकम्[कः] ॥ २५ ॥
षड्विंशत्यङ्गलो हस्तो धनुर्मुष्टिरिति स्मृतम् ।
सप्तविंशतिकाङ्गुल्यं हस्तमुक्तं धनुर्ग्रहम्[हः] ॥ २६ ॥
चतुर्हस्तं धनुर्दण्डं दण्डाष्टं रज्जुमेव च ।
याने च शयने चैव किष्कुहस्तेन मानयेत् ॥ २७ ॥

v3.c24.s2.3

विमानस्य तु सर्वेषां प्राजापत्येन मानयेत् ।
मानयेद्वास्तु यन्मानं धनुर्मुष्टिकरेण च ॥ २८ ॥
ग्रामादीनां न मानानां (च सर्वेषां) मानयेत्तद्धनुर्ग्रहम् ।
किष्कुहस्तेन यन्मानं मानयेद्विश्ववतस्तु वा ॥ २९ ॥
शमी शाकं च चापं च खदिरः कृ(रश्व) तमालकः ।
चोरिखी तिन्त्रिणी(तिन्दिनी) चैव हस्तदारु प्रकीर्तितम् ॥ ३० ॥
दारुसंग्रहणं(णात्) पश्चात्रिमासान्तं जले क्षिपेत् ।
क्षालयित्वा परिग्राह्यं तच्छकेण विदारयेत् ॥ ३१ ॥
तद्धारितं निकरं दारु तक्षयेच्चतुरश्रतः ।
एकहस्तसमं दीर्घं तदेकाङ्गुलविस्तृतम् ॥ ३२ ॥
घनमध्या(धो)ङ्गुलं प्रोक्तं हस्त(स्तं) निश्चित्य योजयेत् ।
न वक्रं[च] न भिन्नं च न रन्ध्रं स्निग्धमेव च ॥ ३३ ॥
क्रमुकं वाऽपि वेणुं च (शुश्व) दण्डदारु प्रकीर्तितम् ।
हस्तदण्डोभयोः प्रोक्तं(क्ता) विष्णुमूर्त्य (र्तिर्)धिदेवता ॥ ३४ ॥
नालिकेर (नारिकेल) फलैः शाता (शाङ्गैः) दर्भेर्न्यग्रोधवल्कलैः ।
कार्पासं (स) किंशुकैः (क) सूत्रैस्तालकेतकवल्कलैः ॥ ३५ ॥
यल्लभेद्रुल्कलेमर्ह्यिां रज्जुं संकल्पवित्तमः ।
पार्श्वदिकाङ्गुलं चैव तत्समं रज्जुनाहकम् ॥ ३६ ॥
देवभूसुरभूपानां त्रिवर्ति(र्ती) ग्रन्थिवर्जितम(ता) ।
वणिजां शूद्रजातीनां रज्जुरेकाद्विवर्जिता (र्ती च) ॥ ३७ ॥
वासुकी रज्जुदेवात्मा मानतद्ब्रहैः (तज्ज्ञाः) पितामहाः (हः) ।
तद्धार्य (तद्धृत्वा) हस्तं रज्जुञ्च (श्च) मानदण्डं तथैव च ॥ ३८ ॥
स्मृत्वा मा(म)नसितां (तान्) देवां(वान्) मानयेद्वर्धकी (किस्) तथा ।
एवं मान(ने) कृते वास्तुवस्त्रादि च विवर्धयेत् ॥ ३९ ॥
अनुक्तं कुरुते यस्तु स स्थितो रोशुरं फलम् ।
तस्मात्परिहरेरिच्छल्पी कारयेत्तत्तु विश्वतः ॥ ४० ॥

v3.c24.s2.4

इति मानमारे वास्तुशास्त्रे मानोपरकरणविधानं नाम द्वितीयोऽध्यायः ।

वास्तुप्रकरणम्

v3.c24.s3.1

नैव(ति) लाश्च नराश्चैव यस्मिन्वसन्ति परिष्ठि(ष्टि)ताः ।
तद्वस्तु सु(स्)रिभिः प्रोक्तं (क्तं) तथा वै वक्ष्यतेऽधुना ॥ १ ॥
धरा हर्म्यादि यानं च पर्यङ्कादि चतुर्विधम् ।
धरा प्रधानवस्तु स्यात्तत्तज्जातिषु सर्वशः ॥ २ ॥
विमानादीनि वास्तूनि वस्तुतं(तः) वस्तुसंश्रयात् ।
तान्येव वस्तु (वै) वेति कथितं वस्तुविद्बुधैः ॥ ३ ॥
प्रासादमण्डपं चैव सभाशालाप्रपां (पास्) तथा ।
[अ]रङ्गमिति चैतानि हर्म्यमुक्तं पुरातनैः ॥ ४ ॥
आदिकं स्यन्दनं शिल्पि[न्] शिविका च रथं तथा ।
सर्वैर् (सर्वं) यानमिति ख्यातं शयनं वक्ष्यते तथा ॥ ५ ॥
पञ्च(ञ्ज) रं मञ्चली मञ्चं काकाष्टं फलकासनम् ।
तथैव बालपर्यङ्कं पर्यङ्कमिति कथ्यते ॥ ६ ॥
प्रोक्तं चतुर्विधं चैवमधिकारं धरादिभिः (दि च) ।
आधारमपि भूतानामादित्याश्च (ञ्) जायते मही ॥ ७ ॥
आकारवर्णगन्धैः (न्धान्) च रूपशब्दरसा(स) स्पृशः ।
एतान् परीक्ष्य क्रमशः सा भूमि(र्) माननिश्चया ॥ ८ ॥
यासौ भूमिरसौ(रेभिर्) ग्राह्या द्विजातीनां पृथक् पृथक् ।
तद्वस्तु चतुरश्रं च शुक्लवर्णेन संयुतम् ॥ ६ ॥
उदुम्बरतरोर्यु(रुणा यु) क्तमुत्तरप्रवणं तथा ।
माधुर्यं च कषायं च ब्राह्मणानां शुभप्रदम् ॥ १० ॥
विस्तारो(रा)दसराधिक्यं रक्तवर्णेन संयुतम् ।
पूर्वप्रवणमातिक्तमश्वत्थद्रुमसंयुतम् ॥ ११ ॥
विस्तीर्णं भूभृतां योग्यं महि(ही) सम्पत्प्रदा भवेत् ।
विस्तारे (रस्य) तु षडंशेन मा(ना)धिकायाम(मं) पीतयुन् ॥ १२ ॥

v3.c24.s3.2

प्लक्षद्रुमयुतं पूर्वं(वे)प्रवणम्मधुरसान्वितम् ।
वर्णं(यि)जानां मही प्रोक्ता सर्वसिद्धिकरं शुभम् ॥ १३ ॥
चतुरंश(शे) विशाले तु वांशामाशा(तथांशा)धिकमायतम् ।
वटवृक्षयुतं कृष्णवर्णं च कटुकारसम् ॥ १४ ॥
वस्तु तत्पूर्वके निम्नं शूद्राणां तु शुभप्रदम् ।
तदुक्तं चोभयं मुख्यं मध्यमं चेति कथ्यते ॥ १५ ॥
मुख्यं(ख्या) भूमिरिति ख्यातं वस्त्वादीनि (स्त्वन्तर)चतुःसमम् ।
वस्तुभेदमिति प्रोक्तं द्विजात्यादिषु वर्णयेत् ॥ १६ ॥
सर्वं योग्यं द्विजातीनां सुराणां च विशेषतः ।
भूपानां तद्विशां शूद्रैः(द्राणां) प्रागुक्तक्रमतो भवेत् ॥ १७ ॥

v3.c24.s3.3

इति मानमारे वास्तुशास्त्रे वास्तुप्रकरणं नाम तृतीयोऽध्यायः ।

भूमिसंग्रहविधानम्

v3.c24.s4.1

भूपरीक्षाविधिं (भूमिसंग्रहणं) वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
दक्षिणे पश्चिमे चैव चोन्नतं चतुरश्रकम् ॥ १ ॥
तद्वास्तु जायते वाऽपि देवानां मनुजः (ज) क्रमात् ।
तुरङ्गद्विरदं (द) वेणुं (णु) वीणासाक (ग) रदुन्दुभिः ॥ २ ॥
धेनुभिश्च समायुक्तं (क्ता) किं च पुंनागजातिभिः ।
सरसीरुहधान्यैश्च पाटलीपुष्पगन्धकैः ॥ ३ ॥
संयुक्तं (क्ता) सर्वबीजानां वर्धनं (ना) चैकवर्णयुक् ।
निविडा(डा) स्निग्धसंयुक्ता सुखसंस्पर्शाना भवेत् ॥ ४ ॥
ओवृचनिम्नसे (म्वा) शोकैः संयुक्तं (क्ता) सप्तपर्णकैः ।
सू(चू)तैश्चापि पृ(वि)पत्रैश्चैः संयुक्ता च समस्थले (ला) ॥ ५ ॥
धवलं रक्तवर्णं च स्वर्णा कृष्णां कपोतकम् ।
षडश्रैश्च समायुक्ता सर्वसम्पत्प्रदा धरा ॥ ६ ॥
दक्षिणावर्तसलिला [प्र]दक्षिणाकारा वर्धनैः ।
मानवाञ्जलिमानेन दृष्टिनीला मनोहरा ॥ ७ ॥
कृमिवल्मीकरहिता निर्मूपी निष्कपालिनी ।
निरस्थि(स्थिः) सुक्तिसिकतारन्ध्रवर्ज्या शुभावहा ॥ ८ ॥
पृथग्विधैश्च शूलैश्च स्थाणुभिश्च मही धृता ।
सकर्दभितवाराही विलेकं (का) सरसंयुतम् (युता) ॥ ६ ॥
निस्तुषा निर्विभूतिश्च शर्करारहिता अपि (ताप चम) ।
सा भूमिः ब्राह्मणादीनां वर्णानां संपदावहा ॥ १० ॥
मधु तैलाज्यगन्धाश्च (च) दग्धदुर्गन्धिनी च या ।
अण्डजमीनगन्धैश्च (न्धा च) शवगन्धैश्च (न्धा च) वर्जिता ॥ ११ ॥
नृपप्रासादसंयुक्ता सभाचैत्यसमीपगा ।
सकण्टकतरंवर(तरुणा) युक्ता द्रुमशाल[य] संकुला ॥ १२ ॥

v3.c24.s4.2

कूर्म्मोन्नता वर्तुला च त्रिकोणां(णा) वज्रसन्निभा ।
अञ्जनानां गृहैश्छाया कर्मकारगृहैर्वृता ॥ १३ ॥
चतुष्पथा चैक(च त्रि)पथा द्विपथा पत्तनौ(न)पथा ।
मृदङ्गसदृशं(शा) गर्तखगवन्मुखोपमम्(पमा) ॥ १४ ॥
रूपतो(रूपो)पमं(मा) चतुष्कोणा[सर्वत्र] प्रभावृक्षकम्(का) ।
सालैर्युक्तं(क्ता) चतुष्कोशैः(णेषु) चैत्यपादपसंकुलम(ला) ॥ १५ ॥
महासपाश्रिता वाऽपि शालस्योद्यानमेव च ।
वराहमर्कटप्रायं(या) रुद्रभूक्षा(द्राक्षामा)श्रमं तथा ॥ १६ ॥
उलूखलं(कानां) काननानि पञ्चाकृतिशूर्पक्षम्(सर्पाक्षां च) ।
पाञ्चजन्यं(न्या) खगप्रायविडाला खचरोपमा ॥ १७ ॥
वेश्म गौत्ति(री)निभिः(भा) चापि क्षुद्रजन्तूष(न्तु तूप)रापि ।
वास्तुशास्त्रविदां विधानं तदेवं स्यादू(हू)र्जितम् ॥ १८ ॥
बहुद्वारप्रवेशं(र्शा) च वर्मविद्धं(द्धा) च वर्जयेत् ।
इत्थंभूतेऽपि वास्त्वादौ मोहात्कर्म करोति यः ॥ १९ ॥
तद्दु(स दु)ष्कृतस्य सिन्धुः स्यात्तस्माद्विजा(बीज)धरा वरा ।
स(सा)हि सोदरवस्तु स्याद्गर्भिणी(दूर्था) बहुरसा बहु(दुः) ॥ २० ॥
बीजाभिवर्धिनी मधुव्रतैर्भृंगनाभिसुगन्धिनी ।
सकलशिल्पिवरैरपि संस्कृता [सकललक्षणै] ॥ २१ ॥

v3.c24.s4.3

इति मानमारे वास्तुशास्त्रे भूपरीक्षा(भिसंग्रह)विधानं नाम चतुर्थोऽध्यायः ।

भूपरीक्षाविधानम्

v3.c24.s5.1

भूमिर्संग्रहणं सर्वं(भूपरीक्षाविधानं च) शास्त्रे संक्षिप्यतेऽधुना । तदुक्ताकारनादादिवर्णैर्युक्तं महीतलम् ॥ १ ॥ स्नोक्तुल्य शिल्पिकुशलो बलिं दत्वा यथाविधि । पुण्याहं वाचयेत्पश्चात्तूर्यमङ्गलनिस्वनैः ॥ २ ॥ 4 गच्छन्तु सर्वभूतानि राक्षसा देवता अपि । अस्मात्स्थानान्तरं यावत्कुर्यात्पृथ्वीपरिग्रहम् ॥ ३॥ जप्त्वा म(पेन्म)न्त्रमिमं पश्चाद्विहिते कुम्भपरिमहात् । स्थापयेत्सर्वबीजानि गोमयाक्तानि रूपिते ॥ ४ ॥ 8 प्रेक्ष्य सस्यात्यल्लध्वानि निविडानि निरवग्रहात् । तत्र धेनुवृष[भ]नववत्सांश्चाऽपि निवेशयेत् ॥ ५ ॥ पश्चात्पादक्रमैर्वर्णैर्नासाश्रावैः समन्वितम् । संघृष्ट(ष्टं) वृषभध्वानै[र्] धवले(ली)भूतलूषितम् ॥ ६ ॥ 12 यवप्रस्थसमेतैश्च पततीवत्सक्रमतः । गोमयालेपितं पश्चाद्गोष्टुकैश्च निषेवितम् ॥ ७ ॥ रोमन्थोद्गारपुलकैः शोभितं गोष्पदैरपि । स्वच्छोदकसमाक्रान्त(न्तं) गोगन्धैश्च मनोहरम् ॥ ८ ॥ 16 एवं शुभदिनोपेतं वारकाविषयैरपि । सुमुहूर्त्ते सुकरणे सुलग्ने सुषिद्धितिखितैः (सुनिपञ्चिद्भिः) ॥ ९ ॥ विप्रैश्च पश्चात्पुण्याहं कारयेत्सर्वमङ्गलम् । भूतलं (ल) खननं कुर्याद्व्र(द्वा) स्तुमध्ये लयावधि ॥ १० ॥ 20 चतुरश्रं नृपहितो (तं) हस्तमात्रं तु निम्नकम् । ह(वा)रित्वारि परितः समं संक्षिप्य चोच्छ्रयम् (च्छ्रितम्) ॥ ११ ॥ पूजयित्वा (येत्तु) यथाशास्त्रं प्रणम्य रू[प]पाम्विकाम् । सर्वरत्नजलैश्चैव गन्धपुष्पाक्षतैरपि ॥ १२ ॥ 24

v3.c24.s5.2

पूजयेत्पायसान्नेन प्रभाते तु सतः सुधीः ।
वापीसमीपे नियतं(तः) समाहितमनाः शुचिः ॥ १३ ॥
प्राचीत्वरिक्(चदिक्) शिरस्ये (ए)तद्बर्भास्तरखभूतले ।
महाचोगि विवर्धस्व धान्यैश्च साधनैरपि ॥ १४ ॥
उत्तमं शुष्कमाह्राय मङ्गलं(ल)भवते(त्वै) नमः ।
मन्त्रमेतज्ज(तं) जपन्पश्चादुपवासमुपक्रमेत् ॥ १५ ॥
प्रभाते तु परीक्ष्येतं(चेत) रूपं स्थपतिभिः सुधीः ।
किंचिच्छ्लेषं जलं प्रेक्ष्य गृह्णीतं (ह्यवां) मङ्गलाय वै ॥ १६ ॥
शोषितं धनधान्यानां क्षयं छिन्ने विनाशनम् ।
परितस्तु मृदा गर्ते पूरिते मध्यमा मही ॥ १७ ॥
मही हीनं(ना) सृदा हीना चोत्तमा च(चापि) चाधिका ।
प्रेक्ष्य कर्तु(कर्ता तु) तन्मध्ये प्रदक्षिणावरोत्तरम् ( उत्तमम्) ॥ १८ ॥
कामधेनुसमां चोर्वी स्वीकुर्यात्तु विभूतये ।
कर्ष्यार्थ बलीवर्दलक्षणं वक्ष्यतेऽधुना ॥ १६ ॥
श्वेतकं कपिलं चैव रक्तपीतं तथैव च ।
बलीवर्दस्य चै(र्दानामे)तेषामेकैकं तु शुभावहम् ॥ २० ॥
एकस्य(कं च) वर्णसांकर्यं वर्जयेद्दण्डलाञ्छनम् ।
अधो(धः)शृङ्गमलिशृङ्ग(ङ्गे) विपरीतं तु [वि]वर्जयेत् ॥ २१ ॥
अतिबालं च वृद्धं तु वर्जयेगोननं(योजनेऽ) मतम् ।
बलि(ली)वर्दं दृष्टविन्दुं दुष्टदृष्टिं च वर्जयेत् ॥ २२ ॥
ह्रस्वपुच्छं चक्रखुरं बलहीनं च वर्जयेत् ।
छिन्नश्रोत्रं भग्नदन्तं पङ्गुपादं च वर्जयेत् ॥ २३ ॥
चतुष्पादामयोः(ग्रे च) शृङ्गं मूल(शृङ्गमूले) मध्यललाटके ।
स्वभावेन श्वेतवर्णामार्बद्वतिलकं तथा ॥ २४ ॥
पुष्यनेत्रं च रक्तं च बन्ध्यं चायतेक्षणम् ।
अनस्नान(नङ्गाहं न) त्यजेद्विद्वान्सूत्रं कुर्याद्विलक्षणम् ॥ २५ ॥
शृङ्गाग्रे खुराग्रे च कुर्यात्स्वर्णेन गोलकम् ।
फा(भा)लपट्टं तथा कर्णे कनकंश्चाप्यलङ्कृतम् ॥ २६ ॥

v3.c24.s5.3

कर्षणात्पूर्वदिवसे अनत्वाहचैव(नड्वाहश्च) लाङ्गलम्।
कौतुकं बन्धनं चादौ कर्षणाथेम(णाया)धिवासितम्॥ २७॥
कुर्यात्तदुक्तवद्विद्वान्वक्ष्यं लाङ्गललक्षणम् ।
बन्धुरं खादिरं चैव निम्बं च सरलं तथा ॥ २८॥
सरक्तचीरिखी चैव लाङ्गलं (ल)वृचमि (च इ) ष्यते ।
एकहस्तं तु दीर्घं स्यात्सपादायधमेव च ॥ २६॥
त्रिचतुष्पञ्चमात्रं वा लाङ्गलं (ल) मूलविस्तृतम् ।
तस्यायामार्थ तन्मध्ये (धर्मध्ये च) किंचिद्रूक्रं सकर्षकम् ॥ ३०॥
मूलमष्टाश्रकं चार्धत्रिपट्टं वेणुपत्रवत् ।
तस्य मूले तदुपरि वेणुश्टङ्गं प्रवेशयेत् ॥ ३१ ॥
वेणुदण्डं त्रिहस्तं स्यादोध्र्तारां (रं) यथाबलम् ।
पुरुच्छायाम[म] व्यर्धकरं मूलतारं शराङ्गुलम् ॥ ३२ ॥
अथवा सपादहस्तं च हस्तं वा पुरुछदीर्घकम् ।
पुच्छामं तु द्विमात्रं तु हलमूलाकसानकम् ॥ ३३॥
एकाद्यर्धाङ्गुलं वाऽपि युक्त्या पुच्छं घने भवेत् ।
पुच्छमूलं (लं) विशेषेण पद्मपत्रेण भूषितम् ॥ ३४॥
त्रिचतुष्पञ्चषण्मात्रं पुच्छामे पट्टदीर्घकम् ।
उत्सेधं द्वित्रिमात्रं वा सर्वालङ्कारसंयुतम् ॥ ३५॥
अयःकीलं तत्र कुर्चा योजयेत्तच्चकेन तु ।
सार्धद्विहस्तमानेन युगायामं प्रकल्पयेत् ॥ ३६ ॥
त्रिचतुष्पञ्चमात्रं वा मध्यपट्टविशालकम् ।
तद्ब्योरमविस्तारं द्वित्रिय (य्य) ङ्गुल[क] मेव च ॥ ३७॥
एतद्यु (वद्धि यु) गमानं स्यान्मध्याप्रान्तचय(य)क्रमात् ।
तस्यार्धं च द्वयोरिश्छिद्रैरनडुन्(द्विच्छिद्रान्तेऽनडुद्) बन्धार्थकं भवेत् ॥ ३८ ॥
युगमध्ये द्वयोर्वाऽपि लाङ्गलं चापि बन्धयेत् ।
सुमुहूर्ते सुलग्ने च कर्षएं तु समारभेत् ॥ ३६॥
अनड्वाही स्वपतिश्चोभौ (तिश्च) गन्धपुष्पैः स्वलङ्कृतौ(ताः) ।
पञ्चाङ्गभूषण (णः) शिल्पी श्वेतवस्त्रोत्तरीयवान् ॥ ४० ॥

v3.c24.s5.4

आदित्यचन्द्रौ ध्यायेत्तद्बळीवर्दद्वयं बुधः ।
वाराहं लाङ्गलं ध्यायेच्छिल्पिनं तु पितामहम् ॥ ४१ ॥
ब्राह्मणांश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम् ।
सर्वमङ्गलघोषैश्च स्थपतिः कर्षयेत्तदा ॥ ४२ ॥
त्रिधा प्रदक्षिणं कुर्यात्सर्वं शूद्रैश्च कर्षयेत् ।
शूद्रोऽपि कृषिकाले तु शुद्धो भूत्वा समाहितः ॥ ४३ ॥
अधिकर्षणाशेषान्तात्स्थपतिभ्यां(भ्यो) निवेदयेत् ।
सर्वेषामपि वस्तूनामाधारं(रा) भूतलं स्मृतम् ॥ ४४ ॥
तस्मात्प्रागुक्तवत्कुर्याद्मूमिसंग्रहणं बुधः ।
अज्ञानान्तादि संप्राप्त(प्तं) सर्वसम्पद्विनाशनम् ॥ ४५ ॥
तस्मात्कुर्याच्चया वास्तुंरं(रं)वं लक्षणपूर्वकम् ॥ ४६ ॥

v3.c24.s5.5

इति मानमारे वास्तुशास्त्रे भूमिसंग्रहो (भूपरीक्षाविधानं) नाम पञ्चमोऽध्यायः ।

शङ्कुस्थापनलक्षणम्

v3.c24.s6.1

अथातः संप्रवक्ष्यामि शङ्कुस्थापनलक्षणम् ।
आदित्योदयकाले तु शङ्कुस्थापनमारभेत् ॥
उत्तरायणमासे तु दक्षिणायनमे(न ए)व वा ।
शुक्लपक्षे यथा(ऽथवा) कृष्णपक्षे शुभतमे दिने ॥ २ ॥
पौर्णमीं(पूर्णिमा) चाप्यमावास्यां वर्जयेत्सुमुहूर्तके ।
प्रभाते स्थापयेच्छङ्कुमपराह्नात्(ह्ने) ततः स्थितम् ॥ ३ ॥
स्थापनात्पूर्वदिवसे स्थलशुद्धिं प्रकारयेत् ।
प्राप्तभूमध्यदेशे तु चतुरश्रं समन्ततः ॥ ४ ॥
चतुर्हस्तप्रमाणेन विश्वतः सलिलस्थलम् ।
कृतमाल(लं) शमीशाखा चन्दनं रक्तचन्दनम् ॥ ५ ॥
खदिरं तिन्तु(न्दु)कं चैव शङ्कुदारु प्रकीर्तिता(तम्) ।
श्वेतक्षीरिरिणि(णी)वृक्षं(चो) वा शुभदन्तमथापि[वा] ॥ ६ ॥
शङ्क्वायामं तु हस्तं स्यान्मूलतारं रसाङ्गुलम् ।
अग्रतारं द्विमात्रं स्यान्मूलाप्रान्तं चयं क्रमात् ॥ ७ ॥
सुवृत्तं निर्त्र्यं चैव छत्राकारं तदप्रकम् ।
एवं तु चोत्तमं शङ्कु मध्यसं तत्प्रवक्ष्यते ॥ ८ ॥
अष्टादशाङ्गुलायामं मूलतारं शराङ्गुलम् ।
अग्रमेकाङ्गुलं तारं शेषं प्रागुक्तवन्नयेत् ॥ ६ ॥
कन्यसं द्वादशाङ्गुल्यं शङ्खायामं विशेषतः ।
चतुरङ्गुलविस्तारं मूलमग्रं त्र्याङ्गुलम् ॥ १० ॥
अथवायामसंमूले नाहमग्रे नवाङ्गुलम् ।
शेषं पूर्ववदुद्दिष्टं स्वीकृरीकृतभूतले ॥ ११ ॥
तन्मध्ये बिन्दुस्तत्त्वज्ञो शङ्क्वायामद्वयेन च ।
भ्रामयेन्मण्डलं कुर्यात्तन्मध्ये शङ्कुमर्पयेत् ॥ १२ ॥

v3.c24.s6.2

पूर्वाह्ने शङ्कुतरच्छायां पश्चिमे मण्डलान्तकम् ।
तत्रैव विन्दुसंज्ञाञ्च कुर्यात्तु शिल्पिप(ल्प)वित्तमः ॥ १३ ॥
[अप]राह्ने शङ्कुतरच्छायां पूर्वदिङ्मण्डलान्तके ।
पूर्ववद्विन्दु(न्दुं) संस्थाप्य पश्चाच्छङ्कं त्यजेत्ततः ॥ १४ ॥
शङ्कुयामषडाधिक्यनवत्यंशविभाजिते ।
तस्यांशेन अपच्छायां त्यक्त्वा प्राचीं नयेत्ततः ॥ १५ ॥
कन्यावृषभमासौ च अप्र(सव्योर)पच्छाया न विद्यते ।
मेषे च मिथुने चैव तुलासिंहचतुष्टये ॥ १६ ॥
एवं हि द्वयङ्गुलं न्यस्तं वृश्चिकाषाढमीनयोः(नेषु) ।
चतुरङ्गुलं प्रकर्तव्यं धनुःकुम्भी(म्भयोः) षडङ्गुलम् ॥ १७ ॥
मकरेऽष्टाङ्गुलं प्रोक्त(क्ता)मव(ह्यप)च्छायां(या) विशेषतः ।
छायायां बिन्दुवामे [तु] दक्षिणे चोक्ताङ्गुलं न्यसेत् ॥ १८ ॥
अङ्गुलान्ते तु यच्छिद्रं प्राचीसूत्रं प्रयोजयेत् ।
मकरादि(दै) च षण्मासे छाया दक्षिणतो भवेत् ॥ १९ ॥
कुलीरादि(दै) च षण्मासे छाया चोत्तरतो दिशि ।
छायाया अभिमुखे प्रत्यग्वामे वामं न्यसेत्तते(न्यसेदतः) ॥ २० ॥
पूर्वे च दक्षिणे नीत्वा प्रत्यग्वामाङ्गुलान्न्यसेत् ।
अपच्छायां त्यजेच्छिल्पी प्राक् प्रत्यक् सूत्र(अं) विन्यसेत् ॥ २१ ॥
तत्सूत्रात्पूर्वदिग्देशे नीत्वा चोत्तरतो दिशि ।
एवं मीनविवृद्धिः स्यात्पुरतोऽङ्गुलमेव च ॥ २२ ॥
तत्सूत्राद्दक्षिणे सौम्यं(म्ये) तस्य द्वारं प्रकल्पयेत् ।
मत्स्यपुच्छानने न्यस्तं सूत्रं स्याद्दक्षिणोत्तरम् ॥ २३ ॥
मण्डलावधिदेशे तु नीत्वा सूत्रा(त्रम)ङ्गुलं न्यसेत् ।
मासानां पङ्किपङ्क्तैश्च दिवसानां त्रिधा त्रिधा ॥ २४ ॥
विद्यमानाव[प]च्छाया[य]पच्छायां(या) चोच्यते ।
मेषे च प्रथमे पङ्के(ङ्कौ) द्वयङ्गुलं च विसर्जयेत् ॥ २५ ॥

v3.c24.s6.3

मध्ये दशदिने चैकं चान्त्यं पङ्क्त्या[म]ङ्गुलं विना ।
वृषभे प्रथमदशके दिवसे त्वङ्गुलं नहि ॥ २६ ॥
मध्ये चैकाङ्गुलं प्रोक्तं पङ्क्त्यन्ते द्व्यङ्गुलं त्यजेत् ।
मिथुने प्रथमदशके दिवसे त्व(द्वय)ङ्गुलं त्यजेत् ॥ २७ ॥
मध्ये दशदिने वह्नि(द्वि) चान्त्यपङ्क्ति(क्तौ) चतुस्त्यजेत् ।

v3.c24.s6.4

कुलीरे प्रथमदशके वेदमात्रं विसर्जयेत् ॥ २८ ॥
मध्ये दशदिने चापि त्र्यङ्गुलं तत्परित्यजेत् ।
द्व्यङ्गुलं चान्त्यदिवसे दशके समुदाहृतम् ॥ २९ ॥
सिंहस्य चादिदशके द्व्यङ्गुलं च परित्यजेत् ।

v3.c24.s6.5

मध्ये दशदिने चैकवा(म)न्त्यापङ्क्तौ विनाङ्गुलम् ॥ ३० ॥
युवत्यामादिदशके दिवसे नाङ्गुलं भवेत् ।
मध्ये चैकाङ्गुलं त्यक्त्वा(क्तं) चान्त्यपङ्क्तौ द्वया(द्वय)ङ्गुलम् ॥ ३१ ॥
तुलारम्भे दशदिने द्व्यङ्गुलं च निषेधयेत् ।

v3.c24.s6.6

विसृज्य(ज्यं) द्वय(त्र्य)ङ्गुलं मध्ये चान्त्ये वेदमिति स्मृतम् ॥ ३२ ॥
वृश्चिके प्रथमे पङ्क्तिर(क्तौ) दिवसे चतुरङ्गुलम् ।
मध्ये दशदिने बाणं चान्त्यपङ्क्तौ षडङ्गुलम् ॥ ३३ ॥
धनूराशौ दशदिने प्रथमे तु षडङ्गुलम् ।

v3.c24.s6.7

मध्ये दशदिने सप्तद्वय(समा)ङ्गुलं च विवर्जयेत् ॥ ३४ ॥
अन्त्यपङ्क्तिदिने त्याज्यं वसुमात्रमिति स्मृतम् ।
मकरादौ दशदिने त्यजेदष्टाङ्गुलं बुधः ॥ ३५ ॥
मध्ये सप्ताङ्गुलं त्यक्त्वा (त्यक्तं) चान्त्ये त्यक्त्वा(क्तं) षडङ्गुलम् ।

v3.c24.s6.8

कुम्भे चादौ दशदिने विसृजेत्तु षडङ्गुलम् ॥ ३६ ॥
मध्ये पञ्चाङ्गुलं त्यक्त्वा (क्तं) चान्त्ये च चतुरङ्गुलम् ।
मीनराशौ च दशके दिवसे चतुरङ्गुलम् ॥ ३७ ॥

v3.c24.s6.9

मध्ये च पङ्क्तिदिवसे द्वय(त्र्य)ङ्गुलं च विसर्जयेत् ।
अन्ते दशदिने चापि वर्जयेन्महकाङ्गुलम् ॥ ३८ ॥ 76
अपच्छायां(या) तत्र नास्ति यदुक्तं तदिहोच्यते ।
प्रागुत्तरविराश्यां तु कन्यायां वृषभस्थितम् ॥ ३६ ॥
अपरे विंशतिदिने तत्तदृक्षं भवेद्यदि ।
उक्ताङ्गुलं तत्र नास्ति सूत्रं ज्ञात्वा प्रसारयेत् ॥ ४० ॥ 80
[राश्यां(ऋक्ष)युतं रवेर्मासं प्रो(प्रे)क्ष्यापि च परित्यजेत् ।
ऊहापोहान्परक्तादि दशा(द्वया)ङ्गुलं न्यत्र(स्तं) सूरिभिः ॥ ४१ ॥
तद्दशात्ककुभं ग्राह्य(ह्यं) तत्र सूत्रं प्रकारयेत्] ।
शुद्धप्राची भवेत्सम्यगैशान्या प्राच्यथोच्यते ॥ ४२ ॥ 84
प्राच्याङ्गुलकृताद्विन्दोरुत्तरे चाङ्गुलं न्यसेत् ।
प्रतीचीमात्रतद्विन्दोरीशप्राची(र्ची) प्रसूत्रयेत् ॥ ४३ ॥
मुक्तिकामस्य करण्ये शुद्धप्राचीं प्रयोजयेत् ।
ऐशान्यप्राचीं सर्वस्य भोगकामस्य संमताम्(ता) ॥ ४४ ॥ 88
आग्नेये प्राचीसंयुक्तं सर्वदोषकरं भवेत् ।
आग्नेयप्राचिकं वास्तु तस्मात्सर्वं विसर्जयेत् ॥ ४५ ॥
एवं कृते त्वलं वास्तौ(स्तु) सुगाढं सुसमृद्धये ।
दण्डमानसमं सूत्रदीर्घमानं प्रकल्पयेत् ॥ ४६ ॥ 92
आदौ तन्तुं त्रिधा कृत्वा सूत्रग्राहीति योजयेत् ।
वा(द्वि)तावतं तु सूत्रं स्यात्तृतीयावर्तदक्षिणम् ॥ ४७ ॥
कार्पासं(स)सूत्रसंयुक्तं [वा] पट्टसूत्रमथापि वा ।
सूत्राल्ल(क्ष ल)भ्यते वास्तौ प्रमाणं हीति निश्चितम् ॥ ४८ ॥ 96
मध्यादिन्द्राश्च त(न्नैर्ऋतात्त)दिक्षु न्यसेन्द्रादि(सेदिन्द्र)शिखान्तकम् ।
इन्द्रादीशामपर्यन्तं चान्तकात्पावकान्तम् ॥ ४६ ॥
वरुणाद्वायव्यपर्यन्तं सौम्याद्देर्वायु(यो)र्वान्तकम् ।
सौम्यादीशानपर्यन्तं सूत्रमेवं परित्रजे(व्राजये)त् ॥ ५० ॥ 100

v3.c24.s6.10

विमाने त्रिगृहे वाऽपि मण्डपादीनि(दौच) वास्तुके ।
ग्रामादीनां च सर्वेषां मानयेन्मानसूत्रकम् ॥ ५१ ॥
तत्प्रमाणस्य परितो हस्तद्विहस्तमा(म)धिकम् ।
त[त्त]सूत्रावसाने च शङ्कुमेवं प्रतिष्ठितम् ॥ ५२ ॥
गर्भसूत्रस्य कर्णेांश्च द्विदिशङ्कु निखानयेत् ।
चतुर्दिक्षु चतुःशङ्कु जन्मनिष्कमणार्थकम् ॥ ५३ ॥
चतुष्कणैंश्च कर्णैंश्च चतुःशङ्क(ङ्कु) समायुतम् ।
एवं महार्थंकं कुर्याल्लङ्कुदारु प्रवक्ष्यते ॥ ५४ ॥
खादिरं चादिमेदं च मधूकं चारिणी तथा ।
अन्यैश्च सारवृक्षैर्वा खातं( त )शङ्कुरिति स्मृतम् ॥ ५५ ॥
एकविंशाङ्गुलं वाऽपि चैकपश्च(पञ्चविंश)त्यङ्गलायतम् ।
खातं शङ्कुमिदं मुष्टिमानं तत्परिव्राहकम् ॥ ५६ ॥
मूलं तु सूचिवत्कुर्यान्मूला[द्व]ग्रश्चयक्रमात् ।
गृहीत्वा वामहस्तेन स्थपतिस्थापकावुभौ ॥ ५७ ॥
शङ्कुं दक्षिणहस्तेन लोष्ट(ष्टं) संगृह्य ताडयेत् ।
प्रत्येकमष्टसंख्या च प्राङ्मुखो वाप्युदङ्मुखः ॥ ५८ ॥
शङ्कुस्थापनकाले तु ब्राह्मणेः(णैः) स्वस्तिवाचक(न)म् ।
कुर्यान्मङ्गलघोषैश्च समभ्यां(माभ्यः) पूजयेत्ततः ॥ ५९ ॥
एवं नैऋतिकोणे तु(यादौ) स्थपत्याज्ञश्च तक्षकम्( कः ) ।
पश्चान्मङ्गलघोषैश्च सर्वशङ्कः(ङ्कन्) प्रहारयेत् ॥ ६० ॥

v3.c24.s6.11

इति मानमारे वास्तुशास्त्रे शङ्कुस्थापनविधानं नाम षष्ठोऽध्यायः ।

पदविन्यास लक्षणम्

v3.c24.s7.1

अधुना पदविन्यास लक्षणं वक्ष्यते क्रमात् ।
प्रथमं चैकपदं स्यात्सकलं नाममेव (एव) च ॥ १ ॥
द्वितीयं चतुष्पदं चैव नाम पैशाच(पेचक) मेव च ।
तृतीयं नवपदं चैव नाम पीठमिति स्मृतम् ॥ २ ॥
चतुर्थं षोडशपदं महापीठमिति स्मृतम् ।
पञ्चमं पञ्चपञ्चाशमुपपीठमिति स्मृतम् ॥ ३ ॥
षष्ठमं (ष्ठं च) षष्ठषष्ठांशं चोभ्रपीठं च कथ्यते ।
सप्तमं सप्तसप्तांशं स्थण्डिलं परिकीर्तितम् ॥ ४ ॥
अष्टमं तु चतुःषष्टिपदं चण्डितमीरितम् ।
कथित (उक्त) मेकाशीतिपदं नवमं परमशायि (यि) कम् ॥ ५ ॥
दशमं शतपदं स्यान्नाममा (म चा) सनमीरितम् ।
एकादशं तथा प्रोक्तं चैकविंशच्छतं पदम् ॥ ६ ॥
स्थानीय नाममे (म चै) व तु चाथ द्वादशकं तथा ।
वेदाधिकयं [स] चत्वारिंशदेव (देश्यं) शताधिकं पदम् ॥ ७ ॥
त्रयोदशं तथा प्रोक्तं नवषष्ट्यधिकं शतम् ।
पदमेवं विधिं ज्ञात्वा नाम चोभयचण्डितम् ॥ ८ ॥
चतुर्दशं तथा प्रोक्तं षण्णवत्यधिकं शतम् ।
नाम तद्भवमेवं तु अ (चा) थ पञ्चदशं तथा ॥ ६ ॥
पञ्चविंशपदाधिकयं शतद्वयपदान्वितम् ।
नामं (म) महासनं प्रोक्तमथ षोडशकं तथा ॥ १० ॥
सप्ताष्टाधिकं द्विशतं पद्माग्र्सं पदं भवेत् ।
तथा वै सप्तदशकं नवाशीतिशतद्वयम् ॥ ११ ॥
त्रियुतं पदमेवोक्तं तथाष्टादशमं (कं-) तथा ।
चतुर्विंशत्सत्रिशतं चैव कयाष्टिकं भवेत् ॥ १२ ॥

v3.c24.s7.2

एकोनविंशति तथा चैव(सैकं)षष्टिशतत्रयम् ।
गणितं पदमित्येवं तथा विंशतिकं ततः ॥ १३ ॥
चतुःशतपदं चैव प्रोक्तं कुर्याद्वि(सूर्यवि)शालकम् ।
तथा चैकविंशतिकं नैकपञ्चाष्टमाधिकम् ॥ १४ ॥
चतुःशतपदं युक्तं सुसंहितमितीरितम् ।
तथाऽपि द्वाविंशतिकं वेदाशीतिचतुःशतम् ॥ १५ ॥
पदं सुप्रतिकान्तं स्यात्त्रयोविंशद्विधानके ।
नवविंशत्पञ्चशतं पदमेतद्विशालकम् ॥ १६ ॥
चतुर्विंशद्विधाने तु पदाधिक्यं(क्य)ससप्तति ।
पञ्चशतपदयुतं विप्रगर्भमिति स्मृतम् ॥ १७ ॥
पञ्चविंशद्विधाने तु पञ्चविंशत्सट्शतम् ।
पदं विवेश(विश्वेशं) संज्ञत्वा(य) नाममे(त्वे)वं प्रकीर्तितम् ॥ १८ ॥
षड्विंशतिविधाने तु षट्सप्ततिकसंयुक्तम् ।
षट्शतं पद(दं) संज्ञात्वा(य) विपुलं(लं) भोगमिति (गं तु) स्मृतम् ॥ १६ ॥
सप्तविंशद्विधाने तु नवविंशतिसप्तशः ।
शतयुतं पदं चैव विप्रकान्तमिति स्मृतम् ॥ २० ॥
तथाऽपि चाष्टाविंशत्ये वेदाशीतिं च मा(शीत्या तथा)धिकम् ।
सप्तसंख्याशतयुतं विशालाक्षमिति स्मृतम् ॥ २१ ॥
नवविंशद्विधाने तु चत्वारिंशैकमा(कं चा)धिकम् ।
अष्टशतपदं(दं) युक्तं विप्रभक्तीति(क्तिस्तु) कीर्तितम् ॥ २२ ॥
तत्र त्रिंशद्विधाने तु पदं नवशतं तथा ।
एवं विश्वेशसारं च चैकत्रिंशद्विधानतः ॥ २३ ॥
एकषष्टिसमाधिक्यं पदं नवशतयुतम् ।
एवमीश्वरकान्तं स्याद्वात्रिंशद्विधानके ॥ २४ ॥
चतुर्विंशतिसंयुक्तं सहस्रपदसम्मितम् ।
एवं तु चन्द्रकान्तं स्यादेवमुक्तं पुरातनैः ॥ २५ ॥
चतुःसूत्रंतु (त्रेण) संयुक्तं सकलमेकपदं भवेत्(स्यात्) ।
तत्पूर्वसूत्रमादित्यं दक्षसूत्रं यमाख्यकम् ॥ २६ ॥

v3.c24.s7.3

प्रत्यक्सूत्रं जलेशे स्यात्सौम्यसूत्रं नृपाहरम् ।
देवतागुरुपूजार्थं चान्निकायार्थमेव वा ॥ २७ ॥
यतीनामासना[श्रौ]यापि भोजनार्थं सनातनम् ।
पैतृकार्थं तु संख्य(न्यं) एवं तु सकलं स्मृतम् ॥ २८ ॥
पैशाचा(पेचकम)एसुत्रेण संयुक्तं तु चतुष्पदम् ।
पैशाचेश(पेचके ईश)पदे स्थाप्य(व्यं) वह्नेश वा (ह्वेशा)ऽभिदे(दै)वतम् ॥ २९ ॥
पवने वायुकोष्ठे तु गगनं चैव नैऋते ।
एवं तद्व(ट्रू)ष्टपूजार्थं स्नपने स्नाजनार्थंकम् ॥ ३० ॥
महापीठपदे मध्ये ब्राह्मणास्य (ब्रह्माणञ्च ) चतुष्पदम् ।
तद्बहिः सूत्रदेशेशादापवक्षा(त्सा)र्यकं (कौ) तथा ॥ ३१ ॥
सावित्रं च विवस्वां (स्वन्तं ) च इ(चे)न्द्रं चैव तु मित्रकम् ।
रुद्रं चैव(च) भूधरं चैव ए(त्वे)वं प्रदक्षिणं क्रमात् ॥ ३२ ॥
तद्बहिः परितः सूत्रे चैशं चैव जला[य]न्तकम् ।
आदित्यं विमृशं चैव कृशानुं विततं(थं) तथा ॥ ३३ ॥
यमं च भृङ्गराजं च पितृसुग्रीवकौ तथा ।
[वरुणं] शोषं मारुतं [चैव] मुख्यसोमादित(तीं)स्तथा ॥ ३४ ॥
पञ्चपञ्चामरान् प्रोक्तं(क्तान) पैशात्तु पूर्ववत्क्रमात् ।
एवं सूत्रस्थितान्देवान्पदस्थांश्चोपपीठके ॥ ३५ ॥
एतेषामु(पुत्र)क्तसर्वेषु पदेषु द्वयमुच्यते ।
तन्मण्डूकं पदं चैव यं(यत्) तत्परमशायिकम् ॥ ३६ ॥
युग्मं हि निष्कलं प्रोक्तमयुग्मं सकलं तथा ।
एतत्पदद्वयं सर्वं(र्वे)वास्तूनां हि सनातनम् ॥ ३७ ॥
एतत्पदस्थितं( स्थानां) सर्वदेवानां रूपमुच्यते ।
त्रिंशत् [तु] सूत्रसंयुक्तं चाष्टाविंशत्तु सन्धिभिः ॥ ३८ ॥
चतुष्कैश्च पदाधिक्यं त्रिंशत्संयुक्तमेव च ।
षट्कद्वादशसंयुक्तं कर्णे शूलं चतुष्टयम् ॥ ३९ ॥
मध्ये चाष्टकसंयुक्तं सूत्र (त्रं) मण्डूकनामकम् ।
चतुर्दिक्षु चतुःसूत्रं षोडशान्य (शम)त्र सूत्रकम् ॥ ४० ॥

v3.c24.s7.4

दक्षिणाद्युत्तरान्तं स्यात्पूर्वादिपश्चिमान्तकम् ।
एते ( एतत् ) विंशतिसूत्रं स्यात्कर्णासूत्रं चतुष्टयम् ॥ ४१ ॥
एतद्बहिस्तथैशाश्चतुष्कर्णे प्रदिक्षिणे ।
अपवत्सापवत्स्यश्च (योः) प्रत्यग(त्येका)र्धार्धभोग्यकः ॥ ४२ ॥
सवित्रं चैवं सावित्रं देवार्धार्धपदे स्थितम् ।
इन्द्रं चैवेन्द्रराजं च प्रत्येकार्धपदे पराः (रे) ॥ ४३ ॥
रुद्रो रुद्रजयं चै (यश्चै) व चार्थार्धपदभोगिनः(नौ) ।
एवं चाष्टामराः प्रोक्तास्तद्बहिश्‍च समारभेत् ॥ ४४ ॥
ईशानश्‍चैव पर्जन्यः अ(न्यश्चा)ग्निः पूषाग्निकोष्ठके ।
मृगश्च (पिता) दौवारिकश्‍चैव कोणे नैर्ऋत्यदेशके ॥ ४५ ॥
रोगं (वायु) नाश( नागो ) द्वयो वायुकोणे चार्धार्धपदेश्वरे(रः) ।
बहिश्चतुष्पटक( ष्कस )तत्पार्श्वे चतुष्कोणे समारभेत् ॥ ४६ ॥
जयन्तस्तत्परे सौम्ये [व्य]न्तरिक्षे( क्ष ए )कपूर्वकं ।
वितथश्चैकपदे पूर्वं दक्षिणे [ए]कपदे मृगः ॥ ४७ ॥
सुग्रीवो दक्षिणे चैव गोधै( धै )कपदे ( दे ) पश्चिमे ।
प्रत्यक् चैव पदं मुख्यम्(ख्य उ )दितश्चोत्तरेऽपि च ॥ ४८ ॥
पूर्वाह्निकं मध्यस्थसूत्रस्य सौम्यदिक्द्विपदे ।
तच्चोत्सरे महेन्द्रस्य द्विपदं दक्षिणे तथा ॥ ४६ ॥
सत्यस्य द्विपदं तस्य दक्षिणे द्वयं भृशम्( स्य ) ।
दक्षिणे मध्यसूत्रस्य पूर्वं च द्विपदं यमः ॥ ५० ॥
तत्पूर्वे द्विपदे स्थित्वा (स्थाप्यं) राक्षसं चैव पश्चिमे ।
गन्धर्वे (र्व) द्विपदे स्थाप्यं भृश( पस्य ) [तद्] द्विपदं भवेत् ॥ ५१ ॥
पश्चिमे मध्यसूत्रस्य दक्षिणे वरुणं( णः ) स्थितः ।
द्विपदं (दे) पुष्पदन्तस्य द्विपदं चोत्तरे तथा ॥ ५२ ॥
द्विपदे द्विपदे चैव चेश्वरः शोषरोगयोः ।
तत्तत्पदं ज्ञात्वा चतुर्दिक्षु क्रमाद्बुधः ॥ ५३ ॥
चरकीशानबहिः स्थाप्या विदारी पावके विधिः ।
बहिर्नैर्ऋत्यस्यै( स्य ) बाह्ये पूतना च बहिस्तथा ॥ ५४ ॥

v3.c24.s7.5

वायुकोणाग्रप्रदेशे तु वाह्ये वा (त्त) पापराक्षसी ।
एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ॥ ५५ ॥
एकाशीतिपदं कृत्वा मध्ये नवपदं विधिम् ।
पूर्वं रसपदं चैव तदेवार्यमनः (मर्यम्णः) स्मृतम् ॥ ५६ ॥
दक्षिणे रसपदं चैव विवस्वान् (स्वतः) एव कथ्यते ।
पश्चिमे षट्पदं चैव मित्रस्य मि(त्ये)ति [द्धि] संस्मृतम् ॥ ५७॥
सौम्ये रसपदं चैव भूधरस्य चतुष्टयम् ।
चतुर्दिक्ष्वन्तराले च ई (ली) विशादीनि (दि च) चतुष्टयम् ॥ ५८ ॥
तत्तच्चतुष्पदे सर्वे कर्णो चाश्रयमीरितम् ।
भूधरस्य ततः पूर्वे द्विपदा(दे) चापवत्सथा ॥ ५९॥
भार्य[क]स्य पदे सौम्ये भ(म्येऽ)पवत्स्या(त्स्यस्य) द्वयोस्तथा ।
पूर्वे रसपदाद्वाह्ये द्विपदे च सवित्रकः ॥ ६० ॥
विवस्वती (तो) द्विपूर्वादिद्व्यंशं (द्वयंशं) साविन्द्र(त्र)मेव च ।
दक्षे रसपदात्प्रत्यक् द्विपदे च तथै(चे)न्द्रकः ॥ ६१ ॥
मित्रकस्य पदे याम्ये द्विपदे इन्द्रजयस्तथा ।
पश्चिमे रसपदात्सौम्ये द्विपदे रुद्रदेवता ॥ ६२ ॥
सौम्ये रसपदात्प्रत्यक् द्वयंशे रुद्रजयस्तथा ।
एवमन्तर्गते देवांस्तद्वाह्ये देशे राक्षसान् ॥ ६३ ॥
इन्द्रे चैव पदे भानुश्चाग्निश्चैव पदा(देऽ)धिके ।
यमे चैव पदे चक्रि(क्री) नैर्ऋत्ये [ए] कपदेपितत् (ता) ॥ ६४॥
जलेशै(श ए)कपदे प्रत्यक् पवनेकपदे मरुत् ।
सौम्ये चैकपदे चै(च) न्द्रश्चेशस्यैकप [दं] दै (दे) शके ॥ ६५॥
पर्जन्ये(न्यस्यै) कपदं चैव चेशकस्य तु दक्षिणे ।
जयन्तस्य पदं चैकं पर्जन्यस्य तु दक्षिणे ॥ ६६ ॥
महेन्द्रस्य पदं चैकं जयन्तस्य तु दक्षिणे ।
सत्यकस्य पदं चैकमादित्यस्य तु दक्षिणे ॥ ६७ ॥
भृशस्यैकपदं प्रोक्तं सत्यकस्य तु दक्षिणे ।
अन्तरिक्षस्यैकपदं वह्निकोणास्य चोत्तरे ॥ ६८ ॥

v3.c24.s7.6

पूपस्य(प्यश्च) पदमेकं स्याद्याग्निकोणस्य पश्चिमे ।
विधात(तथ)स्य पदं चैकं पूषकस्य तु पश्चिमे ॥ ६६ ॥
गृहक्षतस्यैकपदं विधात(तथ)स्य पश्चिमे ।
गन्धर्वस्य पदं चैकं धर्मदेवस्य पश्चिमे ॥ ७० ॥
भृङ्गराजस्यैकपदं गन्धर्वस्य तु पश्चिमे ।
मृध(मृश)स्यैकपदं शस्तं भृङ्गराजस्य पश्चिमे ॥ ७१ ॥
दौवारिकस्यैकपदं गगनस्य तु चोत्तरे ।
सुग्रीवस्य पदं चैकं दौवारिकस्य चोत्तरे ॥ ७२ ॥
पुष्पदन्तस्यैकपदं सुग्रीवस्य तु चोत्तरे ।
असुरस्यैकपदं शस्तं वरुणस्य तु चोत्तरे ॥ ७३ ॥
शोषकस्य पदं चैकं चासुरस्य तु चोत्तरे ।
रोगस्यैकपदं प्रोक्तं शोषकस्यैव चोत्तरे ॥ ७४ ॥
नागस्यैकपदं शस्तं पवनस्य तु पूर्वके ।
मुख्यस्यैकपदं ज्ञात्वा नागस्यैव च पूर्वके ॥ ७५ ॥
भल्लाटस्य पदं चैकं प्रोक्तं मुख्यस्य पूर्वके ।
सोमस्यैकपदं शस्तं सोमदेवस्य पूर्वकम् ॥ ७६ ॥
अदितेस्तु पदं चैकं शस्तं मृगान्तु(गस्य) पूर्वके ।
अदितीशानयोर्मध्ये चोदिते(तै)कपदं भवेत् ॥ ७७ ॥
हेमवर्णं चतुर्हस्तं चतुर्वक्राष्टलोचनम् ।
श्वेतवस्त्रजटामौलियज्ञसूत्रोत्तरीयकम् ॥ ७८ ॥
कर्णकुण्डलसंयुक्तमष्टकर्ण चतुर्गलम् ।
कमण्डलुं चाक्षमाला च वामसव्यकरौ(राभ्यां) धृतौ(तम्) ॥ ७९ ॥
अभयं(ये) दक्षिणे पूर्वेऽन्तस्य वा वरदे [इ]तरे ।
सर्वाभरणसंयुक्तं गण्डेन तिलकान्वितम् ॥ ८० ॥
पदे सर्वेषु मध्ये तु सृष्ट्यर्थमिति रूपकम् ।
एवं पितामहं ध्यात्वा(येत्) पद्मसिंहासनोपरि ॥ ८१ ॥
रक्तवर्णं चतुर्हस्तमेकवक्त्रं द्विनेत्रकम् ।
करण्डमकुटोपेतं रक्तवस्त्रोत्तरीयकम् ॥ ८२ ॥

v3.c24.s7.7

सर्वाभरणसंयुक्तं परहस्तौ चाब्जधारिणौ (धृताब्जकौ) ।
पूर्वे च त्वभयं (यं) सर्वे (र्वो) वरदं (दौ) वामहस्तकौ ॥ ८३ ॥
एवमार्यदेवस्य [च] ध्यात्वा धेनुञ्च पूर्ववत् ।
श्वेतवर्णं चतुर्हस्तं परे पाशाङ्कुशौ धृतौ ॥ ८४ ॥
शेषमा (षं तथा) र्यवत्प्रोक्तं ध्यात्वा देवं विवस्वत(न्त)म् ।
श्यामवर्णा (र्णंः) तु मित्रं (त्रः) स्याच्छेषं पूर्ववदाचरेत् ॥ ८५ ॥
भूधरं हेमवर्णं तथाब्जपाशापरं (रे) करे ।
शेषं प्रागुक्तवद्ध्यात्वा वास्तुभूतोपरिस्थितम् ॥ ८६ ॥
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ।
श्वेतवर्णातिरिक्तार्थं हेमवर्णीशुकाम्बरम् ॥ ८७ ॥
सर्वाभरणसंयुक्तं वरदं चाङ्कुशोधृतम् (च धृताङ्कुशम्) ।
अपवत्समिति प्रोक्तं चापवत्साञ्च (स्यं च) रक्तकम् ॥ ८८ ॥
शेषं प्रागुक्तवद्ध्यात्वा समिन्द्रं (सवित्रं) रक्तवर्णवत् ।
द्विभुजान्तं समुद्धृत्य शेषं तत्पूर्ववद्भवेत् ॥ ८६ ॥
साविन्द्र (श्रं) श्यामवर्णा (र्णी) वा (च) रक्तवस्त्रोत्तरीयकम् ।
इन्द्रस्य रक्तवर्णं च चेन्द्रराजस्य हेमवत् ॥ ६० ॥
सर्वाभरणसंयुक्त(क्तं) रौप्य (रूप) दृष्टिसमन्वितम् ।
शेषं पूर्ववदुद्दिष्टं ध्यात्वा शेषं तु पूर्ववत् ॥ ६१ ॥
रुद्रौ च रक्तवर्णौ च द्विभुजौ च त्रिनेत्रकौ ।
त्रिशूलौ वरदौ चैव चर्माम्बरोत्तरीय कम् (कौ) ॥ ६२ ॥
जटामकुटसंयुक्तौ सर्वाभरणभूषितौ ।
वृपारूढां (ढं) सदेवीं च व्याघ्रचर्माम्बरं (रं) तथा ॥ ६३ ॥
श्वेतवर्णनिभं चैव सर्वाभरणशोभितम् ।
दक्षिणे च करे ऽङ्कूं (टङ्कं) हरिणीं वामके करे ॥ ६४ ॥
अभयं पूर्वके ऽसव्ये वरदं वामहस्तके ।
ईशमूर्तिमिति ध्यात्वा रक्तवर्णं च शीष्पतम् (शचीपतिम्) ॥ ६५ ॥
द्विभुजं च द्विनेत्रं च र(त)श्चैरावतवाहनम् ।
वराङ्कुशधरं देवं सर्वाभरणभूषितम् ॥ ६६ ॥

v3.c24.s7.8

नीलाम्बरधरं चैव यज्ञसूत्रोत्तरीयधृत्(तम्) ।
अग्निवर्णं चाग्निदेवं मेषवाहनसंयुतम् ॥ ९७ ॥
द्विभुजं च त्रिनेत्रं च ज्वालासदृशमूर्ध्वजम् ।
स्रुक्स्रुवं पाणियुगले स्वाहादेव्या च संयुतम् ॥ ९८ ॥ 196
सर्वाभरणसंयुक्तं शेषं प्रागुक्तवद्भवेत् ।
महिषारूढं त्रिणे(ने)त्रं च ज्वालासदृशकुन्तलम् ॥ ९९ ॥
त्रिशूलं दक्षिणे हस्ते पाशं वामकरेऽधरे ।
धूम्रवर्णं रक्तवस्त्रं देव्या यम्या च संयुतम् ॥ १०० ॥ 200
यमं ध्यात्वा यथोक्तवत् सर्वाभरणभूषितम् ।
नरारूढं निर्ऋतिं द्विभुजं च द्विनेत्रकम् ॥ १०१ ॥
[श्र] सव्यहस्ते गदां चैव वरदं वामहस्तके ।
श्यामवर्णो(र्यामि)न्द्रेन्द्र्यां(न्या) च संयुक्तं रक्तवस्त्रकम् ॥ १०२ ॥ 204
करण्डमकुटोपेतं ध्यात्वा शेषं तु पूर्ववत् ।
वरुणं मकरारूढं भरण्या सह सेवितम् ॥ १०३ ॥
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ।
पाशाङ्कुशधरं चैव धवलं रक्तं(क्त)वाससम् ॥ १०४ ॥ 208
यज्ञसूत्रोत्तरीयं च नानाभरणभूषितम् ।
वायुदेवं मृगारूढं मारुत्या सह सेवितम् ॥ १०५ ॥
द्विभुजं च त्रिनेत्रं च पाशं च वरदं तथा ।
शेषं च पूर्ववद्ध्यात्वा शशिरूपमिहोच्यते ॥ १०६ ॥ 212
द्विभुजं च द्विनेत्रं च पङ्कजद्वयधारिणम् ।
अश्वारूढं चन्द्रिकया संयुक्तं श्वेतवर्णकम् ॥ १०७ ॥
श्वेताम्बरधरं यज्ञसूत्रं च मकुटान्वितम् ।
सर्वाभरणसंयुक्तं सौम्यं ध्यात्वा यथोक्तवत् ॥ १०८ ॥ 216
पर्जन्यं रक्तवर्णं च महा(जय)न्तं श्यामवर्णकम् ।
महेन्द्रं पीतवर्णं च द्विभुजं च द्विनेत्रकम् ॥ १०९ ॥
करण्डमकुटोपेतं सर्वाभरणशोभितम् ।
पाशपद्मावधारौ च (दाधरौ चैव) रक्तवस्त्रोत्तरीयकौ (कम्) ॥ ११० ॥ 220

v3.c24.s7.9

सत्यं च श्वेतवर्णं च भृङ्गेशं धूम्रवर्णकम् ।
नीलवर्णं चान्तरिक्षं च द्विभुजं च द्विनेत्रकम् ॥ १११ ॥
दण्डं पाशं च शूलं च वरदं च यथाक्रमम् ।
शेषं च पूर्ववद्ध्यात्वा सर्वाभरणभूषितम् ॥ ११२ ॥ @H 224
पूषं च (पाशं) रक्तवर्णं च वितथं [च] पीतवर्णकम् ।
गृहक्षतं कृष्णवर्णं [च] यमर्कं रक्तपीतकम् ॥ ११३ ॥
गदा (दां) शूलञ्च (लं च) शक्तिञ्च (क्तिं च) त्रयः पाशौ समुद्धृतौ ।
शेषं पूर्ववदुद्दिष्टं करण्डमकुटान्वितम् ॥ ११४ ॥ @H 228
गन्धर्वं रक्तवर्णं च भृङ्गस्याञ्जनवर्णकम् ।
मृशस्य धूम्रवर्णं च शेषं प्रागुक्तवद्द्भवेत् ॥ ११५ ॥
दौवारिकः (कं) श्यामवर्णं सुग्रीवं रक्तवर्णकम् ।
पुष्पदन्तं तथा कृष्णं गदापाशोद्धृतं तथा ॥ ११६ ॥ @H 232
शेषं पूर्ववदुद्दिष्टं वस्त्रं च मकुटद्वयम् ।
असुरं कृष्णवर्णं च शोषस्य धूस्रवर्णकम् ॥ ११७ ॥
रोगं च कृशरूपं स्याद्रक्ताक्षौ (क्षं) श्वेतवर्णिकौ (कम्) ।
शूलं कपालं चोद्धृत्य शेषं प्रागुक्तवद्द्भवेत् ॥ ११८ ॥ @H 236
भुजङ्गाननं नागस्य पीतवर्णकरद्वयम् ।
मुसलं शूलमुद्धृत्य सर्वाभरणभूषितम् ॥ ११९ ॥
मुख्यं गजमुखं चैव द्विभुजं मकुटान्वितम् ।
रक्तवर्णांशुकोपेतं श्यामवर्णांशशोभितम् ॥ १२० ॥ @H 240
पाशाङ्कुशोद्धृतौ हस्तौ सर्वाभरणभूषितम् ।
भल्लाटं मेषवक्त्रं च जयं (शेषं) तत्पूर्ववद्द्भवेत् ॥ १२१ ॥
मृगस्य मृगवक्त्रं च मृगवर्यानि (र्णां च) मौलिका (कम्) ।
शूलं च खेटको (कमु) द्धृत्य अ (चा) दितिं नीलवर्णिक (का ) म् ॥ १२२ ॥ @H 244
खड्गं कपालमुद्धृत्य मकुटाभरणान्वित ( ता ) म् ।
उदितं रक्तवर्णं च सिंहवक्त्रं गदाधरम् ॥ १२३ ॥
शेषं प्रागुक्तवद्ध्यात्वा चैवं प्रोक्तं पदेऽमरात् ।
चरकी श्वेतवर्णा च विदारी रक्तवर्णिका ॥ १२४ ॥ @H 248

v3.c24.s7.10

पूतना श्यामवर्णा च नीला स्यात्तापराधसी ।
एवं चतुर्विधाः प्रोक्ताः शूलं कपालमुद्धृतौ ॥ १२५ ॥
रक्तवस्त्रधरास्तासां दंष्ट्रा[चा] प्रविलोचनी(ने) ।
रक्तकेशीविकीर्णाश्च चैशादिकर्णयोर्व(कर्णानां च) हिः ॥ १२६ ॥
252
स्थितवास्तुपुरुषोर्ध्वे(पे)तन्ब्रह्मादिदै(दै)वतान्यस्थितान् ।
तद्वास्तुपुरुषं ज्ञात्वा ब्रह्मांशं मध्यकायं च ॥ १२७ ॥
आर्यस्य च पदे मूर्द्धि(र्धा) प्रागुदङ्मुखतो विदुः ।
ऐशाने कोणसूत्रे तु सव्यहस्तं प्रसारितम् ॥ १२८ ॥
256
नैर्ऋत्ये कोणसूत्रे तु सव्यपादं प्रसारितम् ।
अग्निकोणे तु सूत्रे तु [अ]सव्यहस्तं प्रसारितम् ॥ १२६ ॥
वायुकोणे च सूत्रेत्वा(तु वा)मपादं प्रसारितम् ।
विवस्वति पदे चैव दक्षिणं पार्श्वमीरितम् ॥ १३० ॥
260
भूधरस्य पदे चैव वामपार्श्वं विधीयते ।
मित्रस्य च पदे चैव ज्ञात्वा मेद्रमुदीरितम् ॥ १३१ ॥
कर्णे मर्मशिरा प्रोक्ता षड्विशद्(वंशं) हृदये कचम(यमेकम्) ।
पश्चिमे दक्षिणे वंशे। मूलं तत्रागुदमयोः ॥ १३२ ॥
264
एवं वास्तुपुरुषं कुब्जं च कुटिलि(ल)कं कृशम् ।
वास्तुवस्तु प्रयत्नेन देवानां तु नृणां तथा ॥ १३३ ॥
शुभाशुभविधातारं तस्याङ्गानि (ङ्गानि) न पीडयेत् ।
अज्ञानादङ्गहीनं च( चेत् ) कर्ता चैव विनश्यति ॥ १३४ ॥
268
तस्मात्तु शिल्पिभिः(नः) प्राज्ञैः(ज्ञ) ऊहापोहान्न योजयेत्(युः) ।
देवानामपि सर्वेषां ब्रह्मांशां(शो) पश्य(बलिं) ते विदुः ॥ १३५ ॥
तत्तत्पदेऽमरान् सर्वान् स्थितान्भक्ति प्रदक्षिणम् ॥ १३६ ॥

v3.c24.s7.11

इति मानधारे वास्तुशास्त्रे पदविन्यास लक्षणं नाम सप्तमोऽध्यायः ।

बलिकर्मविधानम्

v3.c24.s8.1

बलिकर्मविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
ग्रामादीनां च सर्वेषां विन्यासार्थं बलिं क्षिपेत् ॥ १ ॥
वास्तुशुद्धिं ततः कृत्वा देवतार्थं पदं न्यसेत् ।
मण्डूकपदमेवाऽपि परमशायिकमेव वा ॥ २ ॥
ब्रह्मादिदेवतानां च राक्षसानां बलिं क्षिपेत् ।
कृतोपवासः स्थपतिः शुद्धदेहः प्रसन्नधीः ॥ ३ ॥
उत्कृष्टवेषो बल्यर्थं रात्रौ द्रव्यान्(णि) समाहरेत् ।
प्रभाते दिवसे द्रव्याने(ण्ये) कैकाने(न्ये)ककन्यकः ॥ ४ ॥
अथवा गणिकाहस्ते पात्रे स्वर्णादिकान्धृता[न्] ।
स्थपतिश्चैकपात्रेण धारयेद्वामके करे ॥ ५ ॥
द्रव्याणि क्षिप्य(प्त्वा) दद्यात्स्वसव्यहस्तेन मन्त्रवित् ।
सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः ॥ ६ ॥
सर्वमङ्गलघोषैश्च बलिं दत्वा यथाक्रमात्(क्रमम्) ।
तत्तन्नाम्नैश्च (म्ना च) देवानामोङ्कारादिनमोन्तकम् ॥ ७ ॥
मन्त्रमेतत् (तम्) समुच्चार्य ब्रह्मादिभ्यो बलिं हरेत् ।
देवालय pickार्थं सामान्यं ग्रामार्थं तु विशेषकम् ॥ ८ ॥
दध्योदनं च सर्वं तत्सामान्यं च बलिं विदुः ।
ब्रह्मादीनां च देवानां धूपदीपाक्षतैरपि ॥ ९ ॥
अद्य वक्ष्ये विशेषाख्यं बलिं शास्त्रोक्तवत्क्रमात् ।
स्रग्गन्धधूपदुग्धं च मध्वाज्यं पायसमो(सौ)दनम् ॥ १० ॥
ब्रह्मणे च बलिं दद्याद्वाजैन सह तन्त्रवित् ।
आर्याय फलभक्ष्यं स्यात्तिलमोदनकं दधि ॥ ११ ॥
पश्चाद्विवस्वते दद्याद्दधिपूर्वां(वं) च मर्द(मित्र) के ।
महीधराय क्षीरं स्यादभ्यन्तरबलिं(लिः) स्मृतम् (तः) ॥ १२ ॥

v3.c24.s8.2

पर्जन्यस्य तु तत्प्रोक्तं पुष्पं च नवनीतकम् ।
दत्वा ज(याजा)यन्ताय बलिं पुष्पकोष्ट(पिष्टं) महेन्द्रके(न्द्राय) ॥ १३ ॥
मधुगन्धो(न्धे) भास्करः(राय) स्यात्सत्याय मधुरे(धे)व च ।
नवनीतं भृशस्योक्तं गगने(नाय) च ततो बलिम् ॥ १४ ॥
हारिद्रचूर्णमापान्तं दुग्धाहार्य(र्ब्यं) सा(त) गराय तु ।
शुद्धक्षीरं तथा चाग्नेः परमान्नं तु पुष्णिके(क्षं पुष्णास्तथा) ॥ १५ ॥
वितथे स्यात्तु (थस्य तु) पक्वान्नं राक्षसस्यं तु मांसकम् ।
चामाम्नं तु सरं प्रोक्तं बलिं चा(लिञ्चा)न्तकरस्य वै ॥ १६ ॥
अगुरुं गन्धकं चैव गन्धर्वस्य बलिं क्षिपेत् ।
पारावारभष(षो) भृङ्गराजस्य बलिरिष्यते ॥ १७ ॥
दध्योदनं भृशस्योक्तं नैऋत्ये तु (त्यस्य) बलिं त(ल्लिस्त)तः ।
तिलपिण्डौदनं प्रोक्तं बीजं दौवारिके(क)बलि(लिः) ॥ १८ ॥
सुग्रीवे(वस्य) मोदकं प्रोक्तं पुष्पदन्तम(न्ताया)तःपरम् ।
पुष्पतोयं बलिं दत्वा(द्यात) पायसान्नं तु वारुणे(णें) ॥ १९ ॥
असुरस्य बलिं(ली) रक्तं शोषे(षस्य) तिलतण्डुलम् ।
रोगस्य शुष्कमत्यं स्याद्धरिद्रौदनं मारुतः ॥ २० ॥
नागस्यैव बलिं लांजं (लिर्जाजा) धान्यचूर्णं हि मुख्यके(मैख्याकः) ।
गुडौदनं च भल्लाटे(भाल्लाटः) क्षीरान्नं तु शशाधराः (शशधरः) ॥ २१ ॥
मृगे(गस्य) शुष्कमांसं तं(तु) मोदकं देवमन्तरे (देवान्तरस्य) ।
तिलपुष्पं बलिं दत्वा च(दद्यादु)दितस्य फलं भवेत् ॥ २२ ॥
दुग्धौदनमाल्यं चैव भवेन्मत्स्य(त्स्यो) बलिं त(लिस्त)तः ।
सवित्रे वासथा(वाश्च धा)न्यं च स(सा)वित्रे कर्त(गुड)तोयकम् ॥ २३ ॥
बन्ध(सर्व)मेतत् स(च) बलिन्द्रै(बलिमिन्द्राय) मुद्रफले(लमि)न्द्रराजके(काय) ।
माषं रुद्रबलिं दत्वा मां(शान्मां)सं रुद्रजये(याय) तथा ॥ २४ ॥
शुद्धात्नमापवत्सयाश(स्याय) च कुमुदं सुद्रौदनम् ।
अपवङ्गलिमिति प्रोक्तं (लिरित्युक्तो) न पदा(दे) बलिं इहो(लिङ्क)च्यते ॥ २५ ॥
अजशङ्कस्य(ङ्गयोः) मांसं च मृगमांसं तथैव च ।
रक्तमिश्रं बलिं दत्वा(द्यात्तु) पापराक्षसस्ये(स्या इ) ति स्मृतम् ॥ २६ ॥

v3.c24.s8.3

पूतनायै तिलं पिष्टं विदार्यै लवणान्नकम् ।
चरक्यै(चरक्यै) मुद्गसारं च ए(ह्ये)वं तु बलिरिष्यते ॥ २७ ॥
एवं तु पूजयेद्देवान् ग्राम्ययेद्र(ग्रामस्य र)क्षयार्थकम् ।
ब्रह्माद्या(दिरा)क्षावपवञ्चेति चतुर्देवपदे स्थितम्(तः) ॥ २८ ॥
अन्याश्च देवताः सर्वे(र्वाः) पदबाह्ये स्थिताः सदा ।
इह ग्रामस्य रक्षार्थं सुप्रसन्ना भवन्तु ते ॥ २९ ॥
इति मन्त्रं समुच्चार्य प्रार्थयेद्बलिदेवताः ।
बलिकर्मविधाने तु स्थपतिः स्वं शिवं स्मरेत् ॥ ३० ॥
किमर्थमेतत्(द्)सुराणां(र) भूतप्रेतोपशान्तये ।
अकृत्वा बलिकर्मन्तु(र्मं तु) विन्यस्तं समचावयम्( च समुच्चयम् ) ॥ ३१ ॥
विन(ना)श्यति(ते) तदा भूमिः राक्षसैर्विदारुणैः ।
तद्दोषोपगमार्थं तु बलिकर्म समाचरेत् ॥ ३२ ॥
उक्तमार्गं बलिं(लि)कर्म कुर्वतः ग्रामराम्भुनिलयादिभिः सदा ।
पुष्टि[स्]तुष्टिरपि शान्तिर्मङ्गलं सर्वदा भवति कर्तृभक्तिः ॥ ३३ ॥

v3.c24.s8.4

इति मानमारे वास्तुशास्त्रे बलिकर्मविधानं नाम अष्टमोऽध्यायः ।

ग्रामलक्षणम्

v3.c24.s9.1

वक्ष्येऽहं ग्रामविन्यासं शास्त्रे संक्षेपतः क्रमात् ।
दण्डकं सर्वतोभद्रं नन्द्यावर्तं तु पद्मक्रम् ॥ १ ॥
स्वस्तिकं प्रस्तरं चैव कार्मुकं च चतुर्मुखम् ।
एवं चाष्टविधं ग्रामं तत्तद्रूपेण संज्ञितम् ॥ २ ॥
प्रथमं ग्राममानं च द्वितीयं पद(दं) विन्यसेत् ।
तृतीयं तद्बलिं दत्वा चतुर्थं ग्राम(मं) विन्यसेत् ॥ ३ ॥
पञ्चमं गृह(हं) विन्यस्य तत्र गर्भं विनििक्षिपेत् ।
षट्ठं गृहप्रवेशं च तन्मानमधुनाच्यते ॥ ४ ॥
धनुर्महैश्च यद्दण्डं तद्दण्डेनापेयेद्बुधः ।
पञ्चविंशतिदण्डाद्यैः(द्यै।) द्विद्विदण्डविवर्धनात् ॥ ५ ॥
एकाधिकशतान्तं स्यान्नवत्रिंशद्विशालकम् ।
एवं तु दण्डकं प्रोक्तं तस्यायाममि(म इ) होच्यते ॥ ६ ॥
विस्ताराद्द्विद्विदण्डेन वर्धयेत्रिगुणान्तकम् ।
यः(यतः) शुभायादिकमर्धं दण्डहीनाधिकं तु वा ॥ ७ ॥
वानप्रस्थमिदं योग्यं क्षुद्रदण्डकमीरितम् ।
एकत्रिंशतिदण्डा(शद्दण्डमा) द्ये द्विद्विदण्डेन वर्धनम् ॥ ८ ॥
सप्ताधिकशतान्तं स्यात्सप्तषष्ट्विशालकम् ।
दीर्घं प्रागुक्तवत्कुर्यादितद्दण्डक(कं) मध्यमम् ॥ ९ ॥
सप्तत्रिंशतिदण्डादि(शद्दण्डमादौ) द्विद्विदण्डविवर्धनात् ।
त्रयोवेददशाधिक्यशतदण्डावसानकम् ॥ १० ॥
दण्डकं चोत्तमं पञ्चचत्वारिंशद्विशालकम् ।
एतत्तु दण्डकं प्रोक्तं भूसुराणां तु योग्यकम् ॥ ११ ॥
पञ्चाशद्दण्डमारभ्य द्विद्विदण्डविवर्धनात् ।
द्विशतं दण्डान्तकं स्यात् षट्सप्ततिविशालकम् ॥ १२ ॥

v3.c24.s9.2

षष्टे तु (षष्ट्यैकं) दण्डमारभ्य द्विद्विदण्डविवर्धनात् ।
सैकार्कत्रि(त्रि)शतं दण्डाद्(ण्डं) त्रि(शत) सप्तद(र्विं) शविस्तृतम् ॥ १३ ॥
युग्मायुग्मं तु दण्डेन सर्वतोभद्रमेव च ।
भूसुरामरयोग्यं स्यात्तदायामविशालकम् ॥ १४ ॥
नन्द्यावर्ते (न्द्यैकत्रि) ग्राम माम (मे) द्विद्विदण्डविवर्धनम् ।
पञ्चषष्ट्यधिकं पञ्चशतदण्डावसानकम् ॥ १५ ॥
एव(वं) पञ्चद्विशतं विशालं परिकीर्तितम् ।
विस्तारायामस्तत्तुल्यो [पादोनेाऽप्यधिकस्तथा] ॥ १६ ॥
(विस्ता) रं द्विद्विदण्डेन वर्धयेद्द्विगुणान्तिकम् ।
नन्द्यावर्तमिदं प्रोक्तं कर्तव्यं (वसन्त्यं) देवभूसुरैः ॥ १७ ॥
[अथ्रातः] पद्मक्रनामग्रामलक्षणमुच्यते ।
शतदण्ड(ण्डं) समारभ्य द्विद्विदण्डविवर्धनात् ॥ १८ ॥
एकसहस्रदण्डान्तं(न्तो) विस्तारं तत् समं मतम् (रस्तत्समो मतः) ।
परमाधिकपञ्चाशच्चतुःशतविशालकम् ॥ १९ ॥
विप्रयोग्यं तथा पद्ममेवमुक्तं पुरातनैः ।
[एतच्चत्वारि] ग्रामविस्तारप्रमाणलक्षणम् ॥ २० ॥
[अथ] स्वस्तिकविन्यास (विस्तार) मानलक्षणमुच्यते ।
एकद्विशतदण्डादौ विंशदण्डविवर्धनात् ॥ २१ ॥
द्विसहस्रं (स्रे) कदण्डान्तं(न्तो) विस्तारं(रः) परिकीर्तितम् (तः) ।
तस्माद्विंशतिदण्डेन वर्धयेत्तत्समाधिकम् ॥ २२ ॥
तस्यायाममिदं (मो ह्ययं) प्रोक्तं (क्तः) स्वस्तिकं भूपयोग्यकम् ।
[अतःपरं] प्रस्तरविन्यास (विस्तार) लक्षणमुच्यते ॥ २३ ॥
त्रिशतदण्डमारभ्य शतदण्डविवर्धनात् ।
सहस्रद्वयदण्डान्तं प्रस्तरं विस्तृतं भवेत् ॥ २४ ॥
सप्तषष्टिदण्डादौ द्विद्विदण्डविवर्धनात् ।
युग्मायुग्मं तथा वाऽपि दण्डं पञ्चशतान्तकम् ॥ २५ ॥
एतत्(एष) कार्मुकविस्तारं त(रस्त)स्यायाममि(म इ)होच्यते ।
तस्मात्तु शतदण्डेन वर्धनाद्दिगुणान्तिकम् ॥ २६ ॥

v3.c24.s9.3

एवं तु वैश्यकानां तु योग्यं तत्कार्मुकं भवेत् ।
त्रिंशद्दण्डं समारभ्य त्रित्रि(द्विद्वि)दण्डविवर्धनात् ॥ २७ ॥
शतदण्डावसाने(नः) स्याद्विस्तारं(रः) परिकीर्तितम् (तः) ।
तत्तत्त्रित्रि द्विद्ण्डेन वर्धये गुणान्तकम् ॥ २८ ॥
एवं चतुर्मुखं प्रोक्तं शूद्राणामेव योग्यकम् ।
मुख्यगेहप्रदेशान्तं विस्तारायाम (मं) कल्पयेत् ॥ २६ ॥
तद्वृद्धिः परितः कुर्यात्सप्तात्तु तदनन्तरं ।
दशादिशतदण्डान्तं द्विद्विदण्डेन वर्धनात् ॥ ३० ॥
एवं ग्रामं (म) प्रसारं च तद्वृद्धिर्वप्रसंयुक्तम् ।
परितः परिखा(खां) बाह्ये कुर्याद्ग्रामेषु सर्वशः ॥ ३१ ॥
एतेषां ग्रामरूपाणामायादिलक्षणं तथा ।
नन्दायामसमूहे वा चायते वाऽथ विस्तरे ॥ ३२ ॥
परिणाहे पदे वाऽपि आ(चा)यादिशुद्धं (द्धि) च कारयेत् ।
कंचिद्र्वायतने चैवमार्यं च तद्दिने भवेत् ॥ ३३ ॥
परिखाहे तिथिवारं व्यययोनिश्च विस्तरे ।
वसुभिर्गुणितं भानु[भि]र्हन्त्यायमष्टशिष्टकम् ॥ ३४ ॥
अष्टाभिर्वर्धिते ऋक्षं हृत्वा शेषं क्षपिष्यते ।
नवभिर्वर्धयेत्पङ्किः(ङ्ख्या) हृत्वा शेषं व्ययं (यो) भवेत् ॥ ३५ ॥
गुणभागं च योनि (निः) स्याद्वृद्धिहान्या (न्या) यथाक्रमम् ।
नन्दगुद्गश ऋषि(षिणा) हृत्वा तच्छेषं वारमेव च ॥ ३६ ॥
नवभिर्गुणिते त्रिंशन्(ता) चपेच्छेषं तिथिर्भवेत् ।
एवमायादिषड्वर्गं कुर्यात्तत्र विचक्षणः (णः) ॥ ३७ ॥
आयं सर्वहरं पूर्णं (पुण्यं) व्ययं सर्वगतेन हि ।
आयाधिक्यं व्ययं हीनं सर्वसम्पत्करं तथा ॥ ३८ ॥
आयहीनं (हानिर्) व्ययाधिक्यं सर्वदोषकरं भवेत् ।
शुभदं पूर्णनक्षत्रमशुभं कण्ठ-ऋक्षकम् ॥ ३६ ॥
युग्मायुग्माद्यतुर्यं षष्ठष्टनन्दशुभर्चयुक् ।
द्वितीयपर्यायस्यार्थे गणनैश्च शुभावहम् ॥ ४० ॥

v3.c24.s9.4

सितगुरुशशिबुधवारमेवं शुभं भवेत् ।
शुभयोगं(गो) भवेद्य(च्चे)त्तु वारदोषो न विद्यते ॥ ४१ ॥
सौरवारादिवारेषु वारयुक्तं चतुर्दिने ।
गर्योस्तु विशाखादिस्वातिकान्तं क्रमात्ततः ॥ ४२ ॥
गण्डं च मृत्युयोगं च सिद्धियोगमिदं(ति) विदुः ।
अमावास्या [म] ष्टमीं चैव (च) नवमीं च विवर्जयेत् ॥ ४३ ॥
अन्यथा शुभदं सर्वं तिथिरथं प्रशस्यते ।
अष्टमं (म) राशिवर्जं च अन्ये(तथान्ये) शुभराशयः ॥ ४४ ॥
गणे वा (चाऽऽ) सुरमानुष्यं विना अन्ये (न्यो) गणे (गो) शुभम् (भः) ।
सौरादियदि (शनि) वारान्तं तत्सर्वं त्रिगुण [स] समम् ॥ ४५ ॥
अश्विन्यादिदिने हृत्वा तच्छेषं नयने भवेत् ।
प्रथमं चैकनेत्रं च द्वितीयं च द्विनेत्रकम् ॥ ४६ ॥
तृतीयं च इति (तथा) प्रोक्तं नन्दात्षट्क्रमात् सुधी ।
अथ दण्डक [स्य ] विन्यास लक्षणं वक्ष्यतेऽधुना ॥ ४७ ॥
चतुरश्रायतं कृत्वा समतारं न विद्यते ।
चतुरश्रायतं वप्रं तद्वत्प्रायतमेव च ॥ ४८ ॥
एतत् (स्मिन्) त्रितयं वाऽपि पञ्चरथ्यामथापि च ।
तस्य मूलाग्रयोर्वीथीं न कुर्याद्वाऽथ कल्पयेत् ॥ ४९ ॥
तदेव तिर्यक्प्रथ्ये [ए] कवीथीं कृत्वा विना तथा ।
एकद्वित्रिचतुष्पञ्चदण्डं रथ्याविशालकम् ॥ ५० ॥
मध्यरथ्यावृता वीथी सममेवं विधीयते ।
अन्येषां चान्तरथ्यानां वा तत्समं तु वा ॥ ५१ ॥
मूलाग्रयोर्द्विरथ्या (ख्ये) च पत्तमेकं तथाश्रयम् ।
मुख्या वीथी द्विपञ्चं (चा) स्याद्गृहद्वारं त्रिदण्डकम् ॥ ५२ ॥
तच्चतुष्पञ्चदण्डं वा युक्ता षडृहविस्तृतम् ।
विस्तारद्विगुणं वाऽथ त्रिगुणं वा तदायतम् ॥ ५३ ॥
परितः परिखा बाह्ये वप्रयुक्तं तु कारयेत् ।
चतुर्द्वारं च संकल्प्य पूर्वाद्वि (दौ) च चतुर्दिशि ॥ ५४ ॥

v3.c24.s9.5

उपद्वारो(रमु)क्तवत्कुर्याद्विष्णुधिष्ण्यं तु पश्चिमे ।
तद्धामस्य बहिर्वाऽपि वरुणे च पदे तथा ॥ ५५ ॥
मित्रे चैव पदे चापि विष्णूमूर्तिं यथेष्टकम् ।
ईशे शङ्कर (रं) संस्थाप्य पर्जन्ये चोदिते तथा ॥ ५६ ॥
अन्तर्वाऽपि बहिर्वाऽपि यथेष्टकं (ष्टं) शिवहर्म्यकम् ।
एतद्दण्डकमित्युक्तं भूसुराणां तु योग्यकम् ॥ ५७ ॥
द्वादशैर्वि(शवि) प्रसंघं वा चतुर्विंशतिभूसुरान् ।
पञ्चाशद्द्विजसंघैश्च अ(ह्य)ष्टोत्तरशतं तु वा ॥ ५८ ॥
त्रिशतद्विजसंघैर्वा द्वादशं चेति मौनिनाम् ।
वनान्तरे पर्वते वा तथा चाश्रममीरितम् ॥ ५९ ॥
चतुर्विंशतिसंघं चेद्यतीनां ग्रामयोग्यकम् ।
एतत्तु नदीतीरे वा पुरमेतत्प्रकथ्यते ॥ ६० ॥
पञ्चाशद्गीक्षितानां तु नगरं तु (तन्) प्रशस्यते ।
अष्टोत्तरं [च] पञ्चाशद्गृहस्थानां तु मङ्गलम् ॥ ६१ ॥
विस्करिं (निकर) शतसंघैश्च कोष्ठमेवं प्रकथ्यते ।
अन्येषां विप्रसंघैश्च यथेष्टं नाम [प्र] कल्पयेत् ॥ ६२ ॥
अन्यान्यनुक्तं [क्तानि] सर्वेषां शास्त्रमार्गेण कारयेत् ।
सर्वतोभद्रविन्यासं (सं) लक्षणं वक्ष्यतेऽधुना ॥ ६३ ॥
चतुरश्रसमाकारं मण्डूकं (क) पद (दं) विन्यसेत् ।
अथवा स्थण्डिलं वाऽपि मध्ये तद्ब्रह्ममण्डपम् ॥ ६४ ॥
अथवा देवताहर्म्यं विष्णोर्वाऽथ शिवस्य वा ।
तपस्विनां यतीनां च पाषण्डाश्रमियां तथा ॥ ६५ ॥
ब्रह्मचारी (चारिणां) तथा योगिनां संघैर्यथेच्छया ।
एकद्वित्रिचतुष्पञ्चरथ्या वा परितस्तथा ॥ ६६ ॥
एकपञ्चान्तरथ्या च बाह्यरथ्या द्विपञ्चयुक् ।
पैशाचान्तपदैः सर्वैस्तेन वीथीं प्रकल्पयेत् ॥ ६७ ॥
पैशाचेशान्तराले महादिक्पाल (लो) बहिरिष्यते ।
तत्तद्वीथी द्विपञ्चं (चा) स्याद्गन्यावर्ताकृतिस्तु वा ॥ ६८ ॥

v3.c24.s9.6

अथवा कृतकृत्या च कर्णयुक्तम(क्ता चा)थापि च ।
ईशानादिचतुष्कणें मठं वा मण्डपं तु वा ॥ ६६ ॥
तत्रैव सत्रशाला वा आ(चाऽऽ)ग्नेये पानीयमण्डपम् ।
अन्यधर्मालयं सर्व यथेष्टं दिशितो (तु) भवेत् ॥ ७० ॥
अन्तरस्थे चतुष्कर्णे गुरोरेवं मठं भवेत् ।
रक्षार्थं वप्रसंयुक्तं परितः परिखान्वितम् ॥ ७१ ॥
चतुर्दिक्षु महाद्वारो(रमु)पद्वारसुचक्रवद्वेत् ।
महारथ्या[या]मालयं कुर्यात्सर्वकर्मोपजीविनाम् ॥ ७२ ॥
दक्षिणे वैश्यशूद्राणामालयं (य) श्रेणिरेव च ।
इन्द्रे(न्द्रश्)वाग्नि(ग्निसु)तयोर्मध्ये गोपालश्रेणिरेव च ॥ ७३ ॥
तद्बहिश्चैव गोशाला रक्षार्थ वप्रसंयुक्तम् ।
पितृवारुणयोर्मध्ये वस्त्रकर्मकरालयम् ॥ ७४ ॥
तद्बहिः सूचिकहर्म्यं तत्र चर्मकरालयम् ।
वायुवरुणयोर्मध्ये कर्मकरालयं भवेत् ॥ ७५ ॥
तद्बहिश्शालयं कुर्यान्मत्स्यमांसोपजीविनाम् ।
सौम्ये(म्यो) वायु(युस्)तयोर्मध्ये श्रीकरणानालयं भवेत् ॥ ७६ ॥
तत्र वैद्यालयं वाऽपि भ्र(चा)म्प्रष्टकालयमेव च ।
तस्य बाह्यप्रदेशे तु वल्कलैःक(लका) मंगालयम् ॥ ७७ ॥
तत्र तैलोपजीविनां गृहश्रेणिं प्रकल्पयेत् ।
ग्रामस्य वप्र(प्रं) तद्वाह्ये किञ्चिद्दूरे(रे ऽ)त्तरे(रस्यां) दिशि ॥ ७८ ॥
वैष्णव्याश्चाथ चामुण्डा[या] म्वा(चा)लयं कारयेद्बुधः ।
तस्माद्दूरे तु देशे च चण्डालकुटिकान्वितम् ॥ ७९ ॥
जनावासमिदं प्रोक्तं ग्रामाद्वाह्यप्रदेशके ।
दक्षिणे पश्चिमे वाऽपि नैर्ऋत्ये वाऽपि देशके ॥ ८० ॥
स्नानपानादिकं(क)योग्यं तडाकं कल्पयेत्ततः ।
शेषं तु शास्त्रमार्गेण कारयेच्छिल्पि(ल्प)वित्तमः ॥ ८१ ॥
नन्द्यावर्तस्य विन्यासकक्षणं वक्ष्यतेऽधुना ।
पूर्वोक्तदण्डमानेन विस्तारायामकल्पनम् ॥ ८२ ॥

v3.c24.s9.7

समविस्तारमायाममायाधिकमथापि वा ।
चण्डिताख्यपदं न्थासं [वाऽपि] मण्डूकं परिकल्पयेत् ।। ८३ ।।
ग्रामे चायत्तविस्तारौ समे(मौ) चेत्कल्पयेत्सुधीः ।
आयाधिकं यथा ग्रामे नन्दनन्दपदं भवेत् ।। ८४ ।।
अथवा स्थण्डिलं न्यस्य(सेत्) समायाममित्यपि वा ।
पदं च चण्डित (तं) तन्मध्ये ब्रह्माख्यं चतुष्पदम् ।। ८५ ।।
तद्बहिः परितो भागे दैककं च (द्वा) दशांशकम् ।
तद्वाह्ये विंशतिपदं परितो मानुषं भवेत् ।। ८६ ।।
तद्बहिश्श्रावृतांशेन पैशाचं चाष्टविंशति(तिः) ।
एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ।। ८७ ।।
मध्ये नवपदं बाह्ये दैककं षोडशांशकम् ।
तद्बहिर्मानुषं चैव चतुर्विंशपदं भवेत् ।। ८८ ।।
पैशाचं बाह्यमावतं त त्रिशकं पदम् ।
स्थण्डिलं (ल) पदमध्ये च ब्रह्माख्यस्यै(द्य ए)कमात्त्रकम् ।। ८६ ।।
दैककं चाष्टभागं स्यान्मानुषं षोडशांशकम् ।
तद्बहिश्च चतुर्विंशत्पदं पैशाचमेव च ।। ६० ।।
एषां पदैर्यथायोग्यं विन्यसेच्छिल्पि (ल्प) वित्तमः ।
तत्पैशाचपदं चोक्तं नन्द्यावर्ताकृतिर्भवेत् ।। ६१ ।।
प्राचीरथ्योत्तरा (रमार)भ्य स्याद्दक्षिणायत(तं) निर्गमम् ।
दक्षिणावीथीपूर्वादिपश्चिमायतनिर्गमम् ।। ६२ ।।
पश्चिमवीथी (ध्याः) दक्षिणया (द्या) दुत्तरायत(तं) निर्गमम् ।
उदग्विथी (ध्याः) प्रतीच्यादितत्पूर्वाद्यत (तं) निर्गमम् ।। ६३ ।।
नन्द्यावर्तावृतावीथीमे (ए) वमूहां (ह्या) विचक्षणैः ।
दक्षिण्योद्दूढयोर्वाऽपि प्राक्प्रत्यग्वि(द्वि) तयो [२] पि [वा] ।। ६४ ।।
अन्तर्वीथीनां मूलाग्रौ(ग्रयोः) चैकपर्च प्रयोजयेत् ।
पार्श्वयोश्च द्विविधं स्यात् पञ्चमुक्तं पुरातनैः ।। ६५ ।।
एवं बाह्यवीथी स्यादन्तर्वीधिरि(थी त्वि) होच्यते ।
आयते दीर्घरथ्या स्याद्विस्तारे दीर्घमेव च ।। ६६ ।।

v3.c24.s9.8

एकत्रिपञ्चसप्तंयां(सप्त)वीथी(ध्यः) पूर्वाः[^] पञ्चयुक् ।
एकद्वित्रिचतुष्पञ्चमार्गं वा परिकल्पयेत् ॥ ९७ ॥
एवं बहिर्गतं मार्गं तत्र पञ्च न कारयेत् ।
पञ्चयुक्ता तु वीथी स्यात्पञ्चहीने तु मार्गकम् ॥ ९८ ॥
महामार्गं तु सर्वेषां(वांसां) वीथीनां कर्करीकृतम् ।
मध्येषशं तु[ध्य एषां] यथारज्जुः(ज्जु) क्षुद्रमार्गं प्रयोजयेत् ॥ ९९ ॥
त्रिचतुः(तुष्)पञ्चदण्डं वा वीथीनां विस्तृतिर्भवेत् ।
षट्सप्ताष्टदण्डं वा नन्दपङ्कीशभानुषु(नुं वा) ॥ १०० ॥
केचि(काश्चि)द्रथ्या विशालाश्च सर्वेषां तत्समं तु वा ।
महामार्गविशालं [तु] यद्वोथीनन्दसमं तु वा ॥ १०१ ॥
महारथ्या(मार्ग)समं मध्ये वीथीविस्तारमिष्यते ।
मध्ये(वीथी) समं तु मध्ये [च] मार्गमेवं विशालकम् ॥ १०२ ॥
तदष्टांशोनमेवं वा त्रिपादं चार्थमेव वा ।
अन्यासां सर्ववीथीनां यथातत्सममेव वा ॥ १०३ ॥
तत्समं(सर्वासां) वा त्रिपादं वा महामार्ग(र्गं)विशालकम् ।
तत्त्रिपादार्थं तु विस्तारं क्षुद्रमार्गविशालकम् ॥ १०४ ॥
एवं विन्यासमुद्दिष्टं भूसुराणां तु योग्यकम् ।
अष्टाष्टाधिकं पञ्चाशदष्टोत्तरशतं तु वा ॥ १०५ ॥
त्रिंशत्तैर्(त्रिंशत्)वप्रसंख्या(विप्रसंघं) च अ(चाप्य)ष्टोत्तरसहस्रकम् ।
सहस्रत्रयव(वि)प्रं वा सहस्रैश्च चतुष्टयम् ॥ १०६ ॥
दे(दै)वमनु तु(मानुष)पैशाचे भूसुरान्(सुरैः) परिपूर्णकम् ।
एवं मङ्गलमाख्यातं यस्तु वास्तुर्(स्तुं) विनिर्दिशेत् ॥ १०७ ॥
नृपवैश्यादिजातीनामेवं चेत् पुरमुच्यते ।
वैश्यशूद्रादीनां योग्यमग्रहारं प्रशस्यते ॥ १०८ ॥
एवं मर्त्यपदेनान्तः भूसुराणां गृहान्वितम् ।
देवमानुषपैशाचे यद्वाजगृहमेव च ॥ १०९ ॥
तत्पैशाचपदे वैश्यशूद्रजात्यादिकालयम् ।
पैशाचे [च] द्विरथ्या वा त्रिचतुष्पञ्चषडेव वा ॥ ११० ॥

v3.c24.s9.9

सप्तकं(काः) वा तथा रथ्या वा [यथा] विशालं तथा न्यसेत् ।
दक्षिणे प्रथमारथ्ये(मरथ्यायां) वैश्यकानां तु वेश्मनि ॥ १११ ॥
वारुणे चक्रवर्ती स्याद्देवमालयस्य विधिः ।
अथ मित्रपदे चैव जयन्ते रुद्रजये तथा ॥ ११२ ॥
एवं राजगृहं प्रोक्तं तत्रैव(व) योधकालयम् ।
नैर्ऋत्ये च पदे देशे श्रीकरायां तु हर्म्यकम् ॥ ११३ ॥
सामन्तप्रमुखादीनामसुरे सोष्ट(शोप)केऽपि च ।
तत्रैवामात्यहर्म्यं स्यात्स्वामिकालयमेव च ॥ ११४ ॥
पुरोहितालयं सुग्रीवे पुष्पदन्तपदेऽपि च ।
दौवारिकश्च सुग्रीवे रक्षका[रा]लयं भवेत् ॥ ११५ ॥
गन्धर्वे रोगशोषे वा वाद्यकाद्यादेशलयम् ।
तत्रैव गणिकादीनां नृत्ययोग्यादिरा(दिका)लयम् ॥ ११६ ॥
वायव्ये वा नरे(नागे) वाऽपि नृपतीनां तथालयम् ।
नागे चाथवा मुख्ये वा नेत्ररत्नकरालयम् ॥ ११७ ॥
उत्तरे शल्यशालाश्च [तत्र] कञ्चकासका(कञ्चककारा)लयम्(यं वा) ।
अदितिश्नोदितश्चैव वैद्यकादितथा(दीनामा)लयम् ॥ ११८ ॥
ईशे वाऽथ जयन्ते वा चामरंचि[त]कालयम्[च] ।
महेन्द्रे वाऽथ सत्ये वा कीर्णिकाराजयं भवेत् ॥ ११९ ॥
भृशे वा चान्तरिक्षे वा आ(चा)ह्वयक्रम(कर्म)हर्म्यकम् ।
एवं प्रथमावरणे द्वितीयावरणमुच्यते ॥ १२० ॥
तैलोपजीविनां वाससंस्थितो(त ड)त्तरवीथिके ।
तत्रैव नानाहर्म्यं स्यात्कुब्जालालयमेव च ॥ १२१ ॥
मत्स्योपजीविनां वास(सं) मांसव्यापारिकादीनां च ।
पश्चिमे वाऽऽलयंश्रेष्ठिः किरातानां तु दक्षिणे ॥ १२२ ॥
आग्नेये वायवे वाऽपि रजकस्याह्वयं भवेत् ।
दक्षिणे पूर्वदेशे वा नृत्तकाराळयं भवेत् ॥ १२३॥
उत्तरे वा नैऋते वाऽपि सूति(चि)कारालयं भवेत् ।
एवं द्वितीयावरणे तृतीयावरणे(णमु)च्यते ॥ १२४ ॥

First 53 of 901 passages. Read on

Linked texts (8)